________________
-III. 44 : Verse 348] कुवलयमालाकथा ३
* 55 1'का पुनरेषा वने परिभ्रमति' सेयं मम पूर्वभवीयस्वसुर्जीवः । यदेतया कदाचिन्मानुषो ऽपि न वीक्षित 1
इति युवां दृष्ट्वा पलायिता ।' ताभ्यां विद्याधराभ्यां विज्ञप्तम् । 'किं सा भव्या, किमभव्या' इति । 3 भगवतादिष्टम् । 'भव्या' । ताभ्यामुक्तम् । 'कथं तस्याः सम्यक्त्वप्राप्तिः। भगवतोक्तम् । 'अस्मिन्नेव 3
भवे ऽस्याः सम्यक्त्वलाभ:' । ताभ्यामुक्तम् । 'कस्तस्या धर्माचार्यो भावी' । भगवता भणितं मामुद्दिश्य । 'एष राजकीरः' । ततो ऽहं भगवद्भणितेन मदनमअर्याः 'पितामहवाक्यमलचनीयम्' इति चिन्तयन्त्या 6 तस्याः प्रबोधकृते विसर्जितो ऽम्बरतलमुत्पत्यात्र वनान्तः समागतः । मया च परिभ्रमता सेयं बालिका 6 दृष्टा । ततः कियद्भिरपि दिनैर्भक्ष्याभक्ष्ये कार्याकार्य तथा जिनप्रणीते धर्मे समग्रे ऽपि मनुष्यव्यवहारे च विचक्षणा कृता । कथितश्चास्यै केवलिप्रणीतः पूर्वभवः । यथा 'भवती पद्मभूपस्य दुहिता वैरिणात्र 9 समानीता न वने जाता, तदरण्यं परित्यज्य मया समं वसन्ती भुवं समागच्छ । तत्र भोगान् भुव 9 परलोककृत्यमाचरेः। एतया भणितम् । 'यदिदं वनं ममावनमिति । येन दुर्लक्ष्यो लोकाचारः । विषमाश्चपलाः पञ्चापि विषयतायाः। बहवः खलाः। अतोऽत्रैव मन्मनसि समाधिन पुनरन्यत्र लोकाचारे।' 12 तदनन्तरं सा तत्रैव वने पतितप्रासुककुसुमकन्दफलमूलपत्राशना दुश्चरं चिरं तपश्चरन्ती स्थितवती । 12 ततो यत्त्वया पृष्टम् 'का त्वं, कुत आगता, 'किं वनवासे पैराग्यहेतुः' इत्यादिकमियं पृष्टा तत्तव भोः
कुमार, मयोदितम् ।' ततः कुमारेण सविनयमुत्थाय 'राजकीर, त्वां साधर्मिकमभिवादये' इत्युक्तम् । 15 एणिकया जल्पितम् । 'फलितं ममाद्य वनवासेन, दृष्टो यद्भवान् सम्यक्त्वधारका श्रावकः' इति । 15
अतिक्रान्तो मध्याह्नसमयः, तत्त्वरितमुत्तिष्ठ यथा स्नानार्थ गच्छावः । ततः सा तस्याश्रमस्य प्रत्यासन्नजलाशयोद्धृतगलितजलैः कृताङ्गप्रक्षालना प्रावृतधौतकोमलधवलवल्कला कस्मिंश्चिगिरिकन्दराभोगे 18 पूर्व जलेन संखप्य भगवतः प्रथमतीर्थपतेः प्रतिमा जलस्थलजकुसुमैरभ्यर्च्य च प्रणति चकार । कुमारेण 18 च स्नात्वा कृतपूजाविधानेन स्तुतिः कर्तुं समारेभे।
'गुणैरमेय नाभेय भवच्छेदविधायक । अतो भव भवभ्रान्तिभीतिसंहृतये मम ॥ ३४३ 21 श्रीवृषाङ्क जगन्नाथ देवदेव मनोभवः । मम प्रहर्ता संहर्ता तस्य त्वं तत्त्ववृत्तितः ॥ ३४४ 21
४४) अथो कुमार एणिकया शुकेन च साकं तत्रैवोटजे समागत्य सुस्वादुसुरभिसुपक्कानि । फलान्यधसत् । तत्रस्थस्य कुमारस्य विविधशास्त्रकलाकलापदेशभाषाख्यायिकाख्यानकभाषणप्रमोदि24 तैणिकाराजकीरस्य एकदा श्यामलकायच्छायं शिखिपिच्छविनिर्मितकर्णावतंसं नानाविधतरुराजीप्रसूना-24
