________________
* 38
रत्नप्रभसूरिविरचिता
[ III. §$ 13 : Verse 1691 चतुर्दशः, निद्रा - स्वाप इति पञ्चदशः, अविरतिः - अप्रत्याख्यानमिति षोडशः, रागः- सुखाभिशस्य सुखानु- 1 स्मृतिपूर्वदुःखे तत्साधने ऽप्यभिमते विषये गर्धत इति सप्तदशः, द्वेषः - दुःखाभिज्ञस्य दुःखानुस्मृति3 पूर्वदुःखे तत्साधने वा क्रोध इत्यष्टादशः, इत्यष्टादशदोषास्तेषामृषभादीनामर्हतां न भवन्तीति । अतीता- 3 नागतवर्तमानलक्षणं कालत्रयम् । धर्मास्तिकायो ऽधर्मास्तिकायः पुद्गलास्तिकायो जीवास्तिकाय आकाशास्तिकाय ते पञ्चास्तिकायाः । एतत्सर्वमपि श्रीजैनशासनरहस्यं विवेकिना परिज्ञेयम् ।
(१४) विनीतो देशनामेनां श्रुत्वा तत्त्वानुगामिनीम् ।
6
9
12
15
18
21
24
27
30
33
36
39
नमस्कृत्य गुरून् गेहं गुणग्रामगुरूनगात् ॥ १६९
एवं स नित्यमभ्येति हित्वा व्यापारमात्मनः । धर्मामृतं पिबत्येष तृषाकान्त इव स्वयम् ॥ १७० सो ऽन्यदा चलितान् ज्ञात्वा प्रभून् विनयतो ऽवदत् । जनको ऽस्त्वत्र मे येन प्रीतिरुत्पद्यते ऽमुतः ॥ १७१ ० ततस्ते सूरयो ऽवोचन् ज्ञात्वा ज्ञानेन तत्त्वतः । नायं ते जनको मन्त्रिन् किंतु ते पोषकः पिता ॥ १७२ विनीतः प्राह निर्माय निर्मायः स्वं शिरोनतम् । कस्तर्हि ते ततः प्रोचुः सूरयस्तत्वकोविदाः ॥ १७३ पिता कर्मकरो वृद्धो माता कर्मकरी च ते । युवा च कर्मकृद्धातेत्यवगच्छ कुटुम्बकम् ॥ १७४ अन्यथा भाषिणो नामी निश्चित्येति प्रणम्य तान् । स जगाम निजं धाम बाप्पाविलविलोचनः ॥ १७५ मी निवस्त्राया धूमध्यामलचक्षुषः । कौतुकात्पश्यति जने स किङ्कर्याः पदे ऽपतत् ॥ १७६ त्वमत्रस्थापि न ज्ञाता हतकेन मया हहा । मातः सिद्धिरिवेदानीं गुरुभिः कथितासि मे ॥ १७७ त्वयाहं पुत्रवन्नित्यमजानत्यापि लालितः । कृतघ्नेन मया कर्मकृत्वे हासि नियोजिता ॥ १७८ दुर्भिक्षे पोषितं हा धिक् पिक्येव त्वामशक्तया । पापयासि मया मार्गे त्यक्तो धिग्मां कुमातरम् ॥ १७९ लब्धपक्षः स्वभाग्येन वचोभिरमृतोपमैः । पिकवत्प्रीणयन् लोकं परां श्रियमशिश्रियः ॥ १८० पितुर्भ्रातुश्च चलनौ नमस्यन् विनयादयम् । विनीतो वक्षसा ताभ्यामाश्लिष्टः प्राप संमदम् ॥ १८१ वक्रेतरमतिश्चक्रे सञ्चक्रे प्रथमस्ततः । सर्वत्राधिकृतानेतान् विनीतः स्वनिकेतने ॥ १८२
18
6
