Book Title: Kuvalayamala Part 2
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 237
________________ * 62 रत्नप्रभसूरिविरचिता [III. $ 57 : Verse 3971 तादृशं कुपितं साक्षात्कृतान्तमिवायान्तं राजा कुवलयमालया समं विलोकितुं शिरोगृहमारुरोह। 1 कुमारस्य च पुरो गजं सविध एव वीक्ष्य नृपतिना समादेशितम् । 'भो भद्र, सत्वरमपसर यतस्त्वं 3 बालः ।' इति नृपवचो निशम्य रोषारुणलोचनः कुमारः सहसा भूयसा तेजसा ज्वलन् जयकुञ्जरं 3 वशीकृत्य दशनयोः पदद्वयं दत्त्वा कुम्भस्थलमलंचकार । तत्रस्थेन तेन पठितम् । 'कोसंबिधम्मनंदणमूले दिक्खा तवं च काऊण । कयसंकेया जाया पंच वि पउमे विमाणम्मि ॥' 6 तदाकर्ण्य पूरितेयममुना 'समस्या' इति वदन्त्या कुवलयमालया मकरन्दगन्धलुब्ध्यागतालिमालारव- 6 मुखरितासितकुसुमवरमाला कुमारस्य योग्या प्रेषिता । तेन च कण्ठकन्दले समारोपिता। रोमाञ्चकवचितेन नृपेणोक्तम् । 'वत्से कुवलयमाले, साधु साधु वृतम्।' तावत्तत्र पूरितायां समस्यायां राजलोकेन 9 जयजयारावश्चक्रे । अहो, मनुजो ऽपि को ऽप्येष दिव्यप्रभावः । ततश्च, तदुपरि परितः सुरैरदृश्यैः सुरपथतो मुमुचे प्रसूनवृष्टिः।। असमगुणगणप्रमोदपूर्णैर्भवति हि भाग्यभृतां किमूनमत्र ॥ ३९७ 12 $५८) अथ पूर्वोदितो दृढवर्मराजप्रतिपन्नसूनुर्मालवराजपुत्रो महेन्द्रकुमारः सहसागत्य जयकुञ्जर- 12 करिणो ऽन्तिके प्रोवाचेति । 'श्रीदृढवर्मनरेन्द्रनन्दन शशिवंशमुक्ताफल कलाकुलगृह दानशौण्ड प्रणतजनवत्सल कुमार कुवलयचन्द्र, जय जय' इति । ततः कुमारः समुपलक्ष्य महेन्द्रकुमारं ज्येष्ठं 15 सहोदरमिव मन्यमानः प्रीतिप्रमुदितमना जयकुञ्जरगजवरस्कन्धमारोप्य पितुर्देव्याश्च कुशलं पप्रच्छ । 15 भवानपि कुशलशाली । अथ नृपस्तत्रागतःप्रोचे 'अहो, कियन्ति चित्राणि ।। एकं तावदसौ सुरूपसुभगः कुम्भी द्वितीयं वशीचक्रे दिव्यसुमप्रकामपतनं व्योम्नस्ततीयं तथा। 18 तुर्य यत्पदपूरणं स्वदुहितुः प्रीतिः पुनः पञ्चमं षष्ठं श्रीदृढवर्मजो निखिलमप्येतञ्चमत्कारि मे ॥ ३९८ 18 यत्प्राप्यं तत्प्राप्तमेव वत्सया कुवलयमालया अस्य पुरुषसिंहस्य प्राप्त्या। पुत्रि, त्वया कृत्रिममेव पुरुष द्वेषित्वं प्रकटीचके । 'इयं परिणेष्यति' इति जैनवचनमपि तथ्यमासीत् । वत्स, त्वं कुञ्जरं समर्पय 21 गजराजारोहकाणाम् । त्वं च सौधमध्यमागच्छ।' इत्याकर्ण्य कुमारो महेन्द्रकुमारेण कुमारेण समं मध्ये 21 गत्वा सिंहासनस्थं नृपं नत्वा यथोचितासने निषसाद । ततः पितुरादेशेन कुवलयमाला कुमारं सस्नेहया दशा पश्यन्ती शुद्धान्तमध्ये गतवती । राशादिष्टम् । 