________________
* 62
रत्नप्रभसूरिविरचिता [III. $ 57 : Verse 3971 तादृशं कुपितं साक्षात्कृतान्तमिवायान्तं राजा कुवलयमालया समं विलोकितुं शिरोगृहमारुरोह। 1
कुमारस्य च पुरो गजं सविध एव वीक्ष्य नृपतिना समादेशितम् । 'भो भद्र, सत्वरमपसर यतस्त्वं 3 बालः ।' इति नृपवचो निशम्य रोषारुणलोचनः कुमारः सहसा भूयसा तेजसा ज्वलन् जयकुञ्जरं 3 वशीकृत्य दशनयोः पदद्वयं दत्त्वा कुम्भस्थलमलंचकार । तत्रस्थेन तेन पठितम् ।
'कोसंबिधम्मनंदणमूले दिक्खा तवं च काऊण । कयसंकेया जाया पंच वि पउमे विमाणम्मि ॥' 6 तदाकर्ण्य पूरितेयममुना 'समस्या' इति वदन्त्या कुवलयमालया मकरन्दगन्धलुब्ध्यागतालिमालारव- 6 मुखरितासितकुसुमवरमाला कुमारस्य योग्या प्रेषिता । तेन च कण्ठकन्दले समारोपिता। रोमाञ्चकवचितेन नृपेणोक्तम् । 'वत्से कुवलयमाले, साधु साधु वृतम्।' तावत्तत्र पूरितायां समस्यायां राजलोकेन 9 जयजयारावश्चक्रे । अहो, मनुजो ऽपि को ऽप्येष दिव्यप्रभावः । ततश्च,
तदुपरि परितः सुरैरदृश्यैः सुरपथतो मुमुचे प्रसूनवृष्टिः।।
असमगुणगणप्रमोदपूर्णैर्भवति हि भाग्यभृतां किमूनमत्र ॥ ३९७ 12 $५८) अथ पूर्वोदितो दृढवर्मराजप्रतिपन्नसूनुर्मालवराजपुत्रो महेन्द्रकुमारः सहसागत्य जयकुञ्जर- 12
करिणो ऽन्तिके प्रोवाचेति । 'श्रीदृढवर्मनरेन्द्रनन्दन शशिवंशमुक्ताफल कलाकुलगृह दानशौण्ड प्रणतजनवत्सल कुमार कुवलयचन्द्र, जय जय' इति । ततः कुमारः समुपलक्ष्य महेन्द्रकुमारं ज्येष्ठं 15 सहोदरमिव मन्यमानः प्रीतिप्रमुदितमना जयकुञ्जरगजवरस्कन्धमारोप्य पितुर्देव्याश्च कुशलं पप्रच्छ । 15 भवानपि कुशलशाली । अथ नृपस्तत्रागतःप्रोचे 'अहो, कियन्ति चित्राणि ।।
एकं तावदसौ सुरूपसुभगः कुम्भी द्वितीयं वशीचक्रे दिव्यसुमप्रकामपतनं व्योम्नस्ततीयं तथा। 18 तुर्य यत्पदपूरणं स्वदुहितुः प्रीतिः पुनः पञ्चमं षष्ठं श्रीदृढवर्मजो निखिलमप्येतञ्चमत्कारि मे ॥ ३९८ 18 यत्प्राप्यं तत्प्राप्तमेव वत्सया कुवलयमालया अस्य पुरुषसिंहस्य प्राप्त्या। पुत्रि, त्वया कृत्रिममेव पुरुष
द्वेषित्वं प्रकटीचके । 'इयं परिणेष्यति' इति जैनवचनमपि तथ्यमासीत् । वत्स, त्वं कुञ्जरं समर्पय 21 गजराजारोहकाणाम् । त्वं च सौधमध्यमागच्छ।' इत्याकर्ण्य कुमारो महेन्द्रकुमारेण कुमारेण समं मध्ये 21
