Book Title: Kuvalayamala Part 2
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
* 68
रत्नप्रभसूरिविरचिता [IV. $ 4 : Verse 161 तस्मिंस्तादृशे संसारचक्रचित्रपटे प्रत्यक्षीकृते मया चिन्तितम् । 'अहो, कष्टं संसारवासः। दुर्गमो मोक्ष- 1
मार्गः। अत्यन्तदुःखिताः प्राणिनः । विषमा कर्मगतिः। स्नेहनिबिडनिगडसंदानितो मूढजनः । अशुचिमयः 3 कायः । विषमिव विषयसुखम् । साक्षादेवैष जीवसार्थो महासागरनिमग्नः ।' इति चिन्तयता मया 3 भणितम् । 'अहो, त्वयायं यदि चित्रपटो लिखितस्ततो न मनुष्यस्त्वम् , अनेन दिव्यचित्रपटप्रकारेण किमपि कारणान्तरं चिन्तयन् त्वं देवो देवलोकतः समागतः।' इति च वदता मया तस्यैकस्मिन् पार्श्वे 6 ऽपरं चित्रपटं दृष्ट्वा प्रोक्तम्। 'अहो उपाध्याय, पुनरेव ततः संसारचक्रतो व्यतिरिक्तश्चित्रपटो ऽयम्, ततो 6 ममायमपि प्रत्यक्षीक्रियताम् ।' इदमाकर्ण्य कलाचार्येण भणितम् । 'कुमार, मयैव लिखितमेतद्वयोर्वणिजोश्चरितं विभक्तस्वरूपं पश्यतु भवान् । एषा चम्पापुरीति लिखिता। अत्रैष महाराजो महारथः । अत्र 9च धनी धनमित्रो नाम वणिय। तस्य भार्या देवीति । तयोस्तनुजौ द्वौ धन मित्रकुलमित्रौ । तज्जन्मानन्तरं 9 तदात्वमेव पिता पञ्चत्वमुपागतः। सर्वो ऽप्यर्थो निधनमियाय । ततस्तो मात्रा कष्टेन वृद्धिमानीतौ यौवनमवापतुः । जनन्या निगदितम् । 'भवन्तौ व्यवसायं कुरुताम् ।' ततस्तौ वाणिज्यकृषिपरमन्दिरकर्मकर12 वृत्तिप्रतिगृहप्रार्थनारत्नाकरसमुल्लङ्घनरोहणपर्वतारोहणानवरतखानिखननधातुवादद्यूतक्रीडनस्वामिसे- 13 वाप्रवृत्तिविवरयक्षिणीसमाराधनगुरूपदिष्टमन्त्रसाधनप्रभृतिभिःप्रकारैधनोपार्जनाथ ताम्यतः,परंवराटि
काया अपि नोत्पत्तिः।। 15 $५) ततो ऽतीवदुःखितौ ताविति संकल्पपरौ बभूवतुः । 'धिर घिर जीवितमस्माकम् । यः को 15
ऽप्युपायः प्रारभ्यते स सर्वो ऽपि पूर्वकृतदुष्कृतवशेन वालुकापिण्डकलनमिव खलप्रीतिप्राग्भार इवाञ्जलिकृतजलसंघात इव समीरप्रेरितजीमूतपद्धतिरिव विलयमायाति । कथमनेन देवेनावामेवाभाग्यभाजनं 18विहितो
सर्वेषामप्यन्येषामनवमम, परमावयोरवममेव । तावत्सर्वथैवालममना जीवितेन 18 सर्वथा दुःखनिकरमन्दिरेण । अथ कस्मिंश्चिदुञ्चशिलोच्चयशिखरमारुह्यात्मानं मुश्चावः' इत्यालोच्य तौ तच्छिखरमारुहावं प्रोचतुः। 'भोः पर्वत, तव शिखरपतनसाहसेनावामनेतनभवे दारिन्यदुःखभाजनं न भवावः ।' इत्युदित्वा तौ युगपदेव यावदात्मानं मुश्चतस्तावत्तयोः ‘मा साहसं मा साहसं' इति ध्वनि: 21 श्रवणाध्वनि पपात । तं निशम्य ताभ्यां सर्वतो दिशः पश्ययां साधुं कायोत्सर्गस्थितं निरीक्ष्य भक्त्या प्रणिपत्य प्रोचे । 