________________
* 54
रत्नप्रभसूरिविरचिता
[III. § 42 : Verse 3391 प्रणिपत्य प्रोचतुः 'भगवन्, निवेदय सा का ।' इत्याकर्ण्य भृगुभूपेन जनैश्च विज्ञप्तम् । 'भो विद्याधरौ, सा 1 पुनः का ।' ततस्ताभ्यामुक्तम् । 'कदाचिद्वैताढ्य पर्वतात् सम्मेतशैलशिखरोपरि तीर्थकृतः प्रणिपत्य श्रीशत्रुञ्ज पर्वतमहातीर्थ प्रति गच्छ्यामावाभ्यां विन्ध्यगिरिविनिर्गत नर्मदादक्षिणे तटे मृगयूथमार्गानु- 3 गामिनीमेकां कामिनीमालोक्य चिन्तितम् । 'अहो, महदाश्चर्य मृगयूथेन सह कामिनी भ्रमति । तत्र कौतुकेनावामवतीर्णौ, आवाभ्यामाभाषिता च सा । 'हे बालिके, भीमे ऽरण्ये निर्मानुषे कथमेकाकिनी " भवती, कुतो वा समागता ।' सा किंचिन्न जल्पति, प्रत्युताधिकतरमपससार । तत आवयोः पश्यतोरेव 6 तन्मृगयूथं सा चारुलोचना च दर्शनादर्शनत्व मियाय । आवाभ्यां तदाश्चर्य मालोक्य को ऽप्यतिशयशाली मुनिः प्रष्टव्यः' इति ध्यायस्यां भवानेवात्र दृष्टः । ततः पृष्टम् । 'मुनीश्वर, का पुनः सा ।' ततः स स्वयं 9 केवलज्ञानशाली जल्पितुमारेभे ।
'अस्त्यवन्तीपुरी रम्या सदा नाकविराजिता । पुरी गरीयसी लक्ष्म्या सदाना कविराजिता ॥ ३३९ बभूव भूपतिस्तत्र प्रजापालनलालसः । श्रीमान् वत्साभिधः कान्त्या प्रजापालन लोपमः ॥ ३४० 12 यस्य प्रतापवतो ऽरिनरेश्वराणां दन्तीन्द्रगण्ड विगलन्मदवारिशोषः ।
कामं तदीययनितानयनाम्बुपूरपोषः समं समभवच्च तदत्र चित्रम् ॥ ३४१ अभूत्तनूभवस्तस्यानून संवित्तिवैभवः । पुरंदरसमस्थामा नाम्ना श्रीवर्धनाभिधः ॥ ३४२ 15 तथा श्रीमतीति तत्सुता च । तां विजयपुरस्वामिनो विजयनराधिपस्य तनुजः सिंहः पर्यणैषीत् । 15 स च यौवनप्राप्तः 'सर्वदैवानयाध्वनीनो ऽसायी' इति परिज्ञाय राज्ञा निर्विषयीचक्रे । ततः सिंहः स्वां प्रियां गृहीत्वैकस्मिन् पर्यन्तग्रामे ऽतिष्ठत् ।
18
3) P has blank space between विन्ध्यगिरि and नर्मदा 5 ) PB om. आवाभ्यामाभाषिता च सा. 10) Pनाकविराजिनी B has a marginal gloss thus : सह दानेन वर्त्तते सदाना । तथा कविभिः पंडितैः राजिता । पुनः किंविशिष्टा । सदा सर्वदा स्वर्गवत् शोभिता । ऽथवा सदान अकविराजिता दुःखविराजिता किंतु सदासुखिता इत्यर्थ: 17 ) P B गृहीत्वा कस्मिन् 24 ) B adds सा before प्रियापि, P om. भिन्न. 25) B नरकवासे. 36 ) B गर्भभार 40 ) B विनयं सारङ्ग.
