________________
* 53
कुमारोऽप्यचिन्त
-III. $ 42 : Verse 338] कुवलयमालाकथा ३ 1 कमण्डलुं चालोक्य 'महामुनिरत्र कोऽपि निवसति' इति चिन्तयंस्तदने पांसुले भूमिप्रदेशे पदप्रतिकृति 1
ददर्श । तां च दृष्ट्वा चिन्तितं तेन 'नूनमयं कस्याश्चिन्महेलायाश्चरणप्रतिबिम्बो, न पुनरन्यस्य' । ततो 3 गच्छता तेन वल्कलपिहितगरीय पयोधरा जरत्तापसीपृष्ठगामिनी त्रैलोक्यातिशायिरूपा नवयौवना 3 कामिनी दृष्टा । तयोः पुरस्सर एको राजकीरश्च । तस्यानुपदीनः शुकसारिकानिकरश्च । एतद्विलोक्य कुमारेण चिन्तितम् । 'अहो, अस्या महानुपशमः, यदरण्यनिवासिनः पक्षिणोऽपि पार्श्वमस्या नोजमन्ति' 6 इति चिन्तापरस्तया तरुण्या कुमारो ऽभ्यूत्तिष्ठत । ततस्तं वीक्ष्य निर्मानुषवनजन्मत तां पलायमानां चारुवदनां निरीक्ष्य राजकीरो बभाषे। 'स्वामिन्येणिके, किं पलायनं भवती कृतवती ।' तयोक्तम् । 'अयं पुनः क एतस्मिन् ममोटजे वनश्वापदः। तेनोक्तम् । 'एणिके, मा भयभ्रान्तं मनः कुरु, यदयं पथिकः पथभ्रान्तः समागतः । ततः समागत्यामुष्य पुरुषोत्तमस्य स्वागतं पृच्छ' इति निगदिते 9 नृपशुकेन सा सवीडं कम्पमानवक्षोरुहा पथिकस्य स्वागतमुक्तवती । तथा 'कुतस्तवागमः, कुत्र वा प्रचलितः, किं कार्यम्' इति शिक्षितं प्रोचे । स प्राह । 'अयोध्यातः समागतो ऽस्मि, कार्यार्थी दक्षिणां दिश12 माश्रितः। शुकः प्रोवाच । 'स्वागतं महानुभावस्य, क्षणमेकमत्र पल्लवनस्तरे समुपविश' इति निशम्य 12 कुमारः समुपाविशत् । एणिका विविधतरुपक्कसुस्वादुसुरभीणि फलानि कुमारस्य पुरो मुक्त्वा निषसाद।
मारो ऽप्यचिन्तयदिति । 'न ज्ञायते काप्येषा केनापि कारणेन वैराग्येण वा कुत्र वागतेह तपस्यति, 15 तत्पृच्छामि' इति ध्यात्वा प्राह । 'भद्रे, कथय का त्वं, कथं वात्र वने स्थिता, किं वैराग्यकारणं तपसे' 15 इति भणिता तेन सा न्यग्मुखी तस्थौ । कुमारस्तु तस्याः प्रतिवचनमुपेक्षमाणः क्षणं विलक्षास्यः सम
भूदिति । तदृष्ट्वा राजकीरेण जल्पितम् । 'भो भो महानुभाव, मनागेषा लजते । भवतः प्रार्थना मा वृथा 18भवतु' इत्यहं कथयिष्ये।
४१) 'अत्रैव नर्मदाया नद्या दक्षिणकूले देवाटवी नाम महाटवी । तदन्तर्महान् पत्रलः सच्छायो वटपादपः । तस्मिन् सदैव कीरकुलं निवसति । तत्र चैको मणिमयाख्यः सर्वशुकवृन्दराजो राजकीरो 21ऽस्ति । तस्य राजकीरिकासंभवः क्रमेण स्फुरदिन्द्रनीलमणिसंनिभपक्षावलीविराजमानो मनोहरकान्तिः 21 शुकः समजायत।स चान्यदा भीष्मग्रीष्मखरकिरणकिरणधोरणीतापिततनुस्तृषाशुष्यद्गलतालुकस्तमालतरुतले क्षणमेकमुपाविशत् । तत्रस्थस्य तस्य व्याध एकः समागमत् । स च राजकीरसुतं तं भयेन पलाय24मानं बलात्कारेण गृहीत्वा पल्लीपतेः प्राभृते ऽर्पयामास । तेन राजकीर इति पञ्जरे न्यक्षेपि । तत्र स्थित-24 स्तेन स वृद्धिमानीतः, महापुरुष, सोऽहं शुकः । अन्यदा श्रियः कच्छे श्रीभृगुकच्छे भृगुभूपतेः पल्ली. पतिनाहमुपदीकृतः । तेन नरेन्द्रेण संतुष्टचेतसा मदनमा सुतायै क्रीडार्थमर्पितो ऽस्मि । तयाल्पदि27 नैरप्यहं स्थावरजङ्गमविषचिकित्सागजताम्रचूडतुरङ्गपुरुषस्त्रीलक्षणप्रभृतिसमस्तशास्त्रपारदृश्वा कृतः 27 जिनप्रणीतवचननिश्चितमतिश्च । तत्रान्येधुरतिदारुणे निदाघे कस्यचिन्मुनेरनित्यतादिभावनामाजिनः
