________________
-III. $ 13 : Verse 168] कुवलयमालाकथा ३
* 37 1भावो न स्यादिति दशमः। तथा स्वराष्ट्रात्परराष्ट्राच्च भयं न स्यादित्येकादशः। एवमेकादशातिशयाः कर्मणां 1
ज्ञानावरणीयादीनां चतुर्णा घातात् क्षयाजायन्ते इति । तथा देवकृता अतिशयाः। खे आकाशे धर्म3 प्रकाशकं चक्रं भवतीति देवकृतः प्रथमोऽतिशयः। तथा खे चमरा इति द्वितीयः। तथा खे पादपीठेन सह 3 मृगेन्द्रासनं सिंहासनमुज्वलं निर्मलमाकाशस्फटिकमयत्वादिति तृतीयः। तथा खे छत्रत्रयमिति चतुर्थः। तथा खे रत्नमयो ध्वज इति पञ्चमः । तथा पादन्यासनिमित्तं सुवर्णकमलानि नव भवन्तीति षष्ठः । तथा 6 समवसरणे रत्नसुवर्णरूप्यमयं प्राकारत्रयं मनोज्ञ भवतीति सप्तमः।तथा चत्वारि मुखान्यङ्गानि गात्राणि 6 च यस्य स तथा तद्भावश्चतुर्मुखाङ्गता भवतीत्यष्टमः। तथा चैत्याभिधानो द्रुमोऽशोकवृक्षः स्यादिति नवमः। तथा अधोमुखाः कण्टका भवन्तीति दशमः । द्रुमाणां नम्रता स्यादित्येकादशः । तथा उच्चैर्भुवनव्यापी 9 दुन्दुभिध्वानः स्यादिति द्वादशः। तथा वातः सुखत्वादनुकूलो भवतीति त्रयोदशः । तथा पक्षिणः प्रद-9 क्षिणगतयः स्युरिति चतुर्दशः। तथा गन्धोदकवृष्टिरिति पञ्चदशः। बहुवर्णानां पञ्चवर्णानां जानूत्सेध
प्रमाणानां मणीचकानां वृष्टिः स्यादिति षोडशः। तथा कचानामुपलक्षणत्वाल्लोम्नां च कूर्चस्य नखानां 12 पाणिपादजानामवस्थितत्वस्वभावत्वमिति सप्तदशः। तथा भुवनपत्यादिचतुर्विधदेवनिकायानां जघन्य- 12 तोऽपि समीपे कोटिर्भवतीत्यष्टादशः। तथा ऋतूनां वसन्तादीनां सर्वदा पुष्पादिसामग्रीभिरिन्द्रियार्थानां
रसगन्धरूपशब्दानाममनोज्ञानामपकर्षेण मनोज्ञानां च प्रादुर्भावेनानुकलत्वं भवतीत्येकोनविंशः। 15 इति देवैः कृता एकोनविंशतिस्तीर्थकृतामतिशयाः। एते च यदन्यथापि दृश्यन्ते तन्मतान्तरमवगम्यमिति। 15 ते च सहजैश्च चतुर्भिः कर्मक्षयरेकादशभिः सह मीलिताश्चतुस्त्रिंशद्भवन्तीति । १२) अथ वचनातिशयाः।संस्कारवत्त्वं-संस्कृतलक्षणयुक्तत्वम् १,औदात्त्यम्-उच्चैर्वृत्तिता २, उप
म्यत्वम३.मेघगम्भीरघोषत्वं-मेघस्येव गम्भीरशब्दत्वम४, प्रतिनादविधायिता-प्रति- 18 रवोपेतत्वम् ५, दक्षिणत्वं सरलत्वम् ६, उपनीतरागत्वं-मालवकैशिक्यादिग्रामरागयुक्तता ७, एते च सप्त
शब्दापेक्षयातिशयाः। अन्ये त्वातिशयाः। तत्र महार्थता-बृहदभिधेयता ८, अव्याहतत्वं-पूर्वापरवाक्या21 विरोधः ९, शिष्टत्वम्-अभिमतसिद्धान्तोक्तार्थता वक्तुः शिष्टतासूचकत्वं वा १०, संशयानामसंभव:- 21
