________________
18 पतिः कुत्रापि गत इति
* 60
रत्नप्रभसूरिविरचिता [III. $ 53 : Verse 3891 प्रतिपन्नम्, परमेको मन्त्री तथैकश्चिकित्सक एका भुजफलिकजननी तद्वचो नामन्यन्त। ततस्त्रिभिरेक- 1 मत्यानपेक्ष्य परलोकमवगणय्य विमानं मम किमपि तदौषधमदायि, येन तदैव मम अहिलत्वमुत्पेदे। अहं च कदाचिदिग्वासाः कदाचित्प्रावृताङ्गः कदाचिद्धलीधवलितदेहः कदाचिद्गृहीतकरकपरखण्डः सर्वत्र 3 परिभ्रममाणोऽत्र विन्ध्यगिरिशिखरिकुहरान्तराले क्षुधातृषालान्तः पर्वतनदीषु सल्लकीहरीतकीतमालामलकदलफलप्राग्भारकषायितं तोयं वारत्रयं पीत्वा सर्वत्र दोषविप्रमुक्तः क्रमेण सावधानो ऽभवमिति । 6 ततः स्वस्थचेतसा मया क्षुधार्तेन पुष्पफलेभ्यः स्पृहयालुनानेकभिल्लजनान्तस्थः प्रवररूपः पुरुष एको 6 ददृशे। तेनाहमिमां पल्लीमानीतः। ततो वारवनिताजनेनावां स्नानं कारितो। अथो देवतायतने मया तेन समं भगवान् जिनः प्रणतः । तथा भोजनमण्डपे यथारुचि आवाभ्यां भोजनं विदधे । ततः सुखासीनेन तेन जल्पितम् । 'भो भद्र, निवेदय केन हेतुनामुष्यामटव्यां निर्मानुषायां भवत्समागमः, कुतो जिनवचन- 9 प्राप्तिः' इति । मयोक्तम् । 'रत्नपुर्या रत्नमुकुटनरेन्द्रस्य सूनुर्दर्पफलिकनामाहम् । स च मम पिता प्रत्येक
बुद्धो ऽभवदिति। ततः स्वीकृतजिनधर्मो ऽहमपि कर्मवशत एतस्यां पल्यामागतः । तेनोक्तम् । 'यदि 12 भवान् सोमवंशसंभवो रत्नमुकुटनरेन्द्रपुत्रस्ततः सुन्दरमजायत, यत आवयोरेक एव घंशः। ततस्त्वं 12
तस्तेन पल्लीपतिना सर्वपल्लीपतिप्रत्यक्षं सिंहासने ऽहं निवेशितः। सर्वेऽपि पलीपतयो भणिताः । 'यद्भवतामयमेव नरेश्वरः । अहं पुनर्यन्मनो ऽभिमतं तत्करिष्यामि' इति भणित्वा पल्लीपतिर्नि15 र्गतः। तस्यानुगमनं विधाय सेवकाः पल्लीपतयो निवर्तिताः । अहं पुनः स्तोकमपि भूमिभागमग्रतो 15 ऽगमम् । व्याधुटमानस्य मे तेन शिक्षा प्रदत्ता। 'यद् वत्त, जीववधो न विधेयः। भव्यरीत्या प्रजाः पालनीयाः । प्राणान्ते ऽप्यकृत्यं नाचरणीयम् । श्रीजिनधर्मे कदाचन न प्रमादः कार्यः' इत्युदित्वा पल्ली
गत इति न ज्ञायते । अहमिति मन्ये कस्यचिट्ठरोरन्तिके प्रव्रज्यामभ्युपपन्नः । तहिनादार-18 भ्यात्र कुमार, न को ऽप्यस्मद्राज्ये ऽनीतिविधाता।
६५४) अहमपि पुनः कियता कालेन कर्मवशतो महामोहग्रस्तचित्तो विस्मततत्सर्वशिक्षः सर्वा21 न्यायपरः समभवमिति जर्जरितकलशप्रक्षिप्तपयोवजिनवचनरहस्यं सर्वमपि मम गलितम् । शिक्षा-21
शेषापि दुर्जनप्रीतिरिव विलयं गता । अतो मयैष पुरुषो निदेशितः, यल्लोभेनाहमीदृशीमवस्थामानीतस्त
