________________
18
-III. $ 38 : Verse 337] कुवलयमालाकथा ३
*51 1 'समुद्रनन्दिनी किंवा किंवा विद्याधरी वरा। किं वा सिद्धाङ्गना किंवा देव्यसौ व्यन्तरी किमु॥३२७ 1
तां चानु करकमलकृतजलभृतकनककलशा दिव्यसरोजादिपूजोपकरणपूर्णपटलिकाविहस्तहस्ता कुलिका 3 च निर्गता । ते च विलोक्य कुमारश्चिन्तयामास । 'ननु दिव्ये इमे, न ज्ञायते केन हेतुनात्रागते।' ततो 3 यद्यत्र प्रदेशे स्थास्यामि तदेतयोर्मनसि महान् क्षोभो भविष्यति, अतो ऽस्यैव यक्षस्य पृष्ठिभागे तिष्टामि क्षणमेकम् 'यथैते किं निमित्तमागते, किमत्र कुर्वाते' इति परिज्ञानाय तद्यक्षपृष्ठावतिष्ठत् । ततः सा 6मृद्वङ्गी भगवत्प्रतिमां सरोजैरर्चितां विलोक्य जल्पितवती । 'हे कुलिके, यदियमन्येनापि भगवतः 6 श्रीमदादिनाथस्य प्रतिमा केनाप्यर्चिता, परमिति न ज्ञायते यद्देवेन मानुषेण वा।' कुब्जिकयोक्तम् । 'अत्र वने शबरैरभ्यर्चिता भविष्यति ।' तयोक्तम् । 'नहि नहि विलोकय पदपद्धतिम्, यदस्यां वालुकाप्रति9 बिम्बितायां पद्मशङ्खाङ्कुशादीनि लक्षणानि लक्ष्यन्ते, ततो मन्ये कोऽप्युत्तमः पुमान्' इति वदन्ती 9 सुदती पूर्वपूजाकमलान्युत्सार्य भगवन्मूर्ति कनककलशगन्धोदकेन संस्मप्य विकचैरम्भोजैरभ्यर्च्य
स्तुतिमातन्य ततो यक्ष संपूज्य गीतं गातुं प्रवृत्ता। तस्या गेयं लय-ताल-तान-श्रुति-स्वर-मूर्छना12 ग्रामसुन्दरममेयगुणमाकर्ण्य कुलमनाः कुमारः 'अहो गीतम् , अहो गीतम्' इति वदन्नात्मानं प्रकटीचके। 12
सा च मृगलोचना रूपगुणकलाकलापकलिताय कुमारायाभ्युत्थानं विदधे । कुमारेणापि 'साधर्मिकवत्सलत्वम्' इति चिन्तयता प्रथममेव साभिवन्दिता । तया साध्वसत्रपाभरोत्कम्पकम्पमानस्तनभरया 15 सविनयं भणि
भणितम् । 'देव कस्त्वम्, विद्याधरश्चक्रवर्ती सुरो वा, कुतः समागतः, कयास्यसि' इति । अथ 15 भणितं कुमारेण । 'मनुष्यो ऽहं कार्यार्थी दक्षिणापथं प्रत्ययोध्यातश्चलितः । एष मम परमार्थः।
___एतस्मिन् [हि] महारण्ये का त्वं यक्षः क एष वै । एतस्य हेतुना केन शीर्षे मूर्तिर्जिनेशितुः ॥ ३२८ 18 एतच्चित्रं महञ्चित्ते मम संप्रति वर्तते । कुरङ्गनयने तावदेतदाशु निवेदय ॥' ३२९
३७)'हे कुमार, श्रूयताम् । ।
समस्तीह भुवि ख्याता पुरी स्वर्गपुरीनिभा । माकन्दी भूरिमाकन्दा सदादीनजनस्थितिः॥ ३३० 21 अरिष्टशब्दो निम्बे स्यात् कलियंत्र बिभीतके । पलंकषो गुग्गुलौ च जने नैव कदाचन ॥ ३३१ 21 तत्रास्ति यशदत्ताभिधः सूत्रकण्ठः श्रोत्रियः। स च कृष्णाङ्गः कृशशरीरः खरस्पर्शः प्रदृश्यद्धमनिजाल:
