________________
9
-III. $57 : Verse 396] कुवलयमालाकथा ३
* 61 1 पल्लीनृपतिः कुमारस्य दक्षिणापथं प्रचलतो ऽनुगन्तुं प्रवृत्तः । ततः कुमारं तरुणतरवनलतागुल्मान्तरि- 1 तमवगम्य भूमिपः सदनमागत्य माननीयान् संमान्यापृच्छय प्रकृतिजनं राज्यव्यवस्थां च कृत्वा दीनेभ्यो दानं वितीर्यात्यन्तदुस्सहतद्विरहदहनदन्दह्यमानतनुना वारविलासिनीजनेन दीनवदनं विलोक्यमानो 3 व्रताय निःससार । कुमारो ऽपि क्रमेणानेकगिरिसरिन्महाटवीमुल्लङ्घयन्ननेकग्रामाकरपुरेषु कौतुकानि प्रेक्षमाणो मकराकरतटस्थितां विजयापुरीमवाप। सुजातयः कुलीनाश्च स्निग्धमुग्धालिसेविताः । सदारामा बहिश्चान्तर्यत्र सन्ति विराजिताः ॥ ३९० 6
.......................।] वापीतटमणिमयागारविद्योतिताम्भसि ॥ ३९१ स्त्रीणां स्तनाधरेषु स्यात्करपीडनखण्डने । स्नेहहानिः प्रदीपेषु यदन्तन पुनर्जने ॥ ३९२ उत्तुङ्गाः कुम्भिनः स्फूर्जद्भद्रजातिसमाश्रिताः । मांश्च यत्र विद्यन्ते भद्रजातिमनोहराः ॥ ३९३ 9 नरा विरेजिरे यत्र द्विधा विक्रमशालिनः। द्विधा सुवर्णसश्रीका कलाकेलिप्रिया द्विधा ॥ ३९४ ।।
यत्र जन्यमजन्यं च जनानां न कदाचन । अतस्तु मार्गणः कोऽपि न वारे न च मन्दिरे ॥ ३९५ 12५६) ततः कुमारस्तदुत्तरदिग्विभागे चरणचडुमणाक्षमः क्षणं विश्रम्य व्यचिन्तयदिति । 'एषा 12
सा विजयापुरी या साधुना निवेदिता, परं पुनः केनोपायेनात्र कुवलयमाला द्रष्टव्या' इति विचिन्त्य . कुमारः समुत्थाय नानाविधवर्णरत्नविन्यासोञ्चचारुकाञ्चनघटितप्राकारवलयोपशोभमानविद्रुममयगो15 पुरकपाटसंपुटां पुरी स यावत्कियद्भूभागं व्रजति स्म तावत्पयोहारिणीनामनेकशो वार्ताः शुश्रावेति । 15 कयाचिदुक्तम् । 'एषा कुवलयमाला कुमारिकैव क्षयं यास्यति न च कोऽपि परिणेष्यति ।' अन्यया
भणितम् । 'विधिना विवाहरात्रिस्तस्या न विहिता, यतो नाम रूपयौवनविलाससौभाग्यगर्विता कुलरूप18 विभवलावण्यसंपूर्णानपि नरनाथपुत्रान्नेच्छति ।' तथानेकदेशसमायातव्यवसायिनां विचित्रा भाषा: 18 शृण्वन् विपणिश्रेणिमार्गे वणिजां विविधानल्लापानाकर्णयन् नागरवनिताधवलविमललोचनमालाभिरभ्य
य॑मानः शिखण्डिपतत्रनिर्मितातपवारणशतसंकुलद्वारप्रदेशम् अनेकसेवकलोकानवरतयातायातपाणिध21 मनिगम रङ्गत्तुङ्गतुरङ्गनिष्ठुरखुरक्षुण्णक्षोणितलं बन्दिवृन्दपठ्यमाननृपगुणग्रामस्तुतिशतमुखरितदिगन्तरं 21
वैरिवारनिवारणवारणसंचरणकपोलपालिविगलद्दानजलजम्बालजटिलं विजयसेननरेश्वरस्य राजाङ्गणमाजगाम तत्र च राजलोकं सर्वमपिचिन्तापरं करतलन्यस्तमखकमलं विलोक्य कुमारेण कोऽपिराजपुरुष24 श्चिन्ताकारणं पृष्टः। तेनोक्तम् । 'भो महासत्त्व, नैषा दुःखचिन्ता, किन्त्वत्र भूपतिपुत्र्या कुवलयमालया 24
