________________
* 52
रत्नप्रभसूरिविरचिता
[ III. § 38 : Verse 338
1 ततो विदेशगमनमेव समीचीनम्' इति ध्यायन् सोमबटुर्माकन्दीपुरीतो निर्गत्य दक्षिणां दिशमा- 1 श्रित्य चलितः । क्रमेणानवरतप्रयाणेन कृतभिक्षावृत्तिर्विन्ध्यगिरेर्महाटवीमाटिवान् । तत्र तदातिमहानिदाघे तृषाक्षुधार्तः प्रभ्रष्टमार्गः सिंहव्याघ्रदर्शन वेपमानमानसः कस्मिंश्चित्सरसि पयः पीत्वा वनफलान्य- 3 भक्षयत् । तत्र तेन परिभ्रमता चन्दनैलालवङ्गलतागृहे भगवतः प्रथमतीर्थनाथस्य प्रतिमां निरीक्ष्य चिन्तितम् । 'अहो, पुरापि माकन्दीपुर्या मयेदृशी मूर्तिर्दृष्टा' इति विमृश्य तीर्थकृतः सपर्या विरचय्य पुरो 6 ब टुर्जजल्प | 'भगवन्, तव नामगोत्रगुणकलादिकं न जाने, किंतु भक्त्या त्वद्दर्शनेन भवच्चरणार्चनेन च 6 यत्किंचिद्भवति तद्भवतु' इति प्रार्थ्य रम्यो ऽयं वनाभोगः, प्रधानः सरोवरोद्देशः, कमनीयं लतागृहम्, फलिताः पादपाः, सौम्य एष देवः, मया च तहुस्सहदारिद्रयापमानकलङ्कितात्मना विदेशमपि गत्वा 'परप्रेष्येणैव भाव्यम् । का ऽन्या गतिरस्मादृशामकृतपूर्वतपश्चरणानाम् । यतः,
दूरं गतोऽपि नो मर्त्यस्त्यज्यते पूर्वकर्मभिः । रोहणाद्रौ व्रजेयद्वा दारिद्र्यं तत्तथैव च ॥ ३३८ सर्वथापि नास्ति पूर्वविहितस्य नाशः । ततो वरमिहैव जले स्नानं कुर्वनेतान्येव जलकमलानि गृहीत्वा 12 कमप्यमुं देवताविशेषमर्चयन् सुखेन वनतपखीव किं न तिष्ठामि' इति ध्यात्वा तत्रैव सोमस्तस्थिवान् । 12 ९३१ ) एवं कालान्तरेण कृतभूरिफलाहारस्य तस्य विसूचिकया भगवन्मूर्ति हृदि चिन्तयतः समाधिना मृतिर्बभूव । ततो रत्नप्रभायाः प्रथमे योजनशते व्यन्तराणामष्टौ निकाया ये ऽल्पर्द्धयः सन्ति, 15 तेषां यक्ष १ राक्षस २ भूत ३ पिशाच ४ किंनर ५ किंपुरुष ६ महोरग ७ गन्धर्वाणां ८ मध्ये प्रथम- 15 frer महैश्वर्ययुतो यक्षराजो रत्नशेखराख्यः स समुत्पेदे । तत्रस्थेन तेन चिन्तितम् । 'कस्य सुकृतस्य वशतः प्रभूतवैभवभाजनमभवम्' इत्यनुध्याय प्रयुक्तावधिज्ञानेन यक्षराजेन तस्मिन्नेव लतागृहे जगत्पतेः 18 पुरः स्वं शरीरं निरीक्ष्य श्रीयुगादिजिनप्रतिमामभ्यर्च्य प्रोचे । 'यदहं सर्वपुरुषार्थ बहिष्कृतो ऽपि सर्वत्र 18 लोके हस्यमानो ऽप्येवंविधैश्वर्यभाजनं यक्षराजः समभवं स केवलं तव प्रसाद एव । अतो युक्ता मम शीर्षे जिनेश्वरस्थापना । एकं तावदयं सुरासुरनरेश्वराणामप्यभ्यर्च्यः, द्वितीयं यदुपकारकारि मे, तृतीयं 21 यत्सिद्धिसुखनिदानं च' इति परिवारपुरस्सरमुक्त्वा तेन यक्षेण तत्र वने स्वस्य मूर्तिं महतीं मुक्तामयीं 21 निर्माय तस्या मुकुटोपरि श्रीमदादिनाथस्य प्रतिमा विदधे । तदाप्रभृति तत्र यक्षलोकेन रत्नशेखर इत्यभिधानमवगणय्य तस्य जिनशेखर इत्याख्या पप्रथे । तेनाहं चेति भणिता । 