Book Title: Kuvalayamala Part 2
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 239
________________ N *64 रत्नप्रभसूरिविरचिता [III. $61 : Verse 4141 तनुजां दास्यति न वा, इत्यतो मे मनसि विषादः।' महेन्द्रेणोक्तम् । 'त्वया यदनुध्यातं तन्मिथ्या, कुल- 1 शौर्यलावण्यनिरुपमरूपयौवनविज्ञानकलाकलापेन न यतः कोऽपि तव समः पुमान् यस्येमां दास्यति । 3 अतो ऽमुष्यास्त्वमेव परिणेता ।' यावदित्यनल्पविकल्पोर्मिमालाकुलहृदम्बुधि कुमारं स धीरयति 3 तावदागत्य चेटिकया विज्ञप्तम् । 'यदद्य कुमार, मत्स्वामिन्या कुवलयमालया स्वकरतलगुम्फिता कुसुममाला प्रेषितास्ति, एष कृत्रिमसुकर्णपूरः। ततः कुमारो ऽपि सुखसंदोहमहोदधिमन्थनोद्गतं पीयूषमिव 6 तश्च जग्राह । ततः कुमारेण कर्णपूरानाले प्रियोत्कण्ठितामिव राजमरालिकामेकां विलोक्य तस्या विज्ञान- 6 प्रशंसनेन सुचिरं स्थित्वा सा भणिता। 'भद्रे, इदानीं धर्माशुरयमस्ताचलचूलावलम्बी जातस्तद्वयं सांध्यं विधि विदध्मः । त्वमपि गत्वा तत्पुरः सर्वमपि सुन्दरं निवेदयेः, यतस्त्वमुचितभाषणे स्वयमपि निपु9 णासि।' तदङ्गीकृत्य सा निःसृता । कुमारस्तु कृतसांध्यसवनः प्रावृतधौतसितवसनः समुच्चरितजिन- 9 नमस्कारचतुर्विशिकः समवसरणस्थं जगजीवबान्धवं श्रीनाभिसंभवमवन्दत । अथ महेन्द्रेण समं निद्रासुखमनुभूय शयनीयादुत्तस्थे । ततश्च पूर्वपर्वतमस्तकमहर्पतिरारुरोह । अथो एका महिला मध्यम12 वया भोगवत्यभिधेयया वृद्धयानुचर्यया समं तत्रागमत् । सा वृद्धा किंचिदग्रतो भूत्वा तं व्यजिज्ञपत् । 12 'कुमार कुवलयचन्द्र, कुवलयमालाया एषा जननी । ततः कुमारेण ससंभ्रममासनदानप्रतिपत्त्याभि नन्दिता । ततः सा वृद्धा योषित्तया प्रतिपत्त्या रजिताभ्यधादिति 'वत्स कुमार, तव परपीडाभिज्ञस्य 15 पुरः किंचिन्निवेद्यते, आकर्ण्यताम् । 15 ६६२) अस्त्यमुष्यामेव विजयापुर्या विजयसेनो नामायं नरेश्वरः । इयमेव तस्य सहचरी रूपेणोपहसितत्रिदशयुवती भानुमती महादेवी । न चास्याः संततिः। ततो ऽस्या निरपत्यायाः संजातमहा18 दुःखाया अनेकैर्दैवताराधनैरनन्तैमनोरथशतैः स्वप्नदृष्टकुवलयमालानुसारेण कुवलयमालाभिधानासामा-18 न्यगुणकलावनी कनी समजनि । सा च मया प्रतिपश्चन्द्रलेखेव वृद्धिमानीता यौवनश्रियमाशिश्राय । पित्रैतदर्थमनेकरूपलावण्यगुणशालिनो नृपपुत्रा विलोकिताः परमेषा पुरुषद्वेषिणी न कमप्यभिलषति । 21 मया पुनर्बहुधा शिक्षिताप्यसौ मनागपि पुरुषेषु प्रीति न दधाति । अतः पितरौ व्यथि मन्त्रिजनो राजलोकश्च । अन्यदा प्रतीहारेण निवेदितम् । 'देव, बाह्योद्याने कोऽपि दिव्यज्ञानी विद्याधरः श्रमणः समायातः' इत्याकर्ण्य नरेश्वरः कुवलयमालया समं सपरिच्छदः समागत्य तस्मै मुनये नमश्चक्रे। 