पुरुषद्वेषिण्या राजद्वारे पत्रे लिखित्वा गाथायाः पाद एको ऽवलम्बितो ऽस्ति । यः को ऽप्येनां गाथां संपूर्णां करोति स मां परिणयति न कश्चिदन्यः। ततस्तां सर्वोऽपि नृपतिलोकः स्वस्वमत्यनुसारेण 27 चिन्तयन्नस्ति ।' कुमारेणोक्तम् । 'कीदृशः स पादः।' तेनोक्तम् 'एष ईदृशः' । यथा “पंच वि पउमेश विमाणम्मि ।" कुमारेण भणितम् । 'यदि तावदेनां गाथां कोऽपि पूरयति ततस्तस्याः पूरितायाः किमभिज्ञानम्।' तेनोक्तम् । 'सा चैव कुवलयमाला तदभिशानाभिज्ञा । यतः पूर्वमेवैतया पादत्रयं गाथायाः 30 पत्रके लिखित्वा गोलके निक्षिप्य तदुपरि राजमुद्रां दत्त्वा कोशवेश्मनि निचिक्षिपे ।' कुमारेण 30 चिन्तितम् । अहो, प्रकटीभूता मायादित्यस्य माया।
६५७ ) अत्रान्तरे राजद्वारे जनस्य जलधिजलगम्भीरः कलकलो ऽभवत् । तत्र सर्वमपि लोकं 33 प्रलयकालवक्षुब्धहृदयं वीक्ष्य कुमारेण चिन्तितम् । 'क एषो ऽकाण्डोत्पातः' तत्सत्यमभूद्यत् 'शान्ति 33 कुर्वतां वेतालोत्थानम्' इति यावत्कुमारो निरूपयति तावजयवारणवारणः प्रोन्मूलितालानस्तम्भश्छेदि
तनिबिडनिगडः प्रोद्यन्मददुर्दमः संमुखमायातः। 36 शिलोच्चय इव प्रोच्चैः सतः प्रालेयशैलवत् । कम्पाङ्कमपि वेगेन यो जिगाय मतङ्गजः ॥ ३९६ 36
4) B टवीर्गमुलंघ. 6) P leaves blank space विराजिताः and नयागार', B विराजिताः। वापीतटमणि (णौ ?) मयागारविद्योतितांभसि, o leaves blank space between विराजिताः and नयागार (standing for मयागार of the text). On these veries B has some marginal glosses: यस्यां नगर्यां सत्प्रधाना आरामा बहिर्भागे तथाऽतमध्ये सदा रामाः स्त्रियः संति । सुमालतीसहिता पक्षे सुगोत्रा ॥ऽलिभिः भ्रमरैः सखीभिः सेविताः ॥ शकुनः विशेषेण राजिताः शोभिताः। मंदो भद्रो मृगो मिश्रश्चतस्रो गजजातयः ॥ प्रधानपराक्रमेण शालिनः । विशिष्टः क्रमो विक्रमः सदाचारस्तेन शालिनः ॥ कांचनवत्सश्रीकाः यशसा च ॥ कलानां गीतनृत्यादीनां या केलिविलासः तया वल्लभाः अथवा स्मरवन्मनोहराः॥ विरोधभंग इत्थं । जन्यं संग्रामः । ऽजन्यमुत्पात [:]यत्र नास्तीत्यर्थः । तत्कारणात् मार्गगो बाणो याचको वा न कस्यापि द्वारे न कस्यापि मंदिरे कः परामर्षः संग्रामाभावात् बाणो न । ईतेरभावात् याचको न ।।. 20) P शतसंकुलद्वारं, B'नवरतयापा. 22) Pानजंबाल. 29) B om. तेनोक्तम्. 34) Bom. इति.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org