Book Title: Kuvalayamala Part 2
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 214
________________ -III. § 16: Verse 200] 1 कुवलयमालाकथा ३ एनां कथामवितथां विनयप्रधानां सम्यग् निधाय हृदि मन्त्रमुनीश्वरस्य । यूयं यतध्वमधुना विनये निकामं यस्मादयं दिशति निर्वृतिशर्मलक्ष्मीम् ॥ २०० । इति विनये विनीतस्य कथा । 3 3 (१५) अत्रान्तरे चण्डसोमप्रमुखैः पञ्चभिर्मुनिभिर्विज्ञप्तम् । 'यद्भगवानाज्ञापयति तत्सर्वमपि प्रपत्स्यामहे । यत् पुनर्दुश्चरित्रं तच्छल्यमिव हृदये प्रतिभाति ।' ततो भगवता श्रीधर्मनन्दनेन समादिष्टम् । 6 'एतत् कदापि चेतसि न चिन्तनीयं यत्किलास्माभिः पापकर्म समाचरितम् । स केवलं पापकर्मा यः 6 पश्चात्तापपरो न भवेत् ।' इति श्रुत्वा भूपतिर्मनसैव श्रीधर्मनन्दनाचार्य प्रणिपत्योद्यानान्निर्गत्य विद्युदुत्क्षिप्तकरणेन प्राकार मुल्लङ्घय वासवेश्म प्रविवेश, निर्विण्णः शयने सुष्वाप च । साधवो ऽपि स्वाध्याय9 दत्तावधानाः कृतावश्यकाः क्षणं निद्रामुपलभ्य प्राभातिककालग्रहणप्रवणा बभूवुः । अत्रावसरे ऽरुणप्र- 9 भापाटलिते गगनतले क्रमेण विरोचने पूर्वाचलचूलावलम्बिनि प्राभातिकतूर्यारवाडम्बरं बन्दिजनमुखवर्णितं प्रभातावसरं च समाकर्ण्य निद्राघूर्णितताम्रनयनयुगलः पृथ्वीपालः शयनीयादुत्तस्थौ । ततः स 12 कृतावश्यककर्मा भूमिवासवः प्रभातकृत्यं विधाय च सचिववासवसमेतश्चतुरङ्गबलकलितः शक्र इव 12 चतुर्दन्तं कुञ्जरमारुह्योद्यानं समागम्य भगवन्तं श्रीधर्मनन्दनविभुं साधूंश्च प्रणनाम । ततो भूपतिना जल्पितम् । 'भगवन् सर्वथैव पुत्रमित्रकलत्रादिममत्वं त्यक्तुं न क्षमः परं गृहस्थावस्थस्यैव मम किं चि - 15 त्संसारसागरतरण्डकं देहि ।' भगवता निवेदितम् । 'यद्येवं तावदेतानि पञ्चाणुव्रतानि त्रीणि गुणवतानि 15 चत्वारि शिक्षावतानीति सम्यक्त्वमूलं द्वादशविधं श्रावकधर्म प्रतिपालय' इति । तेन नरेश्वरेण 'यदाज्ञापयति प्रभुः' इति वदता सम्यक्त्वमूलानि द्वादशव्रतान्यङ्गीकृतानि । ततः सचिववासवः समुवाच । 18 'भगवन्, किमपि भवतां पूर्ववृत्तान्तं वयं न जानीमः ।' भगवता जल्पितम् । 'अयमेव कथयिष्यति । 18 अस्माकं सूत्रपौरुषीव्यतिक्रमो भवति । अद्य तावदस्माभिर्विहारः कार्य एव । एतदाकर्ण्य भूपतिर्वासवसचिवान्वितो भगवच्चरणारविन्दयुगलमभिनम्य निजधवलधाम समुपाजगाम । भगवान् सूत्रपौरुष 21 निर्माय प्रधानेषु क्षेत्रेषु विहाराय प्रचचाल । ते ऽपि चण्डसोमप्रमुखाः स्तोकेनापि कालेनाधीतशास्त्रार्था 21 द्विविध शिक्षाविचक्षणा जज्ञिरे । तेषां चैकदिवससमव सृतिप्रव्रजितानां महान् धर्मानुरागो मिथः समजनि । अन्यदा तेषां पञ्चानामपि परस्परं संलापः समभूत् । 