गत्वा सिंहासनस्थं नृपं नत्वा यथोचितासने निषसाद । ततः पितुरादेशेन कुवलयमाला कुमारं सस्नेहया दशा पश्यन्ती शुद्धान्तमध्ये गतवती । राशादिष्टम् । 'वत्स, कथ्यतां कथं भवानेकाकी कार्पटिकवेषधारी 24 दूरदेशान्तरमायातः।' कुमारेण प्रोचे । 'देव एव जानाति । परमद्यैव कर्मवशतः परिभ्रमन्नत्र समा-24 यातः।' राशोक्तम् । 'महेन्द्रकुमार, सैष दृढवर्मतनुजो यस्यात्रागमनं त्वयास्माकं पार्श्वे पृष्टम् ।' ततः सविनयं महेन्द्रेण विज्ञप्तम् । 'देव, सत्यमेवैतत् ।' कुवलयचन्द्रेण बभाषे। 'भवतः कुतः समागमः। 'महेन्द्रेणोक्तम् । 'देव, श्रूयताम् । तदा भवान् वाहकेलिप्रवृत्तः समुद्र कल्लोलवाजिनापजहे। 27
पश्यतो राजलोकस्य समुत्पत्य नभस्तलम् । तुरङ्गमः क्षणेनैवादृश्यमार्गमुपागतः ॥ ३९९
६५९) ततो नृपतिना सेवकलोकेन साकं त्वत्पृष्ठतो ऽतिदूरं गतेनापि कापि भवतः प्रवृत्तिन .. 30 श्रुता । तत्रस्थपुरप्रदेशे तुरङ्गः पवनावर्तः पतितो मृतश्च ।
राजापि त्वद्वियोगेन पवनावर्तमृत्युतः । अत्यन्तं दुःखितः क्षिप्रं मूर्छितः पतितः क्षितौ ॥ ४००
अस्माभिः कदलीपत्रवातैराश्वासितो नृपः। विपाकं कर्मणो जानन्नपि व्यलपदशवत् ॥ ४०१ । 33 'कुमार विक्रमाधार स्फाराकार गुणाकर । अनाथं मां परित्यज्य गतस्त्वं केन कर्मणा ॥' ४०२ 33 एवं बहुधा विलपन् मन्त्रिजनेन नृपतिर्बोधित इति । यथा 'पूर्व सगरचक्रवर्तिनः षष्टिसहस्रमिताः । पुत्रा ज्वलनप्रभजातकोपविसर्पद्विषज्वलनज्वालावलीभिः क्षणमात्रेणापि भस्मसात्कृताः परं तेनापि 36 'चेतसि शोकस्य नावकाशो ऽदायि । तन्नाथ, कुमारः केनापि देवेनापहृतो ऽस्ति, तस्यावश्यं प्रवृत्ति-36
रेष्यति । ततो देव, कातरत्वमुत्सृज्य सर्वथा धीरमार्गमवलम्बस्व' इति । ततो व्यावृत्य तत्प्रतिबोधितः क्षितिपतिः प्रासादमासदत। 39 प्रवासो यहिनादेव कुमार भवतो ऽभवत् । तदैव योगपद्येन सौख्यस्यापि वपुष्मताम् ॥ ४०३ 39
त्वद्वियोगे महादुःखाजनन्यापि निरन्तरम् । गलनेत्रजलैर्भूमिर्निर्ममे पङ्किलाखिला ॥४०४ त्वदुस्सहवियोगाग्निज्वलज्वालाभयादिव । प्रपलायितुमिच्छन्ति प्राणा देवानुजीविनाम् ॥ ४०५
30
1) "मिवायातं. 2) com. च. 7) Pom. कण्ठ. 20) B परिणेष्यते, B inter. कुञ्जर & समर्पय, B गजराजमारोहकारणं सौध. 21) PR om, कुमारण, B°मध्यं. 28) 0 नभःस्थलं. 30) B ततः स्वपुरप्रदेशे. 40) P त्वद्वियोगे महादुखादरोदीन्नगरीजन:- some lines are skipped over through haplographieal mistake, the copyist's eye being led astray by a similar word.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org