'वत्स, कथ्यतां कथं भवानेकाकी कार्पटिकवेषधारी 24 दूरदेशान्तरमायातः।' कुमारेण प्रोचे । 'देव एव जानाति । परमद्यैव कर्मवशतः परिभ्रमन्नत्र समा-24 यातः।' राशोक्तम् । 'महेन्द्रकुमार, सैष दृढवर्मतनुजो यस्यात्रागमनं त्वयास्माकं पार्श्वे पृष्टम् ।' ततः सविनयं महेन्द्रेण विज्ञप्तम् । 'देव, सत्यमेवैतत् ।' कुवलयचन्द्रेण बभाषे। 'भवतः कुतः समागमः। 'महेन्द्रेणोक्तम् । 'देव, श्रूयताम् । तदा भवान् वाहकेलिप्रवृत्तः समुद्र कल्लोलवाजिनापजहे। 27 पश्यतो राजलोकस्य समुत्पत्य नभस्तलम् । तुरङ्गमः क्षणेनैवादृश्यमार्गमुपागतः ॥ ३९९ ६५९) ततो नृपतिना सेवकलोकेन साकं त्वत्पृष्ठतो ऽतिदूरं गतेनापि कापि भवतः प्रवृत्तिन .. 30 श्रुता । तत्रस्थपुरप्रदेशे तुरङ्गः पवनावर्तः पतितो मृतश्च । राजापि त्वद्वियोगेन पवनावर्तमृत्युतः । अत्यन्तं दुःखितः क्षिप्रं मूर्छितः पतितः क्षितौ ॥ ४०० अस्माभिः कदलीपत्रवातैराश्वासितो नृपः। विपाकं कर्मणो जानन्नपि व्यलपदशवत् ॥ ४०१ । 33 'कुमार विक्रमाधार स्फाराकार गुणाकर । अनाथं मां परित्यज्य गतस्त्वं केन कर्मणा ॥' ४०२ 33 एवं बहुधा विलपन् मन्त्रिजनेन नृपतिर्बोधित इति । यथा 'पूर्व सगरचक्रवर्तिनः षष्टिसहस्रमिताः । पुत्रा ज्वलनप्रभजातकोपविसर्पद्विषज्वलनज्वालावलीभिः क्षणमात्रेणापि भस्मसात्कृताः परं तेनापि 36 'चेतसि शोकस्य नावकाशो ऽदायि । तन्नाथ, कुमारः केनापि देवेनापहृतो ऽस्ति, तस्यावश्यं प्रवृत्ति-36 रेष्यति । ततो देव, कातरत्वमुत्सृज्य सर्वथा धीरमार्गमवलम्बस्व' इति । ततो व्यावृत्य तत्प्रतिबोधितः क्षितिपतिः प्रासादमासदत। 39 प्रवासो यहिनादेव कुमार भवतो ऽभवत् । तदैव योगपद्येन सौख्यस्यापि वपुष्मताम् ॥ ४०३ 39 त्वद्वियोगे महादुःखाजनन्यापि निरन्तरम् । गलनेत्रजलैर्भूमिर्निर्ममे पङ्किलाखिला ॥४०४ त्वदुस्सहवियोगाग्निज्वलज्वालाभयादिव । प्रपलायितुमिच्छन्ति प्राणा देवानुजीविनाम् ॥ ४०५ 30 1) "मिवायातं. 2) com. च. 7) Pom. कण्ठ. 20) B परिणेष्यते, B inter. कुञ्जर & समर्पय, B गजराजमारोहकारणं सौध. 21) PR om, कुमारण, B°मध्यं. 28) 0 नभःस्थलं. 30) B ततः स्वपुरप्रदेशे. 40) P त्वद्वियोगे महादुखादरोदीन्नगरीजन:- some lines are skipped over through haplographieal mistake, the copyist's eye being led astray by a similar word. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368