________________
-III. § 16: Verse 200]
1
कुवलयमालाकथा ३
एनां कथामवितथां विनयप्रधानां सम्यग् निधाय हृदि मन्त्रमुनीश्वरस्य । यूयं यतध्वमधुना विनये निकामं यस्मादयं दिशति निर्वृतिशर्मलक्ष्मीम् ॥ २०० । इति विनये विनीतस्य कथा ।
3
3
(१५) अत्रान्तरे चण्डसोमप्रमुखैः पञ्चभिर्मुनिभिर्विज्ञप्तम् । 'यद्भगवानाज्ञापयति तत्सर्वमपि प्रपत्स्यामहे । यत् पुनर्दुश्चरित्रं तच्छल्यमिव हृदये प्रतिभाति ।' ततो भगवता श्रीधर्मनन्दनेन समादिष्टम् । 6 'एतत् कदापि चेतसि न चिन्तनीयं यत्किलास्माभिः पापकर्म समाचरितम् । स केवलं पापकर्मा यः 6 पश्चात्तापपरो न भवेत् ।' इति श्रुत्वा भूपतिर्मनसैव श्रीधर्मनन्दनाचार्य प्रणिपत्योद्यानान्निर्गत्य विद्युदुत्क्षिप्तकरणेन प्राकार मुल्लङ्घय वासवेश्म प्रविवेश, निर्विण्णः शयने सुष्वाप च । साधवो ऽपि स्वाध्याय9 दत्तावधानाः कृतावश्यकाः क्षणं निद्रामुपलभ्य प्राभातिककालग्रहणप्रवणा बभूवुः । अत्रावसरे ऽरुणप्र- 9 भापाटलिते गगनतले क्रमेण विरोचने पूर्वाचलचूलावलम्बिनि प्राभातिकतूर्यारवाडम्बरं बन्दिजनमुखवर्णितं प्रभातावसरं च समाकर्ण्य निद्राघूर्णितताम्रनयनयुगलः पृथ्वीपालः शयनीयादुत्तस्थौ । ततः स 12 कृतावश्यककर्मा भूमिवासवः प्रभातकृत्यं विधाय च सचिववासवसमेतश्चतुरङ्गबलकलितः शक्र इव 12 चतुर्दन्तं कुञ्जरमारुह्योद्यानं समागम्य भगवन्तं श्रीधर्मनन्दनविभुं साधूंश्च प्रणनाम । ततो भूपतिना जल्पितम् । 'भगवन् सर्वथैव पुत्रमित्रकलत्रादिममत्वं त्यक्तुं न क्षमः परं गृहस्थावस्थस्यैव मम किं चि - 15 त्संसारसागरतरण्डकं देहि ।' भगवता निवेदितम् । 'यद्येवं तावदेतानि पञ्चाणुव्रतानि त्रीणि गुणवतानि 15 चत्वारि शिक्षावतानीति सम्यक्त्वमूलं द्वादशविधं श्रावकधर्म प्रतिपालय' इति । तेन नरेश्वरेण 'यदाज्ञापयति प्रभुः' इति वदता सम्यक्त्वमूलानि द्वादशव्रतान्यङ्गीकृतानि । ततः सचिववासवः समुवाच । 18 'भगवन्, किमपि भवतां पूर्ववृत्तान्तं वयं न जानीमः ।' भगवता जल्पितम् । 'अयमेव कथयिष्यति । 18 अस्माकं सूत्रपौरुषीव्यतिक्रमो भवति । अद्य तावदस्माभिर्विहारः कार्य एव । एतदाकर्ण्य भूपतिर्वासवसचिवान्वितो भगवच्चरणारविन्दयुगलमभिनम्य निजधवलधाम समुपाजगाम । भगवान् सूत्रपौरुष 21 निर्माय प्रधानेषु क्षेत्रेषु विहाराय प्रचचाल । ते ऽपि चण्डसोमप्रमुखाः स्तोकेनापि कालेनाधीतशास्त्रार्था 21 द्विविध शिक्षाविचक्षणा जज्ञिरे । तेषां चैकदिवससमव सृतिप्रव्रजितानां महान् धर्मानुरागो मिथः समजनि । अन्यदा तेषां पञ्चानामपि परस्परं संलापः समभूत् । 