Book Title: Kuvalayamala Part 2
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
* 66
रत्नप्रभसूरिविरचिता [III. $65 : Verse 416त्रिभुवने ऽपि माति स्म । तत्र राजकुले विवाहभोजनार्थे धान्यान्यानीयन्ते । क्रियन्ते विविधानि 1 पक्वान्नानि । विरच्यन्ते सर्वत्र मण्डपमश्वप्रपञ्चाः । रच्यन्ते वेदिकाः । प्रेष्यन्ते लेखवाहाः सर्वेषां स्वजनराजन्यानाम् । निमन्यते सर्वत्र बन्धुवर्गः । भूष्यन्ते भवनानि । घट्यन्ते नानाविधान्याभरणानि । 3 शोध्यन्ते नगरीरथ्याः।
६) एवं विवाहारम्भकृत्यप्रवृत्तस्य जनस्य निधिलाभक्षण इव सौभाग्यनिर्मित इवोपयमदिवसः 6 समागमत् । तस्मिन् दिने ऽविद्धमौक्तिकचारुचतुष्कस्थापितप्रामुखासने निवेश्य कुमारं कुलवृद्धा मङ्गल- 6 स्मानमकारयत् । ततः स गोशीर्षचन्दनविलिप्ताङ्गःप्रावृतकारकश्वेतसदृशवसनः सिद्धार्थगोरोचनातिलकः कण्ठावलम्बितसुरभिकुसुमदामा महेन्द्रेण राजलोकेन चानुगम्यमानो जयकुञ्जरकुञ्जराधिरूढः प्रौढजनान्वितो दक्षिणकरकमलाबद्धकौतुकमदनफलः स्तुतिव्रातस्तूयमानगुणग्रामः प्रचुरमृदङ्गशङ्खपणववेणु- 9 वीणास्वरमुखरितदिकचक्रवालो धृतसितातपत्रः पुरः प्रवर्तमानप्रेक्षणक्षणः क्षणेनोद्वाहमण्डपमलंचकार ।
ततश्च स प्रावृतसितचीवराया माङ्गल्याभरणभूषितायाः कुवलयमालाया लग्नवेलायां द्विजवरेणोपढौकितं 12 करं करेण जग्राह । ततो ऽविधवा गीतं गातुं प्रवृत्ताः । वादितानि तूर्याणि । निःस्वानस्वनाः प्रसवः।12
पूरिताः शङ्खाः । आहता झलर्यः। वेदोच्चारपरायणा द्विजन्मानो मङ्गलपाठकाः पठन्ति । जयजयारवपरो लोकश्च । ततः प्रवर्तितं मङ्गलचतुष्टयम् । ततो निर्वृत्ते पाणिग्रहणमहोत्सवे पूजिते गुरुजने कृते समस्त15करणीये स्वस्थाने समेत्य विविधरत्नविद्रुमनिर्मिततलिने गङ्गापुलिन इव राजहंसयुगलं कृतमङ्गलोपचारं 15 तन्मिथुनमुपविष्टं दृष्ट्वा परिवारः सखीजनश्च मन्दं मन्दं निस्ससार। तत्रस्थस्य तस्य निद्रासुखमनुभवतः
क्षणदा क्षणमिव क्षयमियाय । ततः प्राभातिकतूर्यरवप्रतिबोधितः कुमारः कृतदेवाधिदेवनमस्कृतिनित्य18 कृत्यमकरोत् । तत्रान्यदा कुमारो हिमगिरिशिखरसमानं स्वसौधमारुह्य दक्षिणपक्षप्राकारप्रत्यासन्नं रत्ना-18
कर निरीक्ष्य क्षणं व्यावर्णयन् मात्राक्षरबिन्दुच्युतकप्रश्नोत्तरक्रियागुप्तककाव्यकथाविनोदैश्च कुवलयमालया समं प्रीतिपरस्तस्थौ । अत्रान्तरे कुवलयमालया विज्ञप्तम्। 'देव, त्वया मवृत्तान्तः कथं परिज्ञातः।' 21 ततः कुमारेण सविस्तरमयोध्यातो हयापहाराचं मुनिनिवेदितचण्डसोममानभटमायादित्यलोभदेवमोह-21
दत्तपञ्चजनपूर्वभवगाथापूरणपरिणयनपर्यन्तं सर्वमपि प्रोचे। प्रिये, ऐहिकसुखमूलं विवाहकर्म वृत्तम् । __ संप्रति पारत्रिकसौख्यप्रदं सम्यक्त्वमाद्रियस्व । यतः, 24 चिन्तामणिः श्रितः प्राणिस्वान्तचिन्तितमात्रदः । सम्यक्त्वं सर्वजन्तूनां चिन्तातीतार्थदं पुनः॥४१६ 24 तावदेव तमस्तोमः समस्तो ऽपि विजृम्भते । यावत्सम्यक्त्वतिग्मांशुरुदेति न हृदम्बरे ॥ ४१७
सदृष्टिदृष्टिहीनो ऽपि यः सम्यक्त्वविलोचनः। श्रुतिविश्रान्तनेत्रोऽपि सो ऽन्धो यस्तद्विवर्जितः ॥ ४१८ यदि ते स्मृतिमेति सांप्रतं दयिते पूर्वभवः स्वचेतसि । तदवश्यमिदं जिनेशितुर्वचनं निर्वृतिशर्मदं श्रय ॥ ४१९ श्रुत्वेति तस्य वचनं किल सा जगाद नाथ त्वमेव शरणं सुगुरुस्त्वमेव ।
देव त्वयाखिलपुरातनजन्मजल्पात् सम्यक्त्वभाजनमहं विहिता यदद्य ॥ ४२० ___ इत्याचार्यश्रीपरमानन्दसूरिशिष्यश्रीरत्नप्रभसूरिविरचिते श्रीकुवलयमालाकथासंक्षेपे श्रीप्रद्युम्नसूरिशोधिते ।
कुवलयचन्द्रकुमारवनपरिभ्रमणविजयापुरीगमनजयकुञ्जरहस्तिवशीकरणसमस्यापूरण- 33
कुवलयमालापरिणयनसम्यक्त्वोपदेशप्रभृतिवर्णनस्तृतीयः प्रस्तावः ॥ ३॥
33
[अथ चतुर्थः प्रस्तावः ] 36६१) अथ श्रीदृढवर्मणो नृपतेर्लेखवाहः प्रतीहारनिवेदितः प्रविश्य कुमारं प्रणिपत्य लेखं पुरो36 विमुच्य विज्ञपयामासेति । 'देव, श्रीतातपादा भवन्तमाकारयन्ति ।' ततः कुमारः पूर्व लेखं प्रणम्योन्मुन्य
च स्वयं वाचयामास । 'स्वस्त्ययोध्यापुरीतो महाराजाधिराजश्रीदृढवर्मदेवो विजयापुर्यां पुत्रं दीर्घायुषं 39 कुवलयचन्द्रकुमारं महेन्द्रसमन्वितं साञ्जसं गाढमालिङ्गय समादिशति, यथा 'अत्र तावत्तव दुःसहविर- 39
2) P रच्यते वेदिका. 7) P ततः स विलिप्तांगः. 9) B स्तुतिव्रत. 11) Bभूषिताया वेदिकामध्यमध्यासीनायाः कुवलय. 14) P निवृत्ते. 15) P v om. स्वस्थाने समेत्य. 16) P B om. निद्रासुखमनुभवतः. 17) B inter. क्षणदा & क्षणमिव. 18) B दक्षिणपक्षे. .38) B om. पुत्रं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368