________________
-III. $65 : Verse 415] कुवलयमालाकथा ३
* 65 1 विषादपरवशं मानसं मा कुरु । स युवात्र समागत एव विभाव्यते यथा शङ्खचक्राङ्किता चरणप्रतिकृतिः। 1
ततस्तदादेशवचनान्ते सर्वा अपि चेटिकास्तद्वीक्षायै प्रसस्नुः, परं कुत्रापि ताभिर्न दृष्टः। भोगवत्या भणि३ तम् । 'स्वयं गत्वाहं विलोकयिष्ये, त्वया पुनरत्र स्थातव्यम्' इति वदन्ती भोगवती गता। कुवलयमालया 3 चिन्तितम् । एतत्सर्वमपि कपटं मन्ये यत्तेन यूनात्रोद्याने सङ्केतः प्रदत्तः । अन्यस्य कस्यचिदयं चरणप्रतिबिम्बः । स युवा देवानामपि दुर्लभो मया कथं प्राप्यः । यावता कालेन तातो मां परिणायिष्यति 6 तावन्तं को जीविष्यति, सांप्रतं तत्करोमि यथा दुःखानां भाजनं न भवामि' इति विचिन्त्य कुवलयमाला 6 पाशरचनायैकं लवलीलतागृहं प्रति चलिता यत्र कुमारः स्वयमेवास्ते । तेन च सा समागच्छन्ती वीक्षिता । ततः क्षणं कुमारो लजित इव भीत इव विलक्ष इव जीवित इव सर्वथैवानाख्येयमवस्थान्तरमवाप । सा च तं समीक्ष्य 'एकाकिनी' इति भीता, 'स एवायम्' इति प्रमुदिता, 'स्वयमागता' 9 इति लजिता, 'मया पूर्वमेष वृतः' इति विश्वस्ता चतुर्दिक्षु प्रेषिततरलतरतारकदृष्टिः ससाध्वसा सस्तम्भा
सविस्मया सस्वेदा सरोमाञ्चा समभवत् । तदा तयोः परस्परं निरीक्षणेनापि तत्सुखमजायत यत्कवि12 वाचामप्यगोचरम् , दिव्यज्ञानिभिरप्यनुपलक्ष्यम् । ततः कुमारेण साहसमवलम्ब्य धीरत्वमङ्गीकृत्य 12
कामशास्त्रोपदेशं स्मृत्वा समुत्सृज्य लज्जा परित्यज्य साध्वसं 'सुन्दरि, भवत्यै स्वागतम्' इति वदता प्रसारितोभयभुजादण्डेनांसस्थलयोः कुवलयमाला जगृहे । ततः सा प्रोवाच । 'कुमार, मां मुञ्च मुञ्च 15 सर्वथा न कार्यमनेन जनेन ।' कुमारः प्रोवाच । 'सुतनु, प्रसीद मा कुप्यस्व त्वदर्थमेवाहमेतावतीं 15 भुवमायातः, परमेतदपि त्वं न जानासि ।' तयोक्तम् । 'जानामि यद्भवान् पृथिवीमण्डलदर्शनकौतुकी।'
कुमारेण प्रोचे । 'एवं मा वादीः, किं तत्स्मरसि न सुतनो, मायादित्यस्य जन्मनि भवत्योकं यन्मम भवता 18दातव्यं बोधिरत्नम्' [इति स्मृत्वा तन्मुनिवचसा प्राप्तो ऽहं लोभदेवजीवस्त्वाम् । मुग्धे, बुद्ध्यस्व ततो18 मम वाचा मोहमुत्सृज्य' कुमारो यावदिदं जल्पन्नस्ति तावद्भोगवती समागत्य प्रोचे । 'वत्से, वक्षुलाख्यः कन्याम्तःपुररक्षक इति वदन्नस्ति यद् राजा कथयति यदद्य कुवलयमाला दृढमस्वस्थ शरीरा कान21नान्तःपरिभ्रमन्ती त्वया त्वरितमेवैषा समानेया।' ततः सा सकलककुम्मण्डलदसतरललोचना कथमपि 21 चलितुमारेमे । कुमारः प्रोवाच ।
