Book Title: Kuvalayamala Part 2
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
-III. § 18 : Verse 264]
कुवलयमालाकथा ३
1 निविष्टाः साधवः साध्यो जिनं नत्वा तदन्तरे । प्रमोदमेदुरास्तस्थुरुर्द्धा वैमानिकाः स्त्रियः ॥ २३६
युग्मम् ॥
6
3 प्रविश्य याम्यद्वारेण नैर्ऋते विधिना क्रमात् । ज्योतिष्क भुवनाधीशव्यन्तराणां स्त्रियः स्थिताः ॥ २३७ ३ आगत्य पश्चिमद्वारा वायव्यां भुवनेश्वराः । ज्योतिष्का व्यन्तराञ्चैवमादधुर्विधिना स्थितिम् ॥ २३८ प्रविश्याथोत्तरद्वारा प्रणम्यानुत्तरं जिनम् । वैमानिकनरा नार्य ईशान्यां क्रमतः स्थिताः ॥ २३९ न भीस्तत्र न मात्सर्य न बाधा न च दुष्कथा । नासीन्नियन्त्रणा नाहंकृतिः स्वामिप्रभावतः ॥ २४० तत्र द्वितीयवप्रान्तः कण्ठीरवगजादयः । वैरिणो ऽपि मिथः प्रेमलालसाः स्थितिमादधुः ॥ २४१ तस्थुस्तृतीयवप्रान्तर्वाहनानि क्षमाभृताम् । सुराणामसुराणां च विमानानि यथाक्रमम् ॥ २४२ क्षेत्रे योजनमात्रे ऽत्र प्राणिनः कोटिकोटिशः । संमान्ति यदनाबाधं प्रभावः प्राभवो हि सः ॥ २४३ धर्मनाथं जगन्नाथमथानम्य जिनेश्वरम् । स्तुतिं कर्तुं समारेभे पद्मसारः सुधाशनः ॥ २४३ अद्यमद्य सद्यो ऽपि क्षीणं मे क्षीणकल्मष । त्वदाननविलोकेन वायुनेव घनाघनः ॥ २४५ 12 देव त्वदङ्गिकल्पद्रुसेवाहेवा किनो ऽत्र ये । भजन्ते ते न दारिद्र्यमुद्रामुद्रितमाश्रयम् ॥ २४६ नीरागं तव यच्चित्तं तन्मिथ्या नाथ कथ्यते । मुक्तिनारीपरीरम्भलोलुभं कथमन्यथा ॥ २४७ गुणैस्तवातिनीरन्धैर्धर्मनाथ मनो मम । तथा बद्धं यथा गन्तुं नोत्सहत्यन्यदैवते ॥ २४८ श्रीधर्मनाथ भगवन् भविता स क्षणः कदा । भवितास्खो यदा त्वं चाहं चैकत्राव्यये पदे ॥ २४९ तनोति न तथोत्कण्ठां मानसं मे शिवश्रिये । यथा तव पदाम्भोजवरिवस्याविधौ विभो ॥ २५० त्वमनल्पमतिः स्वामिन् ध्रुबमल्पमतिस्त्वहम् । अतो नहि मया कर्तुं शक्यस्तव गुणस्तवः ॥ २५१ जिहामेकां श्रुती नेत्रे द्वे द्वे नाथ विधिर्व्यधात् । क्षमः कीर्ति गुणान् रूपं वक्तुं श्रोतुं किमीक्षितुम् ॥२५२ 18 एतमेवार्थयेऽत्यर्थमर्थमर्थीत्र तीर्थप । वीतराग परं वीतरागं मम मनः कुरु ॥ २५३ ऋभुप्रभुप्रतीक्ष्यं तं स्तुत्वा तत्त्वावलोकटक् । निषसाद यथास्थानं पद्मसारः प्रमोदतः ॥ २५४ अथो सुधारसमुचं समाचारप्रचारिकाम् । विधातुं देशनां धर्मचक्रवर्ती प्रचक्रमे ॥ २५५ असार एव संसारः सर्वदा दुःखमन्दिरम् । धर्म एव प्रशस्यः स्यात् तत्र स्वर्गापवर्गदः ॥ २५६ संसारसागरे पारे भ्रमद्भिः प्राणिभिश्चिरात् । नृजन्म लभ्यते पुण्यैर्वसुधान्तर्निधानवत् ॥ २५७ 24 नृभवं दुर्लभं प्राप्य यः प्राणी तनुते तनु । न हितं प्रान्तकाले हि शोचत्यात्मानमेव सः ॥ २५८ करालज्वलनज्वालावलीढे मन्दिरे यथा । स्थातुं न युज्यते पुंसस्तथा दुःखाकुले भवे ॥ २५९ मानुष्यं दुर्लभं प्राप्य चिन्तारत्नसहोदरम् । विवेकिभिर्विधातव्यः प्रमादो न कदाचन ॥ २६० गृह्णाति का किर्णी को sपि मूढः कोटिं यथोज्झति । तथा पुमान् विषयजं शर्म धर्म जिनोदितम् ॥ २६१ 27 सागरान्तरकल्लोलमाला लोलाः श्रियो नृणाम् । कुशाग्रस्थ स्तुषाराम्बु बिन्दुकम्पं हि जीवितम् ॥ २६२ रूपलक्ष्मीस्तडिद्दण्डसादृश्यं भजते ऽनिशम् । स्वाम्यं स्वनोपमं संध्या मेघलेखासखं सुखम् ॥ २६३ 30 देशनाविरते श्रीमद्धर्मनाथ जिनेश्वरे । कृताञ्जलिस्ततो वाचमुवाच गणभृत्तमः ॥ २६४
30
'भगवन्, एतस्यां सुरासुरनरतिर्यक्कोटिनिभृतायां पर्षदि कः प्रथमं महोदयपदं गामी' इति । ततो भगवता निवेदितम् । 'भो देवानुप्रिय, यस्तव सविधे वृषलोचनः स्मृतपूर्वभवः संविग्नमानसो 33 निर्भयप्रचारो मद्दर्शनसंतुष्टः प्रमोदभरप्रविगलदश्रुलोचनयुगलस्ताण्डवित कर्णयामलः समागच्छन्नस्ति 33 सर्वेषामपीहस्थजन्तूनां पूर्वमेवैष पापविनिर्मुक्तः सिद्धिपदं गमिष्यति' इति । एवं भगवतो भणितानन्तरमेव समकालं सकलनरेन्द्रवृन्दत्रिदशेन्द्रलोचनानि कौतुकरभसविकाशवन्ति मूषकोपरि निपतितानि । 36 स चागत्य भक्तिभर निर्भराङ्गो भगवतः श्रीधर्मनाथस्य पादपीठे लुलोठ । महीतलनमितोत्तमाङ्गः सर्वाङ्ग- 36 रोमोम संगम आखुः स्वभाषया भषितुं प्रवृत्तः । ततो भणितं त्रिदशपतिना । 'भगवन्, मम मनसि महकौतुकमिदं यदेष मूषकः सर्वाधमस्तुच्छजातिः काननान्तरसंचारी सर्वेषामेवास्माकं मध्ये प्रथमं 39 39 निर्वृतिश्रियमाश्रयिष्यति ।' ततः श्रीमद्भगवान् स्वयमवादीत् ।
९ १८ ) अस्ति विन्ध्यो नाम महीधरः । तस्योपत्यकायां विन्ध्यावासाभिधानो महान् संनिवेशः, स चातीव विषमः । तत्र महेन्द्रः पृथिवीपतिः । तस्य ताराभिधाना महादेवी । तत्कुक्षिसंभवः सुत42 स्ताराचन्द्रो ऽष्टवर्षदेशीयः । अत्रावसरे छिद्रान्वेषिणा बद्धवैरातिशयेन कोशलेन भूमिपतिनावस्कन्दं 42
9
15
18
21
27
8 ) P च वैमानानि 20 ) P प्रतीक्षं तं. 31 ) PB om. पर्षदि. 37 ) Bom. ततो. 39 ) PB निवृत्ति 41 ) Before महादेवी Padds लोचना and B adds सुलोचना (सु being added later ).
6
Jain Education International
* 41
For Private & Personal Use Only
1
6
9
12
15
21
24
www.jainelibrary.org
Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368