'भो, दुर्लभो जिनप्रणीतो धर्मः कथं 24 पुनरन्यभवे प्राप्यत इति तावत्सर्वथा किमत्राचरणीयम् । इति भणित्वा परस्परं तैः पञ्चभिरप्यग्रेत- 24 नभवोपरि प्रतिबोधसंकेतश्चक्रे । एवं च तेषां मुनीनां सिद्धान्ताभ्यासलालसानां कालो व्यतिक्रमति । किंतु चण्डसोमः स्वभावेन कोपनो मायादित्यो ऽपि मनाग् मायावी वर्तते । अपरे पुनः संयमिनः 27 प्रतिभग्नदुर्जयकषायप्रसराः प्रव्रज्यामनुपालयन्तः सन्ति । कालेन च स लोभ देवो निजमायुः प्रपाल्य 27 कृत संलेखनादिविधिज्ञानदर्शनचारित्र तपोविहिताराधनः पूर्वबद्धदेवायुर्विपद्य सद्यो ऽनवद्यलक्ष्मीः 9 धर्मदेव पद्मविमाने समयेनैकेन देवत्वमशिश्रियत् । स च पद्मप्रभनामा तत्र त्रिदशः स्वैरं * 39 30 चिक्रीड | एवं मानभटो ऽपि स्वायुषि यमीयुषि संसारलतालवित्रीं सुखसंपदां धरित्रीं पञ्चपरमेष्ठि- 30 नमस्कृतिं स्मरंस्तेनैव क्रमेण तस्मिन्नेव विमाने ऽनेकयोजनविस्तृते पद्मसारनामेति देवः समुदपद्यत । एवं मायादित्यचण्डसोममोहदत्तात्रयो ऽपि कृतचतुर्विधाहारपरीहाराः पञ्चपरमेष्टिनमस्कारपरायणा 33 आराधनविधानाबद्ध चेतसश्चतुः शरणशरणाः परिहृताष्टादशपापस्थाना यथासंयमविधिना प्राणितान्ते 33 यथाक्रमेण पद्मवर-पद्मचन्द्र - पद्मकेसराभिधानास्तस्मिन्नेव विमाने सुमनसः समभवन् । तत एवं तेषां पद्मविमाने समुत्पन्नानां समविभवपरिवारबलप्रभावपौरुषायुषामन्योन्यस्नेहलालितमनसां मिथः 36 कृतसंकेतानां कालो व्यतिक्रामति । 1 ) B सम्यग् विधाय 3 ) P Bom इति. (15) o तरण्डं P तरडवं 20 ) PB चरणयुगल Jain Education International 1 (१६) अत्रान्तरे सुरसेनापतिताडितघण्टानिनादे समुच्छलिते सहसैव तैर्वृन्दारकैः 'किमिति घण्टानादः ।' इति परिजनो ऽप्रच्छि । ततः प्रतीहारो व्यजिज्ञपत् । 'देव, जम्बूद्वीपे भरतक्षेत्रे मध्यमखण्डे 39 श्रीमतो धर्मतीर्थकृतः समुत्पन्नविमलकेवलज्ञानस्य समवसृतौ त्रिदशवृन्दसहितेन सुरेश्वरेण गन्तव्य - 39 मस्ति । तदा तदाकर्ण्य तैः सुरैस्तत्रस्यैरेव भक्तिभरावनतोत्तमाङ्गः श्रीधर्मनाथस्य भगवतः प्रणतिश्चक्रे । 10 ) P पाटलिगगनतले. 13 ) PB ह्योद्यानमागम्य 14 ) P कलत्रा दिमित्र. 21 ) P धीतशास्त्रा. 24 ) 0 प्रापयिष्यते इति. For Private & Personal Use Only 36 www.jainelibrary.org

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368