________________
* 50
रत्नप्रभसूरिविरचिता
[ III. § 34 : Verse 3171 कुमारेणोक्तम् । 'भगवन्, सा कुवलयमाला कथं बोध्या ।' भगवतादिष्टम् | 'सापि तत्र विजयपुर्या 1 चारणश्रमणकथानकेन स्मृतपूर्व जन्मवृत्तान्ता गाथाचतुर्थपादं राजद्वारे सर्वजनदृष्टं करिष्यति । तत्र गत्वा ३ गाथा पूरणतस्त्वमेव तां परिणेष्यसि । सा पुनस्तव महादेवी भविष्यति । ततस्तत्कुक्षिभूरेब पद्मकेसर- 3 स्त्रिदशः प्रथमः पुत्रो भावीति । तत्त्वमपाचीमभिगम्य कुवलयमालां प्रबोधय' इति निवेद्य सद्यः श्रमणेश्वरः ससार । सुपर्वापि 'अहं संबोध्यस्त्वया' इत्युक्त्वा गगने समुत्पपात । कुमारः 'भगवतादिष्टं कर्तव्यम्' " इति चिन्तयन् दक्षिणाभिमुखं चलितः पञ्चास्यं विलोक्य चिन्तयामासेति । 'यदयं साधर्मिको ऽथवा पूर्वसंगतः स्निग्धबन्धुरेकगुरुदीक्षितश्चानशनी च, अतो मयायमुपचर्यः । यद्यस्य कायपरित्राणं न करिष्ये तदायं केनापि व्याधेन शरैर्निहतो रौद्रध्यानवशमानसः श्वभ्रतिर्यग्दुःखभाजनं भावी' इति विचार्य 9 भव्यरीत्या तेन प्रतिजागरितो भणितश्चेति ।
6
'जनौ जनौ मृगेन्द्र त्वमबोधिर्बहुधा मृतः । तथा म्रियस्वेति यथा भूयः स्यान्न मृतिस्तव ॥ ३१७ ३५) एवं धर्मकथां श्रुत्वा तृतीय दिने हर्यक्षः क्षुधाक्षाम कुक्षिर्नमस्कारपरायणः समाधिना मृत्वा 12 सौधर्मे द्विसागरोपमायुः स्थितिः सुमनाः समुदपद्यत । ततः केसरिशरीरसंस्कारमाधाय कुमारः कुव- 12 लयचन्द्रो दक्षिणाभिमुखमचालीत् । ततश्च
गिरिनिर्झरझात्कारैर्वाचालितदिगन्तरम् । त्रिपत्रं सप्तपत्राढ्यं नवबाणडुबन्धुरम् ॥ ३१८ शाखिसून स्फुरद्गन्धलसमरविभ्रमम् । स्थाने स्थाने श्रूयमाणके किझंकार निःस्वनम् ॥ ३१९ दारुणश्वापदव्रातसंकुलं केतनं वनम् । कुमारः क्रमयन् प्राप विन्ध्यपर्वतकाननम् ॥ ३२०
त्रिभिर्विशेषकम् ॥ शुष्यमाण
18 तदा तत्र नखंपचवालुकानिवहे ज्लद्बहलदावानलनिर्गच्छद्भूमध्यामलितक कुम्मण्डले सर्वतः शाखिनि वात्यावियद्विवर्तितरजः संचये च प्रचण्डमार्तण्डकिरणदण्ड संशोषितक्षितितले भीष्म ग्रीष्म भरे • उदग्रतृषासंशुष्यद्गलतालुकः कुमारः सलिलावलोकनाय कंचिद्भूभागं बभ्राम |
21
ततस्तदन्तर्वसुधायोषिद्धाले विशेषकः । नृत्यत्रिदश सुन्दर्या भुवि स्रस्तं तु कुण्डलम् ॥ ३२१ 21 मुक्तावदातसद्वारि हारिवारिजराजितम् । वातावधूत किञ्जल्कलिप्तकाष्टाङ्गनामुखम् ॥ ३२२ क्रीडत्स्वर्गाङ्गना पीनवक्षोजक्षोभितोर्मिकम् । पालिद्रुमालिसंलीनकिंनरीगीतसंगतम् ॥ ३२३ 24 आवर्तमिव गङ्गायाः श्रीराम्भोधेरिवानुजम् । सुधाकुण्डमिवोद्धूतं कासारं स व्यलोकत ॥ ३२४ 24 चतुर्भिः कलापकम् ॥ तमालोक्योच्छु तिमिव हृदयेन, प्रत्यागतमिव बुद्ध्या सर्वथा प्राप्तमनोरथ इव कुमार: समभूत् । 27 तत्तीरस्थितेन कुमारेण चिन्तितम् | 'आयुर्वेदशास्त्रमध्ये मया श्रुतमासीत्, यत्किल दुस्सहक्षुत्तृषापरि- 27 श्रमभागिनापि देहिना तत्क्षणं पयो न पेयमिति । यस्मादेते सप्तापि धातवः प्रकुप्यन्ति, वातपित्तश्लेष्मादयो दोषा उत्पद्यन्ते, अतो मम श्रान्तस्य सद्यः शरीरप्रक्षालनपानादिकं नैवोचितम्' इति विचिन्त्य तत्ती30 रतरोरेकस्य तले क्षणमेकं विश्रम्य ततः कुमारः सरःसलिलावगाहनं पयःपानं च विदधे । ततः पुष्प- 30 फलस्पृहयालुः सर्वतः परिभ्रमन् कस्मिन्नपि प्रदेशे लतानिकेतने ऽप्रतिमां यक्षप्रतिमां यावन्निरूपयति तावत्तत्र यक्षशिरोदेशे सकलत्रैलोक्यबन्धोर्भगवतो ऽर्हतो मूर्तिर्मुक्तामयी तल्लोचनगोचरमागता । 33 कुमारस्तामालोक्य हर्षवश विकसल्लोचनः स्तुतिमाततान ।
33
जय त्रिभुवनाधीश जय निर्माय निर्मम । जय कारुण्यपाथोधे जय श्रेयः श्रियोनिधे ॥ ३२५ ९ ३६ ) ततः कुमारस्तां प्रतिमां जलेन प्रक्षाल्या हिमरुचिमरी चिवी चिपरिचयपेशलैः कमलैरभ्यर्च्य 36 भक्तिभृतस्वान्तः पर्यष्टौदिति ।
15
39
संसाराम्बुधिपापनीरलहरीमध्ये भृशं मज्जत
स्त्राता त्वं भुवनैकभूषणमणे त्वं नायकस्त्वं गुरुः । किंचान्यज्जनकस्त्वमेव जननी दीनत्वभाजो मम
14) पत्रप्त 15 ) C काक for केकि 18 ) B ककुब्मंडले. 21 ) B शेषकं for विशेषकः and B has a marginal gloss तस्य वनस्य मध्ये | भूत्री भालतिलकं । 27 ) PB दुःसहतृषाक्षुधा परिश्रमभाजिनापि 29 ) P पामारिकं for पानादिकं 30 ) P पय: पानं च बंधाय blank space स्पृहयालुः, B च विधाय भोजनविषये स्पृहयालुः.
Jain Education International
9
For Private & Personal Use Only
15
18
त्वं बन्धुस्त्वमिह त्वमेव शरणं त्वं जीवितं त्वं गतिः ॥ ३२६ अत्रान्तरे निर्मितातुलजलक्षोभा सरोवरोदरतः कापि कामिनी दिव्यरूपधारिणी निःससार । तां 42 च दृष्ट्वा चिन्तितं कुमारेण ।
42
36
39
www.jainelibrary.org