'भो, दुर्लभो जिनप्रणीतो धर्मः कथं 24 पुनरन्यभवे प्राप्यत इति तावत्सर्वथा किमत्राचरणीयम् । इति भणित्वा परस्परं तैः पञ्चभिरप्यग्रेत- 24 नभवोपरि प्रतिबोधसंकेतश्चक्रे । एवं च तेषां मुनीनां सिद्धान्ताभ्यासलालसानां कालो व्यतिक्रमति । किंतु चण्डसोमः स्वभावेन कोपनो मायादित्यो ऽपि मनाग् मायावी वर्तते । अपरे पुनः संयमिनः 27 प्रतिभग्नदुर्जयकषायप्रसराः प्रव्रज्यामनुपालयन्तः सन्ति । कालेन च स लोभ देवो निजमायुः प्रपाल्य 27 कृत संलेखनादिविधिज्ञानदर्शनचारित्र तपोविहिताराधनः पूर्वबद्धदेवायुर्विपद्य सद्यो ऽनवद्यलक्ष्मीः
9
धर्मदेव पद्मविमाने समयेनैकेन देवत्वमशिश्रियत् । स च पद्मप्रभनामा तत्र त्रिदशः स्वैरं
* 39
30 चिक्रीड | एवं मानभटो ऽपि स्वायुषि यमीयुषि संसारलतालवित्रीं सुखसंपदां धरित्रीं पञ्चपरमेष्ठि- 30 नमस्कृतिं स्मरंस्तेनैव क्रमेण तस्मिन्नेव विमाने ऽनेकयोजनविस्तृते पद्मसारनामेति देवः समुदपद्यत । एवं मायादित्यचण्डसोममोहदत्तात्रयो ऽपि कृतचतुर्विधाहारपरीहाराः पञ्चपरमेष्टिनमस्कारपरायणा 33 आराधनविधानाबद्ध चेतसश्चतुः शरणशरणाः परिहृताष्टादशपापस्थाना यथासंयमविधिना प्राणितान्ते 33 यथाक्रमेण पद्मवर-पद्मचन्द्र - पद्मकेसराभिधानास्तस्मिन्नेव विमाने सुमनसः समभवन् । तत एवं तेषां पद्मविमाने समुत्पन्नानां समविभवपरिवारबलप्रभावपौरुषायुषामन्योन्यस्नेहलालितमनसां मिथः 36 कृतसंकेतानां कालो व्यतिक्रामति ।
1 ) B सम्यग् विधाय 3 ) P Bom इति. (15) o तरण्डं P तरडवं 20 ) PB चरणयुगल
Jain Education International
1
(१६) अत्रान्तरे सुरसेनापतिताडितघण्टानिनादे समुच्छलिते सहसैव तैर्वृन्दारकैः 'किमिति घण्टानादः ।' इति परिजनो ऽप्रच्छि । ततः प्रतीहारो व्यजिज्ञपत् । 'देव, जम्बूद्वीपे भरतक्षेत्रे मध्यमखण्डे 39 श्रीमतो धर्मतीर्थकृतः समुत्पन्नविमलकेवलज्ञानस्य समवसृतौ त्रिदशवृन्दसहितेन सुरेश्वरेण गन्तव्य - 39 मस्ति । तदा तदाकर्ण्य तैः सुरैस्तत्रस्यैरेव भक्तिभरावनतोत्तमाङ्गः श्रीधर्मनाथस्य भगवतः प्रणतिश्चक्रे ।
10 ) P पाटलिगगनतले. 13 ) PB ह्योद्यानमागम्य 14 ) P कलत्रा दिमित्र. 21 ) P धीतशास्त्रा. 24 ) 0 प्रापयिष्यते इति.
For Private & Personal Use Only
36
www.jainelibrary.org