'उक्तेन बहुना किं वा किं कृतैः शपथैर्धनैः । वदामि सत्यमेवैतत्त्वमेव मम जीवितम् ॥' ४१५ 4 ६६४) कुवलयमालापि 'महाप्रसादः' इति वदन्ती लवलीलतागृहतो निम्मृता । कधुकी जगाद । 24 __ 'वत्से, भवतीयतीमत्र वेलां कथं स्थिता, केनात्राकारिता, अत्र तव वनान्तश्चिरं स्थातुं नो युक्तं सत्वरं त्वमप्रतो भव' इति । ततः सा तद्वचः कर्कशमाकर्ण्य तेन कथुकिना सह पथि गच्छन्ती चिन्तयति स्म । 'अहो, अस्य कुमारस्य प्रतिपन्नवत्सलता, अहो, अस्य सत्यप्रतिज्ञता, अहो, उपकारिता, यदेष शिरीष-27 कुसुमगात्रो ऽपि चरणचार्येव पथि क्षुषाधवगणय्य प्रीत्या दूरस्थामपि मां प्रष्टुं बोधयितुमिहागतः।
भूयो ऽपि कदा संगस्यते' इति ध्यायन्ती कन्या कन्यान्तःपुरमाययौ । कुमारस्तु तस्याः प्रेमकोपपिशुनं 30 वचनं स्मरन्नेकस्मिन् पादपे कुसुमावचयं विरचयन्तं महेन्द्र निरीक्ष्य जगाद । 'वयस्य, समेहि यथावासं 30 वजावः। यद् द्रष्टव्यं तदृष्टमेव । ततो द्वावपि निकेतनमाजग्मतुः । तत्र च महाराजप्रेषितेन वारवनिताजनेन
स्नानं कारितो। ततः कृतभोजनौ यावदासनस्थौ तिष्ठतस्तावदेकया कासिन्या समागत्य कुमारस्य करे 33 ताम्बूलमदायि । कुमारेणोक्तम् । 'केनेदं प्रेषितम्' । तयोदितम् । 'केनापि जनेन' इति । एवं सा 33
कदाचिद्भोज्यं कदाचित्ताम्बूलं कदाचित्पत्रच्छेद्यं कदाचिदालेख्यं परमपि स्नेहरसविशेषपोषकं कुमारस्य योग्यं प्रतिदिनं प्रेषयति । एवंच तयोर्निजराज्य इव सुखेन तिष्ठतोः कियन्तः पुण्यभालुरावासरा व्यतीयुः। 36 ६६५) अथ हेमन्ते भूमिभृता निमित्तमिदमाकार्य पुत्र्याः पाणिग्रहणलग्नं पृष्टम् । तेन सर्वाण्यपि 36 ज्योतिशास्त्राण्यवलोक्य प्रोचे । 'फाल्गुनसितपञ्चम्यां बुधे स्वातिनक्षत्रे यामिन्याः प्रथमे यामे व्यतीते
प्रधानं गतदोषमुपयामलग्नमस्तीत्यवधार्यतां देवेन ।' राज्ञापि 'तथा' इत्यङ्गीकृत्य कुमारस्याने ज्ञापितम्। 39 'कुमार वत्स, भवद्विज्ञानसत्त्वसाहसप्राग्भवस्नेहवश्यायाः कुवलयमालाया वियोगश्चिराय भवतो 30
ऽस्माभिः कृतः । अतः सांप्रतममुष्यां पञ्चम्यां कुमारोऽमुष्या वेदिकामध्यमध्यासीनायाः पाणिग्रहणं करोतु ।' कुमारेणोक्तम् । 'यदादिशति देवस्तत्तथा' इति । ततः कुवलयमाला पाणिग्रहणाकर्णनस्मेर42 वदनाम्बुजा प्रमोदभरभासुरा सर्वाङ्गरोमोद्गमसंगमा चिरसंचितपूर्यमाणमनोरथपथा न देहे न गेहे न 42
2) B'दादेशवचनेन सर्वा. 5) B परिणाययिष्यति. 10) B om. तर before तारक. 18) P B om. [इति], B मानभट for लोभदेव. 19) B वंजुलाख्यकन्यांतःपुररक्ष इति. 20) B om. यद् राजा कथयति. 27) B om. अस्य before सत्यप्रतिज्ञता. 31) Bनिकेत for निकेतन. 33) Bom. सा after एवं. 39) ० वशीकृतायाः for वश्यायाः.
9
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org