________________
N
*64
रत्नप्रभसूरिविरचिता
[III. $61 : Verse 4141 तनुजां दास्यति न वा, इत्यतो मे मनसि विषादः।' महेन्द्रेणोक्तम् । 'त्वया यदनुध्यातं तन्मिथ्या, कुल- 1
शौर्यलावण्यनिरुपमरूपयौवनविज्ञानकलाकलापेन न यतः कोऽपि तव समः पुमान् यस्येमां दास्यति । 3 अतो ऽमुष्यास्त्वमेव परिणेता ।' यावदित्यनल्पविकल्पोर्मिमालाकुलहृदम्बुधि कुमारं स धीरयति 3 तावदागत्य चेटिकया विज्ञप्तम् । 'यदद्य कुमार, मत्स्वामिन्या कुवलयमालया स्वकरतलगुम्फिता कुसुममाला प्रेषितास्ति, एष कृत्रिमसुकर्णपूरः। ततः कुमारो ऽपि सुखसंदोहमहोदधिमन्थनोद्गतं पीयूषमिव 6 तश्च जग्राह । ततः कुमारेण कर्णपूरानाले प्रियोत्कण्ठितामिव राजमरालिकामेकां विलोक्य तस्या विज्ञान- 6 प्रशंसनेन सुचिरं स्थित्वा सा भणिता। 'भद्रे, इदानीं धर्माशुरयमस्ताचलचूलावलम्बी जातस्तद्वयं सांध्यं विधि विदध्मः । त्वमपि गत्वा तत्पुरः सर्वमपि सुन्दरं निवेदयेः, यतस्त्वमुचितभाषणे स्वयमपि निपु9 णासि।' तदङ्गीकृत्य सा निःसृता । कुमारस्तु कृतसांध्यसवनः प्रावृतधौतसितवसनः समुच्चरितजिन- 9 नमस्कारचतुर्विशिकः समवसरणस्थं जगजीवबान्धवं श्रीनाभिसंभवमवन्दत । अथ महेन्द्रेण समं निद्रासुखमनुभूय शयनीयादुत्तस्थे । ततश्च पूर्वपर्वतमस्तकमहर्पतिरारुरोह । अथो एका महिला मध्यम12 वया भोगवत्यभिधेयया वृद्धयानुचर्यया समं तत्रागमत् । सा वृद्धा किंचिदग्रतो भूत्वा तं व्यजिज्ञपत् । 12 'कुमार कुवलयचन्द्र, कुवलयमालाया एषा जननी । ततः कुमारेण ससंभ्रममासनदानप्रतिपत्त्याभि
नन्दिता । ततः सा वृद्धा योषित्तया प्रतिपत्त्या रजिताभ्यधादिति 'वत्स कुमार, तव परपीडाभिज्ञस्य 15 पुरः किंचिन्निवेद्यते, आकर्ण्यताम् ।
15 ६६२) अस्त्यमुष्यामेव विजयापुर्या विजयसेनो नामायं नरेश्वरः । इयमेव तस्य सहचरी रूपेणोपहसितत्रिदशयुवती भानुमती महादेवी । न चास्याः संततिः। ततो ऽस्या निरपत्यायाः संजातमहा18 दुःखाया अनेकैर्दैवताराधनैरनन्तैमनोरथशतैः स्वप्नदृष्टकुवलयमालानुसारेण कुवलयमालाभिधानासामा-18
न्यगुणकलावनी कनी समजनि । सा च मया प्रतिपश्चन्द्रलेखेव वृद्धिमानीता यौवनश्रियमाशिश्राय । पित्रैतदर्थमनेकरूपलावण्यगुणशालिनो नृपपुत्रा विलोकिताः परमेषा पुरुषद्वेषिणी न कमप्यभिलषति । 21 मया पुनर्बहुधा शिक्षिताप्यसौ मनागपि पुरुषेषु प्रीति न दधाति । अतः पितरौ व्यथि