9
९ ४३ ) इतश्च कालान्तरेण स श्रीवर्धनराजपुत्रो धर्मरुचिमुनेरन्तिके ऽन्तेवासी भूत्वा कियतापि 18 कालेनाधिगतश्रुतः स्वीकृतैका किविहारिप्रतिमस्तत्र विहारमकरोद्यत्र स भावुको भगिनी च । अन्यदा स भगवान् मासक्षपण पारणायां क्षामतनुरतनुतपोनिधिस्तस्या एव स्वसुर्वेश्मनि भिक्षार्थ प्रविवेश । तया 21 दूरतएव भ्रातरमुपलक्ष्य चिन्तितम् । 'यदयं केनापि पाषण्डिना विप्रतार्य प्रव्राजितः । ततस्तया स्नेहभर - 21 निर्भर हृदयया चिरभ्रातृदर्शनोत्कण्ठया मुनिरालिलिङ्गे । ततस्तत्पतिना तदात्वं बाह्यागतेन तचेष्टितमालोक्य कोपपरवशमनसा मुनिर्निहतः । तया तत्पश्या 'भ्राता मम हतो ऽनेन पापिना' इति ध्यात्वा 24 पतिरपि कालखण्डेन विनाशितः । तेन म्रियमाणेन तेनैव काष्ठखण्डेन प्रियापि भिन्नशीर्षा व्यधायि | 24 स च सिंहः स्वभावत एव क्रोधनो महामुनिघातसंजाताघसंघातेन रत्नप्रभायां रौरवे नरकावा सागरोपमस्थितिर्नैरयिकः समुत्पेदे । सापि तस्य मुनेः स्वसा भ्रातृस्नेहमूच्छिता तत्क्षणोत्पन्नक्रोधा 27 निहतपतिजातप्रभूतपापा तत्रैव नरकप्रस्तरे समजनिष्ट । स पुनर्यतिर्निर्दयं कृपाणप्रहारव्यथितो ऽपि 27 समाधिना विपद्य सद्यः सागरोपमस्थितिः सौधर्मे त्रिदशः समभवत् । ततश्च्युत्वात्र भृगुकच्छे नृपतिजतः सो ऽहं दृश्च भवत्यामुत्पन्न केवलः । स च सिंहो नरकादुद्धृत्य नन्दिपुरे पुरे ब्राह्मणत्वमुपलभ्य 30 वैराग्यादेकदण्डीभूयाश्रमानुरूपं तपः प्रपात्यायुषः क्षये ज्योतिष्केषु देवत्वं प्राप । तेन च को ऽपि 30 केवली पृष्टः स्वपूर्वभवम् । तेन च तस्य ज्योतिष्क देवस्य प्राग्भव उक्तः । तं श्रुत्वा समुत्पन्नातुच्छमत्सरग्रस्तमतिरिति व्यचिन्तयदिति । 'अहं तया निजप्रियतमया मारितः । सा च दुराचारा कुत्र' इति 33 चिन्तयता तेन सा ततो नरकादुद्धृत्य पद्मपुरे पद्मस्य भूपतेः कन्यका जातमात्रा दृष्टा । तदालोकनतस्त- 33 दात्वपरिस्फुरद मर्षकम्पमानाधरेण तेन तत्रागत्य विन्ध्यगिरिवना न्तराले सा बालिका जातमात्रा समुज्झिता । साच कर्मवशतः कोमलकिसलयव्याप्तप्रदेशे पतिता पवनेनाश्वासिता च । तदानीं च 36 भवितव्यतया तत्रैव गर्भभरवेदनात वनमृगी समागता प्रसूता च । प्रसववेदनाविरामे तया मृग्या 36 निरूपितं चिन्तितं च । किं ममाधुना युगलकमभवत् । तत आर्जवतया स्वापत्यमिति तस्या मुखे स्तन्यं स्रवन्ती तामवर्धयत् ।' ततश्च सा बाला मृगयूथेन रममाणा निर्मानुषे ऽरण्ये क्रमेण यौवनमाससाद | 39 तत्र च तस्यास्तिष्ठन्त्या वननिकुञ्जनि गृहाणि, पक्षिणो बान्धवाः, वानरशिशवो मित्राणि, अशनं 39 वनफलानि, सलिलं निर्झरजलं, शयनं विशालशिलातलानि, विनयः सारङ्गकुलस्य पृष्ठिशीर्ष कण्डूयनमिति । ततः सा मृगयूथसंगता मानुषं निरीक्ष्य मृगीव प्रोत्फुल्ललोचना पलायते । यद्भवद्भ्यां पृष्टं यथा
Jain Education International
12
For Private & Personal Use Only
www.jainelibrary.org