यथोचितां वितन्वानो ऽन्येषामप्येष माननाम् । सुवचोभिः क्रियाभिश्च सर्वत्र प्रथितो ऽभवत् ॥ १८३ 21 श्रीमज्जैनपदाम्भोजे भजतश्चञ्चरीकताम् | कदाचनास्य न स्वान्ते क्रूरत्वं लभते स्थितिम् ॥ १८४ प्रवेष्टुं मान से यस्य शमसर्पारिराजिते । न क्षमाः प्राणभीत्येव कषायाः पन्नगा इव ॥ १८५
2 ) B सुखे for दुःखे 5 ) P धर्मास्तिकायाः । एतत्सर्वमपि etc. 11 ) P निर्माय निमेयि स्वं 0 निर्माय (यः) निर्माय स्वं, P मत: for ततः 15 ) 0 सिद्धिरेवेदानीं 16 ) B has an additional verse ( after नियोजिता ) like this - इति साश्रं [सास्र ] वदतास्मिन् संजातप्रश्न [ = स्न] वाथ सा [ 1 ] चिरात् ज्ञातासि वत्सत्वमित्युक्त्वा दत्तवक्षसा ॥ 34 ) B साश्रलोचनः. 36 ) B भवनाशन
12
सर्वदा प्राज्यराज्यश्री चिन्ताचान्तमना अपि । गार्हस्थ्ये वर्तमानो ऽपि सदाचारं ततान यः ॥ १८६ कदापि श्रमणस्थाने वन्दनार्थ स यातवान् । मुनिमेकमतिग्लानं वीक्ष्य श्रद्धोद्धुरो ऽब्रवीत् ॥ १८७ औषधं मगृहे सम्यगस्ति रोगनिवर्तकम् । प्रासुकं चेति साधुभ्यामानाययत सत्वरम् ॥ १८८ इत्युक्त्वा स ययौ गेहे साधुभ्यां सह धीसखः । तस्थतुस्तौ वहिः साधू स तु वेश्मान्तराविशत् ॥ १८९ 27
अथ च ।
Jain Education International
15
For Private & Personal Use Only
श्रेष्ठकन्यामुना कापि वृतास्ति गुणशालिनी । दत्तो मौहूर्त्तिकैः सैव दिवसस्तद्विवाहने ॥ १९० तद्विहस्ततया मन्त्री विसस्मार तदौषधम् । किंचित्तत्र मुनी स्थित्वा जग्मतुर्निजमाश्रयम् ॥ १९१ 30 पाणिग्रहणसामग्री समग्रामप्यकारयत् । लग्नक्षणस्य प्राप्तौ स सस्मार च तदौषधम् ॥ १९२ सविधायोत्तरं तत्र किं चिन्मित्रेण संगतः । पश्चात्तापकृदादायौषधं वसतिमागमत् ॥ १९३ रोगात Sपि मुग्लिनो विदधे नान्यदौषधम् । ततः कष्टमुपारुढो बभूवातीव निस्सहः ॥ १९४ 33 तं तथाविधमालोक्य विनीतः साश्रुलोचनः । आत्मानमात्मना निन्दन् पतितस्तस्य पादयोः ॥ १९५ त्रिधा क्षमयतस्तस्य विनीतस्य च तं मुनिम् । समलङ्कृतवीवाहोचितमण्डनशालिनः ॥ १९६ ध्यायतो भावनां तस्य भविनां भवनाशिनीम् । केवलज्ञानमुत्पेदे घातिकर्मक्षयात् क्षणात् ॥ १९७ 36 ज्ञानेन तेन विदितेन समुजवलेन संपश्यतस्त्रिजगतीजनतामनन्ताम् । चारित्रचिह्नमथ तस्य मुनीश्वरस्य क्षिप्रं समर्पितवती ननु जैनदेवी ॥ १९८ नारी नितम्ब जघनस्तनभूरिभारां हित्वा भवोदधिनिमज्जनहेतुमेताम् । तत्रैव लग्नसमये प्रवरे वराङ्गीं व्यूहे तपस्विषु वरः स चरित्रलक्ष्मीम् ॥ १९९
24
39
www.jainelibrary.org