त्वया लोहदण्डेनाहं स्मरणार्थ ताडनीयः। ततोऽयमपि प्रतिदिनं मां लोहदण्डेन ताडयति ।' ततः 24 कुमारेणोक्तम् । 'अमुं वृत्तान्तमाकर्ण्य कस्य चेतो न चित्रीयते । महासत्त्वो रत्नमुकुटः प्रत्येकबुद्धो 24 ऽजनि । दुर्लभो जिनप्रणीतः पन्थाः। दुर्जयो लोभपिशाचः। तद् भो महाशय, किं खेदमुद्वहसि, यन्मया
तच्छिक्षा विस्मृता [इति] अनुशयवतस्तव साद्यापि तथैवास्ते, तस्मात्त्यजावद्यं किं तेन ।' एवं कुमारेणोक्ते 27 तेन जगदे । 'एवमेतन्न संदेहः, परं भवान् विज्ञानरूपकलाकलापविनयदाक्ष्यदाक्षिण्यमुख्यैर्गुणैर्शायते 27 यथा महाकुलप्रसूतो महासाहसिकः । पुनरिदं न जाने यत्कुमारस्य कीदृकुलम्, किमभिधानं, तन्निवेदय ।' कुमारेणोक्तम् । 'अयोध्यानायकस्य दृढ़वर्मणस्तव पितृव्यस्य पुत्रः को ऽप्यस्ति किं वा न । तेन दीर्घ 30 निःश्वस्योक्तम् । 'कदाचिन्मया पथिकस्यैकस्य पार्श्वे श्रुतं, यथा दृढवर्मणो महीपतेर्लक्ष्मीप्रसादतः पुत्र-30 प्राप्तिरभूत् । पुनर्न जाने पश्चात् किं तत्र वृत्तम् ।' कुमारेण भणितम् । अहं स एव दृढवर्मनरेन्द्रस्य कमलाप्रसादलब्धः कुवलयचन्द्राभिधस्तनूजः।' एवं निशम्य तेनोक्तम् । अये, मम भ्राता भवान्' इति । 33 ततो गलन्नयनयुगलजलबिन्दुर्दर्पफलिकः पप्रच्छ । 'कथय कथं कुमार, एवंविधे तपात्यये जलदजल-33
धारामिपरितधरातले सर्वजनाल्हादविधायिनि राजहंसप्रवासदायिनि वियुक्तयौवनमनोवनावर __ सकलकमलवनशमनशमने मुदितमत्तमयूरसमुच्चरितकेकारवे कलिकाल इव संचरद्विरसनमण्डले कुभू. 36 पताविव प्रनष्टसन्मार्गे जंबालजालजटिलमार्गलग्नकण्टककोटिदुःसंचरे पयःपूरवाहेण पतितगर्ताशतसंकुले 36 प्रचण्डपवनोच्छालिता_लिहलहरिदुरुत्तरगिरिसरिन्निकरे स्वं स्थानं विमुच्य क्व चलितो ऽसि ।' कुमा. रेण सर्वमपि निवेदितम् । 'यत्पुनः संप्रति मया विजयापुर्यां कुवलयमाला प्रबोध्या' इति। 39६५५) एवं दिनत्रयं तत्र प्रीत्या स्थित्वा कुमारेणोक्तम् । 'यदि तवादेशो भवति तदाहं व्रजामि' 39
इति । नृपेण भणितम् । 'त्वयावश्यमेव गन्तव्यं यद्येवं ततो ऽहं त्वत्कायकौशलहेतवे विजयापुरी याव
स्वसैन्यकलितः समायामि, यतो भवानेकाकी मार्गपरिशानानिपुणः।' कुमारेणोक्तम् । 'यतो ऽनुबद्धवैरा 42 भवन्तः, स्तोकं बलम् , अतो भवतामागन्तुं नोचितम्' इत्याकर्ण्य तर्हि 'भवतु भवते स्वस्ति' इत्युदित्वा 42
2)[विमाननां] for विमान. 5) B क्रमेण समभवमति. 8) B यथारुच्या. 10) Bom. इति. 16) P om. मे, B adds मम for it on the margin. 18) B°दारभ्य कुमार. 26) PB om. [इति].34) B राजहंसप्रदायिनि. 37) Pom. क. 38) PB बोध्या for प्रबोध्या, B om. इति (this portion added on the margin).
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org