'परमेश्वर मुनीश्वर, भवतावां मृत्युतः कथं निषेधितौ।' मुनिनापि ततः प्रोक्तम् । 24 'युवयोः किं वैराग्यकारणम् ।' ताभ्यामुक्तम् । 'भगवन् , आवयोर्दरिद्रतैव वैराग्यहेतुर्नान्यत् ।' साधुना-24 प्यभ्यधायि । 'भो पण्याजीवौ, भवन्तौ निर्वेदं कृत्वा मा प्राणत्यागं तनुताम् ।' ताभ्यामुदितम् । 'भो
यतीश, कथय कथं जन्मान्तरे ऽपि न दारियं पुनरावयोः।' भगवता भणितम् । 'यदि भवन्तौ दीक्षाम27 ङ्गीकृत्य तपः समाचरतस्तदेवंविधदुःखभाजनं भूयो ऽपि न भवतः।' ताभ्यामुक्तम् । एवं प्रसादः क्रिय-आ
ताम् । ततस्तेन मुनिना जैन विधिना कुमार, तयोः प्रवज्या दत्ता । इमौ तौ प्रव्रजितौ मया चित्रपटे लिखितौ। ततस्तो दुश्चरितं तपस्तत्वा समाधिना मृत्वा देवभवमुपाजग्मतुः । तयोः पुनरेक आयुषि क्षय30 मीयुषि स्वर्गतश्श्युत्वा पारापुर्यां सिंहभूपतेः सुतो भानुनामा संजातः । स चात्रोद्याने त्वम् । यः पुन- 30 द्वितीयो वणिग्जीवः स चाहम् । इमं चित्रपटं समालिख्य भवतः प्रतिबोधार्थमिहागतः । तावद्भो भानु
कुमार, प्रतिबुद्ध्यस्व मा मुहः, भीम एषभवाम्बुधिः, तरला कमला, हस्तप्राप्या विपत्तयः, दुःसहं दारिद्यम्' 33 इदमाकर्ण्य ऊहापोहं कुर्वाणः सहसैव मूच्छितो भानुकुमारः। स्मृता जातिः। परिजनेन वयस्यैश्च शीतल- 33
जलकदलीदलपवनादिभिः समाश्वासितः । ततः संजातस्वस्थचेतसा भानुनानुभूतं पूर्ववृत्तं विलोक्य
भणितम् । 36 'सर्वथा त्वं गुरुर्नाथ त्वमेव शरणं मम । येन त्वयाधुना जैनाध्वनि प्रीत्यास्मि रोपितः ॥ १६॥ 36
६) एवं वदस्तञ्चरणशुश्रूषापरायणः क्षणमेकं यावदभवं तावदुपाध्यायः पताकाराजिराजिते विविधासपत्नरत्ननिर्मिते विमाने मणिकुण्डलगलस्थलसमुच्छलदतुच्छ देहदीप्त्या दश दिशः प्रकाशयन्तं 39 वरमुकुट विराजमानं विमानसंस्थितमात्मानं प्रकटीकृत्य जगाद । 'भो भानुकुमार, दृष्टस्त्वयैष संसार-39 महीचक्रविस्तारः। ततो मया तनिरीक्षणसंजातवैराग्येण स्मृतपूर्वभवेन देवस्य पुरस्तत्क्षणमेवाभरणानि विमुच्य स्वयं विनिर्मितोत्तमाङ्गपञ्चमुष्टिकलोचस्तद्देवार्पितरजोहरणमुखवस्त्रिकाप्रतिग्रहाद्युपधिरु
6) B पुनरेतत्संसार. 40) B संसारमहाचक्र
16) 0 पिण्डक[व]लनमिव.
20) B °खरमारूढा एवं. 38) P B om, देह, B om. दश.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368