पूर्णधम्मिल्लं शबरमिथुनमेकं समाजगाम । तच्चानतो भूत्वा राजपुत्रस्य बालिकाया राजकीरस्य च प्रणाम निर्माय दूरशिलातले ऽध्युवास । एणिकया तस्य निरपायकायकिंवदन्ती पृष्टा । तेन च प्रणतोत्तमाङ्गतयैव 27 सर्वमपि प्रत्युक्तं न पुनर्वचनेन । शबरेण च मुकं धनुर्धरण्याम् । कुमारेण तद्रूपशोभाविरुद्धशबराचार-27 कौतुकाक्षिप्तचेतसा चिन्तितम् । 'अहो, धिग् रूपं न कार्य लक्षणैः, अप्रमाणानि शास्त्राणि, असाराः सर्वे गुणाः, अकारणं वेषाचारी, सर्वमपि प्रतीपम् । अन्यथा कथमेतद्रूपं लक्षणव्यञ्जनविभूषितम् । कुत्र 30 वा इदम् । प्राकृतपुरुषसंवादि शबरवेषत्वम्' इति चिन्तयता कुमारेण भणितम् । 'एणिके, किं पुनरे- 30
तत् ।' तयोक्तम् । 'कुमार, सर्वदैवात्र वने परिभ्रमदिदं पश्यामि, परमार्थवृत्त्या न जाने।' कुमारेण
भणितम् । 'एणिके, इदं न शबरयुगलम् , किंतु कृतशयरवेषमेतन्मिथुनं न सामान्यम् ।' एणिकया 33 भणितम् । 'कथं लक्ष्यते' । कुमारेण जल्पितम् । 'सामुद्रिकलक्षणैः' । तयोक्तम् 'किं सामुद्रिकशास्त्रं 33 कुमारस्य परिचितम् । एतत्प्राप्तशबरवेषं युगलं तावत्तिष्ठतु, प्रथम पुरुषलक्षणं निवेदय ।' कुमारेण
जल्पितम् । 'किं विस्तरतः कथयामि, किं वा संक्षेपतः ।' तया भणितम् । 'क्वापि विस्तरतः कापि 36 संक्षेपतश्च ।' कुमारेणोक्तम् । 'विस्तरतो लक्षप्रमाणं संक्षेपतः परिक्षीयमाणं यावत्सहस्रं शतं श्लोकानां 36
च। ततस्त्वं पूर्व किंचिद्विस्तरतः शृणु। यथा । __ 'पद्मवज्राङ्कुशच्छत्रशङ्खमत्स्यादयस्तले । पाणिपादेषु दृश्यन्ते यस्यासौ श्रीपतिः पुमान् ॥ ३४५ 39 उन्नताः पृथुलास्ताम्राः स्निग्धा दर्पणसंनिभानखा भवन्ति धन्यानां धनहेतुसुखप्रदाः ॥ ३४६ 39
सितैः श्रमणता ज्ञेया रूप्यपुष्पितिकैः पुनः । जायते किल दुःशीलो नखैलॊके ऽत्र मानवः ॥ ३४७
शुद्धाः समाः शिखरिणो दन्ताः स्निग्धा घनाः शुभाः। विपरीताः पुन या नराणां दुःखहेतवः ॥ ३४८ ___2) P om. विद्याधराभ्यां. 8) B trans. च after कृता (written on the margin). 9) B भुक्त्वा for भुक्ष्व. 10) B कृत्यमाचर, विषमा [विषया]श्चपलाः पञ्चापि विषय (इन्द्रिय) ता... 20) P मनः । नमः for मम. 21) P मनोभव B मनोभवं. 24) P B om. एकदा, P B श्यामलच्छाकायं. 25) PB मिथुन कमेकमाजगाम. 27) B धनुर्द्धरिण्यां, B शबरवेषकौतुका. 30) B om. किं पुनरेतत् eto.......भणितम् एणिके. 31) P कुमारेणोक्तं for कुमारेण भणितम्. 39) PB धनहेतुः 40) P रूक्ष" B रूष्य for रूप्य on which B has a marginal gloss thus: कपर्दिकाकारपुष्पकसहितैः ।, o has a marginal note: रूप्यशब्दस्य सुवर्णवाचकत्वादत्र पीतवर्णत्वं ग्राह्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org