24 स च प्रदत्तधर्मलाभाशीर्वादः सकलमपि संसारस्वरूपमनित्यतादिकं देशनाद्वारेण प्रकटीचकार । तनिशम्य 24 प्रणिपत्य च भूपतिः पप्रच्छ। भगवन् , मम दुहिता कुवलयमाला कथमेषा परिणेतव्या, केन वा, कस्मिन् वा कालान्तरे, यदियं पुरुषद्वेषिणी ।' ततः स भगवान् शानातिशयेन कौशाम्ब्यां पूर्वभवकृतमायादित्यमाया27 बोधसङ्केतकुवलयमालाजन्मराजद्वारावलम्बितगाथापूरणाभिज्ञानजयकुञ्जरवशीकरणकुवलयचन्द्रपाणि- 27 ग्रहणप्रभृति सर्वमपि निवेद्य नभस्तलमुत्पपात । ततो भूपतिः प्रमोदमाससाद । त्वयापि जयकुञ्जराधिपं वशीकृत्य गाथां प्रपूर्यात्मा प्रकटीकृतः। तद्दिनादारभ्य कुमार, कुवलयमालया भवदुःसह विरहतप्तया 30 कुसुमशरजर्जरिताझ्या वचनागोचरां नवमीमवस्थामनुभवन्त्या भवदन्तिके देध्या समं प्रेषितास्मि ।' 30 कुमारेणोक्तम्। 'समादिश किं कृत्यम्' इति । तयोक्तम् । 'यदि कुमार, मां पृच्छसि तदतिक्रान्तः सर्वोऽपि वाचामवसरः । यदि पुनर्पूयं नृपभुवनोधानमागच्छथ तदा केनवोपायेन भवदर्शनपाथसा बालिकायाः 33 कुवलयमालायाः क्षणमेकं विरहतापोपशान्तिर्जायेत।' महेन्द्रेणोक्तम्। 'कोऽत्र दोषो,भवत्वेवम्' एवमभि- 33 धाय भोगवती भानुमत्या समं निर्गतवती। ततः कुमारो महेन्द्रेण समं नृपाकीडकोडं विचचार । महेन्द्रेणो. क्तम् । 'यथा मामञ्जीररवः श्रूयते तथा मन्ये ऽभिनवमदनमहाज्वरविनाशमूलिका कुवलयमाला समा36 गतैव मन्यते । कुमारेण भणितम् । 'न सन्तीयन्ति भाग्यानि ।' महेन्द्रेण निगदितम् । 'कुमार, धीरो 36 भव ।' ततः क्षणान्तरेण कुमारेण बहललतान्तरितेन सखीनां मध्यगतां हंसीनामिव राजमरालिकां तारकाणामिव मृगाकरेखामप्सरसासिव रम्भां कुवलयमालामायान्तीमालोक्य भणितम् । 'सर्वथैव धन्यो 39 विधिर्येनैषा त्रिभुवनजनाश्चर्यदायिनी विधे' तथोक्तम् । 39 'विधे यदि त्वं तुष्टो ऽसि तदधैव तथा कुरु । तं नवं येन पश्यामि स च पश्यतु मामिह ॥ ४१४ ६६३) इति निशम्य कुमारेणोक्तम् । 'महेन्द्र, अग्रतो भूत्वा चेष्टितमस्या निरीक्षे' इत्यभिधाय 42 कुमारो लतागृहं प्रविवेश । महेन्द्रस्तु क्रीडार्थमितस्ततो ऽभ्रमत् । [इतः] भोगवत्योदितम् । 'वत्से,42 5) P मथनोद्गतपीयूष. 6) B कर्णपूरनाले, P has blank space for ना. 20) P परमेषा पुरुषद्वेषिणी । ततः स भगवान्- thus between gous fauft and as it loses a few lines because the copyist's eye has wandered a few lines ahead where the same word occurs. 26) B कालांतरेण. 37) B क्षणांतरे. 40) P त्वं पुष्टो. 42) P B om. [ इतः]. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368