'यत्कनकप्रभे, त्वया 24 प्रतिदिनं भगवान् दिव्यमणीच कैरभ्यर्चनीयः । मया पुनरष्टम्यां चतुर्दश्यां च परिबर्हेण समं सपर्या - 24 निमित्तं भगवतः समागन्तव्यम् ।' इत्युदित्वा यक्षः स्वस्थानमगात् । ततो भद्र, यत्त्वया पृष्टं क एष यक्षः, किं चामुष्य मुकुटे जिनप्रतिमा, त्वमपि कासि, सैष यक्षराजः सेयं जिनप्रतिमा तस्य चाहं कर्म27 करी । इह प्रतिदिनं मया समागन्तव्यमेव ।' इति भणिते भणितं कुमारेण । 'अहो, महदाश्चर्य, महत्प्र- 27 भावो भगवान्, भक्तिभरनिभृतो यक्षराजः, विनीता भवती, रम्यः प्रदेशः, सर्वथा पर्याप्तं मम दशां श्रुतीनां च फलम् ।' ततस्तया भूयो ऽपि जगदे । 'भो भद्र, सफलं देवदर्शनम्, अतः किमपि प्रार्थय, 30 यथा तव हृदयेप्सितं ददामि' इति । कुमारेणोक्तम् । 'न किमपि मम प्रार्थनीयमस्ति ।' तया जगदे | 30 कस्यापि किमपीप्सितं स्यादतो याचस्व किमपि ।' कुमारेण जल्पितम् । 'भद्रे, एष भगवान् जिनभक्ति यक्षराजो भवती चेति सर्वमप्येतदवलोकितं यतः परमपि किं प्रार्थनीयम्' इत्युदित्वा 33 कुमारः समुत्तस्थौ । ततस्तयोक्तम् । 'भो भद्र, भवता दूरे गन्तव्यं यदरण्यमार्गो विषमो ऽनेकप्रत्यूहव्यूह - 33 निदानम्' इति भणित्वा तया स्वकरादुत्तार्य वर्यवीर्यनिलयमौषधीवलयमेकमर्पयामासे | कुमारस्तदङ्गीकृत्यापाचीं प्रति चचाल ।
36 ९ ४० ) ततः क्रमेण कुमारेण प्रचण्डपवनहतकल्लोलमालाप्रेर्यमाणतीर पक्षिगणा करिकराघातसमु- 36 च्छलत्कल्लोला कुपितमत्तवन महिषश्टङ्गोच्छलजलच्छटा सिच्यमान तीरतरुनिकरा मीनपृष्ठोल्लसदतुच्छफेनपटलालंकृता प्रमत्तदुर्दान्तमज्जन्मातङ्गमण्डली गण्डस्थल गलितमदजलबिन्दुसंदोह सुरभितजला 39 नर्मदा समुत्तीर्णा । तत्तीरे कुमारः परिभ्रमन् तमालतरुराजी विराजितं प्राङ्गणकुसुमितकेसरशिखरिणं 39 प्रत्यासन्नविकसत्पुष्पजातिमकरन्दमधु [ लुब्ध ] मुग्धमधुपध्वनिमनोहरमुटजं प्रविश्य रुद्राक्षमालावलयं
3> B कस्मिंश्च सरसि 5 ) B adds तस्य before तीर्थकृत:. 6 ) Bom. न before जाने. 8) मया तावद्दुःसह 9 ) B परप्रेष्येण (P प्रेक्षेण) भाव्यं. 10 ) व दारिद्रं. 14) मष्टनिकाया 16 ) Bom. तेन. 18 ) Bom. श्री P B यदस्मि for यदहं. 24 ) B परिवारेण समं. 26 ) P किं वाऽमुष्य. 31 ) P किमीप्सितं, B यदतो for स्यादतो, B om. किमपि. 39> The passage तत्तीरे कुमारः etc....गरीयः पयोधरा is adopted from B in which too it is written in a different style
9
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org