सदा दारिद्यमुद्राविद्रुतः। तस्य सावित्री प्राणप्रिया । तत्कुक्षिभवान्यपत्यानि त्रयोदश। तेषु चरमः 24 सोमनामा तनूजः। तस्मिन् जातमात्र एव संवत्सराणामधमा विशिका प्रविष्टा । तदनुभावेन द्वादश-24 वत्सरीमवृष्टिरजायत।
यत्रौषध्यो न जायन्ते न फलन्ति महीरुहः । निष्पद्यते न वा सस्यं तृण्या नैव प्ररोहति ॥ ३३२ 27 अतो देवार्चनं नैव नैवातिथिषु सक्रिया । वितरन्ति न वा दानं नार्चयन्ति जना गुरून् ॥ ३३३ एवंविधे महादुर्भिक्षे यज्ञदत्तकुटुम्बं समस्तमपि क्षयमियाय । केवलं स बटुः सोमः कनिष्ठपुत्रः ।। कथमपि कर्मवशतः क्षुधाभारोपरतसमग्रबन्धुवर्गः कदाचिद्राजमार्गे विपणिश्रेणिपतितैर्धान्यकणैः 30 कदाचिद्भोजनक्षणदत्तबलिपिण्डेन महता कष्टेन महदुष्कालकान्तारं व्यतीयाय । तदनन्तरं ग्रहगत्या 30 प्रजानां भाग्यवशतः प्रभूतं तोयं निपतितं, सर्वत्र प्रमुदितानि जनमनांसि, सर्वत्रैवोत्सवः प्रवृत्तः।
तस्मिन्नीहशे सुभिक्षे प्रवृत्ते सोमबटोः षोडशवर्षदेशीयस्य दरिद्र इति पदे पदे जनेन हस्यमानस्य 33 चेतसीदृशी चिन्ता संजाता।
33 'के ऽपि मर्त्यसहस्राणामुदरंभरयो नराः। प्राकृताहुष्कृतादात्मभरयो ऽपि न मादृशाः ॥ ३३४
तत्कृतं सुकृतं किंचिन्नैव पूर्वभवे मया । येन मे न भवत्येव दुस्थावस्था कदाचन ॥ ३३५ 36 सर्वदापि सुखेच्छा स्याल्लोकस्यामुष्य मानसे । न करोति परं किंचित् श्रेयो येन सुखी भवेत् ॥ ३३६ 36
६३८) तत्सर्वथैव धर्मार्थकामपुरुषार्थत्रयशून्यस्यास्मादृशजनस्य जीवितत्यजनमेव श्रेयस्तरम् , ___ अथवा न युक्तमेतत्, यत आत्मनो वध उचितो न । 39 ये त्यक्ता द्रव्यमानाभ्यां भवेयुभविनो भुवि । श्रेयांस्तेषां वने वासोऽथवान्यविषयान्तरे ॥ ३३७ 39
3) B यामास । अथ मया किं कर्तव्यमिति यद् अत्र प्रदेशे P has blank space for ननु दिव्ये etc.to ततो. 4) B पृष्टिविभागे. 5) P अति for इति. 13) B कलितस्य कुमारस्याभ्युत्थानं. 15) P has a gap shown by blank space for सविनय etc. to एतस्मिन् [हि], B भरयामाणि भो कुमार भवान् कुतः कुत्र किमर्थं याति । कुमारोऽप्यश्वापहारमारभ्य कुवलयमालाबोधं यावन्निवेद्यतां जगौ भद्रे महारण्ये. 17) B वा for वै. 21) B has a marginal gloss: ऽरिष्टशब्दो लिंबे वाचकः । न लोकेऽरिष्टशब्दप्रयोगः । कलिः कलहः । बिभीतकवृक्षश्च । पलंकषो गुग्गुलुः। पलं मांसं कषति विनाशयति पलंकषः ।. 22) B भिदः कठः श्रोत्रियः, B प्रदृश्यमानधमनिजालः (मान added on the margin). 26) तृणान्येव प्ररोहति but suggests an emendation thus: रोहन्ति तृणान्यपि'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org