केवलज्ञानमुल्ललास । तदा तत्रत्यलोकेन केवलमहिमायै देवानां गतागतं वीक्ष्य भृगुभूपस्य पुरो न्यवेदि । 30 'देव, यत्तव पिता घातिकर्मचतुष्टयक्षये केवलशाली बभूव' इत्यवगम्य भृगुभूपः स परिच्छदः केवलिने 30 जनकाय नमस्करणार्थमायातः । मदनमअर्याहमपि तत्रानीतः।
६४२) अत्रान्तरे नीलपीतवाससौ विस्फूर्जन्मणिकनकभासुरालङ्कारसारौ द्वौ विद्याधरौ केवलिन
18
on a pasted slip of paper, possibly a correction on the basis of some older codex. The corresponding passage in P runs thus : तत्तीरे कुमारः परिभ्रमन् तमालतरुमधुपध्वनिमनोहरमुटजं प्रविश्य रुद्राक्षमालावलयं कमंडलु चालोक्य राजीवराजितं प्रांगणकुसुमितकेसरशिपरिणं प्रत्यासन्नविकसतपुष्पजातिमकरंदमधुलुब्धमुग्धचिंतितं तेन । नूनमयं कस्याश्चिन्महेलायाश्चरणप्रतिबिंबो न पुनरन्यस्य । महामुनिरत्र कोपि निवसतीति चिंतयंस्तदने पांशुलभूमिप्रदेशे प्रतिकृति ददर्श तां च दृष्ट्वा यू पिहितगरीयः पयोधरा. This obviously represents disturbed version of the text adopted above.c reads thus: तत्तीरे परिभ्रमन् कुमारो [बहलस्निग्धतरुवरनिकरसंकुले एकस्मिन् प्रदेशे एक भव्यमुटजं दृष्ट्वाऽत्र 'कोपि महर्षेराश्रमो भविष्यति' इति मन्यमानस्त दिशाभिमुखं यावच्चलितस्तावत्तरुणतमालपादपपतिपरम्परापरिकलितं समन्ततः कुसुमितबहुजातिजातिकुसुमकरन्दलुब्धभ्रमरनिकररणरणशब्दसङ्गीतमनोहरं राजीवराजितमुटजाङ्गणं ददर्श । तत्र च रुद्राक्षमालावलयं कमण्डलु चावलोक्य चिन्तितमनेन राजतनयेन नूनमत्र कश्चिन्महर्षिः प्रतिवसति' इति । ततस्तदने पांसुले भूमिप्रदेशे प्रतिबिम्बितां सुलक्षणलक्षितां पदपद्धतिं विलोक्य चिन्तितमनेन-'नूनमयं कस्यश्चिद्विलासिन्याश्चरणप्रतिबिम्बो न पुनः पुरुषस्य' इति । ततस्तदनु यावदग्रे गम्यते] तावत्तेनोत्तरीयपिहितगरीयःपयोधरा. As portion of this is put in square brackets, the ms.-basis is not clear.
____3) P नवयौवनकामिनी. 6) B कुमारोभ्यत्तिष्ठन् ददर्श (ददर्श added on the margin) ततस्तं. 11) Pom. किं कार्यम् etc. to दिशमाश्रितः 13) cadds [उपदीकृत्य] before पुरो, P om. मुक्त्वा , B has a marginal gloss: दौकि for मुक्त्वा . 16) B°वचनमपेक्षमाणः- 25) B श्रीभृगुकत्से. 28) 0 adds (महिम्ने) before देवानां. 30) B घातिचतुष्टयकर्मक्षये.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org