मन्त्रिजनो राजलोकश्च । अन्यदा प्रतीहारेण निवेदितम् । 'देव, बाह्योद्याने कोऽपि दिव्यज्ञानी विद्याधरः श्रमणः समायातः' इत्याकर्ण्य नरेश्वरः कुवलयमालया समं सपरिच्छदः समागत्य तस्मै मुनये नमश्चक्रे। 24 स च प्रदत्तधर्मलाभाशीर्वादः सकलमपि संसारस्वरूपमनित्यतादिकं देशनाद्वारेण प्रकटीचकार । तनिशम्य 24 प्रणिपत्य च भूपतिः पप्रच्छ। भगवन् , मम दुहिता कुवलयमाला कथमेषा परिणेतव्या, केन वा, कस्मिन् वा
कालान्तरे, यदियं पुरुषद्वेषिणी ।' ततः स भगवान् शानातिशयेन कौशाम्ब्यां पूर्वभवकृतमायादित्यमाया27 बोधसङ्केतकुवलयमालाजन्मराजद्वारावलम्बितगाथापूरणाभिज्ञानजयकुञ्जरवशीकरणकुवलयचन्द्रपाणि- 27 ग्रहणप्रभृति सर्वमपि निवेद्य नभस्तलमुत्पपात । ततो भूपतिः प्रमोदमाससाद । त्वयापि जयकुञ्जराधिपं
वशीकृत्य गाथां प्रपूर्यात्मा प्रकटीकृतः। तद्दिनादारभ्य कुमार, कुवलयमालया भवदुःसह विरहतप्तया 30 कुसुमशरजर्जरिताझ्या वचनागोचरां नवमीमवस्थामनुभवन्त्या भवदन्तिके देध्या समं प्रेषितास्मि ।' 30
कुमारेणोक्तम्। 'समादिश किं कृत्यम्' इति । तयोक्तम् । 'यदि कुमार, मां पृच्छसि तदतिक्रान्तः सर्वोऽपि वाचामवसरः । यदि पुनर्पूयं नृपभुवनोधानमागच्छथ तदा केनवोपायेन भवदर्शनपाथसा बालिकायाः 33 कुवलयमालायाः क्षणमेकं विरहतापोपशान्तिर्जायेत।' महेन्द्रेणोक्तम्। 'कोऽत्र दोषो,भवत्वेवम्' एवमभि- 33
धाय भोगवती भानुमत्या समं निर्गतवती। ततः कुमारो महेन्द्रेण समं नृपाकीडकोडं विचचार । महेन्द्रेणो. क्तम् । 'यथा मामञ्जीररवः श्रूयते तथा मन्ये ऽभिनवमदनमहाज्वरविनाशमूलिका कुवलयमाला समा36 गतैव मन्यते । कुमारेण भणितम् । 'न सन्तीयन्ति भाग्यानि ।' महेन्द्रेण निगदितम् । 'कुमार, धीरो 36
भव ।' ततः क्षणान्तरेण कुमारेण बहललतान्तरितेन सखीनां मध्यगतां हंसीनामिव राजमरालिकां तारकाणामिव मृगाकरेखामप्सरसासिव रम्भां कुवलयमालामायान्तीमालोक्य भणितम् । 'सर्वथैव धन्यो 39 विधिर्येनैषा त्रिभुवनजनाश्चर्यदायिनी विधे' तथोक्तम् ।
39 'विधे यदि त्वं तुष्टो ऽसि तदधैव तथा कुरु । तं नवं येन पश्यामि स च पश्यतु मामिह ॥ ४१४
६६३) इति निशम्य कुमारेणोक्तम् । 'महेन्द्र, अग्रतो भूत्वा चेष्टितमस्या निरीक्षे' इत्यभिधाय 42 कुमारो लतागृहं प्रविवेश । महेन्द्रस्तु क्रीडार्थमितस्ततो ऽभ्रमत् । [इतः] भोगवत्योदितम् । 'वत्से,42
5) P मथनोद्गतपीयूष. 6) B कर्णपूरनाले, P has blank space for ना. 20) P परमेषा पुरुषद्वेषिणी । ततः स भगवान्- thus between gous fauft and as it loses a few lines because the copyist's eye has wandered a few lines ahead where the same word occurs. 26) B कालांतरेण. 37) B क्षणांतरे. 40) P त्वं पुष्टो. 42) P B om. [ इतः].
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org