________________
* 40
रत्नप्रभसूरिविरचिता [III. 16 : Verse 2011 अथ ते सुराः पद्मसारप्रमुखास्त्रिदशाधिपेन सार्धं भावनाभावितान्तःकरणाश्चम्पापुर्या श्रीधर्मजिनेश्वरस्य 1
समवसरणमवापुः । पद्मसारेण सुमनसा सुमनःपतिरभाणि । 'यदि यूयं ममाज्ञां ददत ततोऽद्याहमेक 3 एव गोस्वामिनः श्रीधर्मजिनेन्द्रस्य समवसृति रचयामि' इति । वज्रिणा तथा' इति प्रतिपेदे । तथा हि , 3
योजनोन्मानमेदिन्यां पद्मसारः शुभाशयः । प्रमार्जयन् रजो बाह्य स्वस्यान्तस्तदपाहरत् ॥ २०१ ततः स एव गीर्वाणः सुगन्धोदकवृष्टिभिः । सिषिचे पुण्यबीजस्य वापायेव महीतलम् ॥ २०२ सुवर्णमणिमाणिक्यश्रेणिभिर्भक्तिभासुरः । हर्षतः परितः पद्मसारः पृथ्वीं बबन्ध सः॥२०३ 6 जानुदन्नरधोवृन्तैः पञ्चवर्णैर्मणीचकैः। भाविधर्मानिसंस्पर्शी पृथिवीमार्चयन् स च ॥ २०४ द्विधा सुमनसा तेन काष्ठासु चतसृष्वपि । अकारि सुमनोहारि तोरणानां चतुष्टयम् ॥ २०५ तस्याप्रतिमशोभस्य वीक्षणार्थमिवागताः । साक्षादिव बभुर्देव्यो विविधा शालभञ्जिकाः ॥ २०६ 9 रेजे ध्वजवजो यत्र चञ्चलस्तोरणोपरि । आकारयन् भव्यलोकमिव धर्मजिनान्तिके ॥ २०७ अधस्तले तोरणानां भूमिपीठेषु तेषु सः। प्रत्येकं रचयांचके मङ्गलान्यष्ट निर्जरः ॥ २०८।। चले वैमानिकसुरः पद्मसारः प्रमोदभाक् । वप्रं रात्नं पञ्चवर्णमण्याढ्यकपिशीर्षकैः ॥ २०९ 12 रेजे रत्नमयो वप्रः पताकाराजिराजितः । वं संक्षिप्य वपुर्भक्त्या रोहणादिरिवागतः ॥२१० जातरूपमयं वप्रं द्वितीयं तद्वहिः सुरः । स्वज्योतिषेव विदधे भक्तिसंभारभाजनम् ॥ २११ कपिशीर्षतती रेजे तत्र रात्नी विनिर्मिता। राजीवबन्धुराजीव बहद्वीपेभ्य आगता ॥ २१
15 तृतीयः पद्मसारेण प्राकारस्तद्वहिः कृतः।राजतः श्रीज़िनं नन्तुं वैताढ्याद्रिरिवागमत् ॥ २१३ तत्रोच्चैर्जात्यरजतकपिशीर्षावलिर्दधौ । स्वर्गापगाम्भसि स्वर्णमयनीरजविभ्रमम् ॥२१४ ।। रेजे वप्रत्रयी पृथ्यास्निपट्टवलयाकृतिः । प्राकाराग्रावली नानाविधिविच्छित्तिसंगता ॥ २१५ 18 तोरणास्तत्र भान्ति स्म नीलाश्मदलनिर्मिताः । प्रतिवप्रं चतुर्दारे चतुर्दारे शिवश्रियः ॥२१६ शारदाभ्रमहाशुभ्रास्तोरणेषु ध्वजवजाः । रेजुः पुण्यश्रियः शस्ता हस्ता विस्तारिता इव ॥ २१७ दह्यमानागुरुक्षोदधूपधूमसमाकुलाः । धूपघट्यः प्रतिद्वारं राजन्ते तत्पुरस्सराः ॥ २१८
