Book Title: Kuvalayamala Part 2
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 215
________________ * 40 रत्नप्रभसूरिविरचिता [III. 16 : Verse 2011 अथ ते सुराः पद्मसारप्रमुखास्त्रिदशाधिपेन सार्धं भावनाभावितान्तःकरणाश्चम्पापुर्या श्रीधर्मजिनेश्वरस्य 1 समवसरणमवापुः । पद्मसारेण सुमनसा सुमनःपतिरभाणि । 'यदि यूयं ममाज्ञां ददत ततोऽद्याहमेक 3 एव गोस्वामिनः श्रीधर्मजिनेन्द्रस्य समवसृति रचयामि' इति । वज्रिणा तथा' इति प्रतिपेदे । तथा हि , 3 योजनोन्मानमेदिन्यां पद्मसारः शुभाशयः । प्रमार्जयन् रजो बाह्य स्वस्यान्तस्तदपाहरत् ॥ २०१ ततः स एव गीर्वाणः सुगन्धोदकवृष्टिभिः । सिषिचे पुण्यबीजस्य वापायेव महीतलम् ॥ २०२ सुवर्णमणिमाणिक्यश्रेणिभिर्भक्तिभासुरः । हर्षतः परितः पद्मसारः पृथ्वीं बबन्ध सः॥२०३ 6 जानुदन्नरधोवृन्तैः पञ्चवर्णैर्मणीचकैः। भाविधर्मानिसंस्पर्शी पृथिवीमार्चयन् स च ॥ २०४ द्विधा सुमनसा तेन काष्ठासु चतसृष्वपि । अकारि सुमनोहारि तोरणानां चतुष्टयम् ॥ २०५ तस्याप्रतिमशोभस्य वीक्षणार्थमिवागताः । साक्षादिव बभुर्देव्यो विविधा शालभञ्जिकाः ॥ २०६ 9 रेजे ध्वजवजो यत्र चञ्चलस्तोरणोपरि । आकारयन् भव्यलोकमिव धर्मजिनान्तिके ॥ २०७ अधस्तले तोरणानां भूमिपीठेषु तेषु सः। प्रत्येकं रचयांचके मङ्गलान्यष्ट निर्जरः ॥ २०८।। चले वैमानिकसुरः पद्मसारः प्रमोदभाक् । वप्रं रात्नं पञ्चवर्णमण्याढ्यकपिशीर्षकैः ॥ २०९ 12 रेजे रत्नमयो वप्रः पताकाराजिराजितः । वं संक्षिप्य वपुर्भक्त्या रोहणादिरिवागतः ॥२१० जातरूपमयं वप्रं द्वितीयं तद्वहिः सुरः । स्वज्योतिषेव विदधे भक्तिसंभारभाजनम् ॥ २११ कपिशीर्षतती रेजे तत्र रात्नी विनिर्मिता। राजीवबन्धुराजीव बहद्वीपेभ्य आगता ॥ २१ 15 तृतीयः पद्मसारेण प्राकारस्तद्वहिः कृतः।राजतः श्रीज़िनं नन्तुं वैताढ्याद्रिरिवागमत् ॥ २१३ तत्रोच्चैर्जात्यरजतकपिशीर्षावलिर्दधौ । स्वर्गापगाम्भसि स्वर्णमयनीरजविभ्रमम् ॥२१४ ।। रेजे वप्रत्रयी पृथ्यास्निपट्टवलयाकृतिः । प्राकाराग्रावली नानाविधिविच्छित्तिसंगता ॥ २१५ 18 तोरणास्तत्र भान्ति स्म नीलाश्मदलनिर्मिताः । प्रतिवप्रं चतुर्दारे चतुर्दारे शिवश्रियः ॥२१६ शारदाभ्रमहाशुभ्रास्तोरणेषु ध्वजवजाः । रेजुः पुण्यश्रियः शस्ता हस्ता विस्तारिता इव ॥ २१७ दह्यमानागुरुक्षोदधूपधूमसमाकुलाः । धूपघट्यः प्रतिद्वारं राजन्ते तत्पुरस्सराः ॥ २१८ 21 रेजुर्वाप्यः प्रतिद्वारं स्वर्णाम्बुजमनोहराः । क्रीडनार्थमिव स्फूर्जमुहिधर्मवतश्रियाम् ॥ २१९ प्रारद्वारे मणिवप्रस्य स्वर्णवर्णविराजितौ । प्रतीहारौ स्फुरद्वक्षस्तारहारौ स निर्ममे ॥ २२० यतिश्रावकयोधर्माविव मूर्तित्वमागतौ । याम्यद्वारे द्वारपती सिताङ्गौ स चकार च ॥ २२१ 24 चित्तोद्धृतेन सर्वज्ञरागेणेवारुणद्युती। निर्मितावपरद्वारे द्वारपालो सुपर्वणा ॥ २२२ उदग्द्वारे ऽत्र दोषघ्ननीलिकास्थासकाविवा । कृतौ कृष्णाङ्गको तेन द्वारपौ दानवारिणा ॥ २२३ स निर्ममे ऽप्रतिच्छन्दं देवच्छन्दं जिनेशितुः । विश्रामाय सुरः स्वर्णवप्रान्तर्मणिराशिभिः॥२२४ 27 अन्तर्माणिक्यवप्रस्य त्रिदशश्चैत्यपादपम् । चकार चत्वारिंशाग्रधनुष्पञ्चशतीमितम् ॥ २२५ पद्मसारः स तस्याधो मणिपीठोपरि व्यधात् । साङ्ग्रिपीठं रत्नमयं सिंहासनमनुत्तरम् ॥ २२६ नवहेमाम्बुजन्यस्तपदलिदशकोटियुक् । विभुः समवसरणं प्राच्यद्वारे विवेश सः ।। २२७ ततः प्रदक्षिणीकृत्य चैत्यद्वं प्रामुखः प्रभुः । नमस्तीर्थायेति वदन्निविष्टः सिंहविष्टरे ॥ २२८ अपरास्वपि काष्ठासु त्रिदशस्तिसृषु व्यधात् । रूपत्रयं प्रभोस्तुल्यं स तस्यैव प्रभावतः ॥ २२९ चतुर्गतिगतान् जन्तूनुद्धर्तुं निखिलानपि । चतुष्ककुम्मुखस्थायि हर्तु मोहमहाबलम् ॥ २३० चतुष्टयं कषायाणां निराकर्तुं विरोधिनाम् । कर्तुं चतुर्विधं संघमघसंघातघातिनम् ॥ २३१ दानशीलतपोभावभेदैर्धर्म चतुर्विधम् । व्यक्तं निवेदितुं तच्च ध्यानमार्गचतुष्टयम् ॥ २३२ प्रपञ्चितचतुर्गात्रः पवित्रितजगत्रयः। व्याख्याक्षणे प्रभुः श्रीमान् धर्मनाथस्तदाशुभत् ॥ २३३ 36 चतुर्भिः कलापकम् ॥ जगतीत्रितयैश्वर्यसूचकं भुवनप्रभोः । छत्रत्रयं सुरश्चके वक्रेतरमतिः स्वयम् ॥ २३४ 39 १७ ) एतस्यां समवसृतौ विभावसुदिशि क्रमात् ।। प्रविश्य पूर्वद्वारेण दत्त्वा तिस्रः प्रदक्षिणाः ॥ २३५ 30 9) B शालिभलिकाः. 12) Bकपिशीर्षकं. 16) B राजतश्रीजिनं. 21) B दह्यमानागरु. 24) B याम्यद्वारि. 25) BP चित्तोवृत्तेन, ०°वपरद्वारि. 26) On दोषघ्न B has a marginal gloss like this : दृष्ट्यादिदोषनिवारको नीलिकाहस्तकाविव !. 28) Pपंचाशतीमितं. 29) सांहिपीठं. 37) P चतुर्भिः कु०. 38) P जगती विनयैश्वर्य. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368