असंदिग्धत्वम् ११, निराकृतान्योत्तरत्वं-परदूषणाविषयता १२, हृदयंगमता-हृदयग्राह्यत्वम् १३, मिथः साकाङ्क्षता-परस्परेण पदानां वाक्यानां वा सापेक्षता १४, प्रस्तावौचित्यं-देशकालाव्यतीतत्वम् १५, तत्त्व24 निष्ठता-विवक्षितवस्तुस्वरूपानुसारिता १६, अप्रकीर्णप्रसृतत्वं-सुसंबद्धस्य सतःप्रसरणम् ,अथवाअसंबद्धा- 24 धिकारित्वातिविस्तरणाभावः १७, अस्वश्लाघान्यनिन्दिता-आत्मोत्कर्षपरनिन्दाविप्रयुक्तत्वम् १८, आभि
जात्यं-वक्तुः प्रतिपाद्यस्य वा भूमिकानुसारिता १९, अतिस्निग्धमधुरत्वं-घृतगुडादिवत्सुखकारित्वम् २०, 27 प्रशस्यता-उक्तगुणयोगात्प्राप्तश्लाघता २१, अमर्मवेधिता-परमानुद्धट्टनस्वरूपत्वम् २२, औदार्यम्-अमि-27
घेयार्थस्यातुच्छत्वम् २३, धर्मार्थप्रतिबद्धता-धर्मार्थाभ्यामुपेतत्वम् २४, कारकाद्यविपर्यासः-कारककालवचनलिङ्गादिव्यत्ययवचनदोषापेतता २५, विभ्रमादिवियुक्तता-विभ्रमो वक्तृमनसोभ्रान्ततास आदिर्येषां 30 विक्षेपादीनांस विभ्रमादिर्मनोदोषस्तेन वियुक्तत्वम् २६,चित्रकृत्त्वम्-उत्पादिताविच्छिन्नकुतूहलत्वम् २७, 30
अद्भुतत्वं-प्रतीतत्वम् २८, तथानतिविलम्बिता-प्रतीता २९, अनेकजातिवैचित्र्यं-जातयो वर्णनीयवस्तुस्वरूपवर्णनानि तत्संश्रयाद्विचित्रत्वम् ३०, आरोपितविशेषता-वचनान्तरापेक्षयाहितविशेषणत्वम् ३१, 33 सत्त्वप्रधानता-साहसोपेतता ३२, वर्णपदवाक्यविविक्तता-वर्णादीनां विच्छिन्नत्वम् ३३, अव्युच्छित्तिः- 33 विवक्षितार्थसम्यसिद्धिं यावव्यवच्छिन्नवचनप्रमेयता ३४, अखेदित्वम्-अनायाससंभवः ३५,
इत्येवमर्हतां पञ्चत्रिंशद्वाचां गुणातिशया भवन्तीति । 36 : १३) दानगतोऽन्तराय इत्येको दोषः, लाभगतोऽन्तराय इति द्वितीयः, वीर्यगतोऽन्तराय इति 36 तृतीयः, भुज्यत [इति ] भोगः स्रगादिस्तगतो ऽन्तराय इति चतुर्थः, उपभुज्यत [इति ] उपभोगो ऽङ्गनादि तद्गतोऽन्तराय इति पञ्चमः, हासः-हास्यमिति षष्ठः, रतिः-पदार्थानामुपरि प्रीतिरिति सप्तमः, 39 अरतिः रतेरविषय इत्यष्टमः, भीतिः-भयमिति नवमः, जुगुप्सा-घृणेति दशमः, शोकः-चित्तवैधुर्यमि- 39 त्यंकादशः, कामः-मन्मथ इति द्वादशः, मिथ्यात्वं-दर्शनमोह इति त्रयोदशः, अज्ञान-मौढयमिति
8) B तथा कंटका अधोमुखा भवंतीति दशमः तथा द्रुमा वृक्षा नमंतीति एकादशः खे दुंदुभिनाद उच्चैरतिशयेनेति द्वादशः। 9) P read त्रयोदश etc. without. 10) om. पञ्चवर्णानां. 12) BP मवस्थितस्वभा, B सप्तदश is made सप्तदशमः with the addition of मः on the line. 14) B स्पर्शरसगंध, P°मपाकर्षण. 25) P अभिजात्यं. 28) P B°भ्यामनपेतत्वम्. 30) 0 'दोषत्वेन कियुक्तत्वं. The printed text puts hyphens which are not found in the Mss. In the Mss, the words stand separate or joined in Sandhi,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org