21 रेजुर्वाप्यः प्रतिद्वारं स्वर्णाम्बुजमनोहराः । क्रीडनार्थमिव स्फूर्जमुहिधर्मवतश्रियाम् ॥ २१९ प्रारद्वारे मणिवप्रस्य स्वर्णवर्णविराजितौ । प्रतीहारौ स्फुरद्वक्षस्तारहारौ स निर्ममे ॥ २२० यतिश्रावकयोधर्माविव मूर्तित्वमागतौ । याम्यद्वारे द्वारपती सिताङ्गौ स चकार च ॥ २२१
24 चित्तोद्धृतेन सर्वज्ञरागेणेवारुणद्युती। निर्मितावपरद्वारे द्वारपालो सुपर्वणा ॥ २२२ उदग्द्वारे ऽत्र दोषघ्ननीलिकास्थासकाविवा । कृतौ कृष्णाङ्गको तेन द्वारपौ दानवारिणा ॥ २२३ स निर्ममे ऽप्रतिच्छन्दं देवच्छन्दं जिनेशितुः । विश्रामाय सुरः स्वर्णवप्रान्तर्मणिराशिभिः॥२२४ 27 अन्तर्माणिक्यवप्रस्य त्रिदशश्चैत्यपादपम् । चकार चत्वारिंशाग्रधनुष्पञ्चशतीमितम् ॥ २२५ पद्मसारः स तस्याधो मणिपीठोपरि व्यधात् । साङ्ग्रिपीठं रत्नमयं सिंहासनमनुत्तरम् ॥ २२६ नवहेमाम्बुजन्यस्तपदलिदशकोटियुक् । विभुः समवसरणं प्राच्यद्वारे विवेश सः ।। २२७ ततः प्रदक्षिणीकृत्य चैत्यद्वं प्रामुखः प्रभुः । नमस्तीर्थायेति वदन्निविष्टः सिंहविष्टरे ॥ २२८ अपरास्वपि काष्ठासु त्रिदशस्तिसृषु व्यधात् । रूपत्रयं प्रभोस्तुल्यं स तस्यैव प्रभावतः ॥ २२९ चतुर्गतिगतान् जन्तूनुद्धर्तुं निखिलानपि । चतुष्ककुम्मुखस्थायि हर्तु मोहमहाबलम् ॥ २३० चतुष्टयं कषायाणां निराकर्तुं विरोधिनाम् । कर्तुं चतुर्विधं संघमघसंघातघातिनम् ॥ २३१ दानशीलतपोभावभेदैर्धर्म चतुर्विधम् । व्यक्तं निवेदितुं तच्च ध्यानमार्गचतुष्टयम् ॥ २३२ प्रपञ्चितचतुर्गात्रः पवित्रितजगत्रयः। व्याख्याक्षणे प्रभुः श्रीमान् धर्मनाथस्तदाशुभत् ॥ २३३ 36
चतुर्भिः कलापकम् ॥ जगतीत्रितयैश्वर्यसूचकं भुवनप्रभोः । छत्रत्रयं सुरश्चके वक्रेतरमतिः स्वयम् ॥ २३४ 39 १७ ) एतस्यां समवसृतौ विभावसुदिशि क्रमात् ।।
प्रविश्य पूर्वद्वारेण दत्त्वा तिस्रः प्रदक्षिणाः ॥ २३५
30
9) B शालिभलिकाः. 12) Bकपिशीर्षकं. 16) B राजतश्रीजिनं. 21) B दह्यमानागरु. 24) B याम्यद्वारि. 25) BP चित्तोवृत्तेन, ०°वपरद्वारि. 26) On दोषघ्न B has a marginal gloss like this : दृष्ट्यादिदोषनिवारको नीलिकाहस्तकाविव !. 28) Pपंचाशतीमितं. 29) सांहिपीठं. 37) P चतुर्भिः कु०. 38) P जगती विनयैश्वर्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org