Book Title: Kuvalayamala Part 2
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
12
* 24
रत्नप्रभसूरिविरचिता [II. $ 28 : Verse 1281 ६२८) अन्यदा लोभदेवस्तत्क्षणोत्कर्तितमांसखण्डः प्रवहच्छोणितलिप्ततनु रण्डपक्षिणोत्क्षिप्तः। 1
तस्य व्योम्नि गच्छतः समुद्रोपरि परेण भारण्डपक्षिणा सह युध्यमानस्य भवितव्यतया च पुटस्थितो 3 लोभदेवः सागरान्तः पपात । तज्जलेन निर्मितवेदनः सजन इव दुर्जनवचसा बहलतरकल्लोलमालाप्रेर्यमाणः 3 समुद्रेणापि मित्रविनाशमहापापकलुषितहृदय इव निष्कासितः । किमपि कूलं संप्राप्य तत्र क्षणमात्रं शीतलमरुता समाश्वासितः काननान्तः संचरन् वटपादपतलं ददर्श। तत्र मरकतमणिकुट्टिमं सुगन्धनाना6 विधकुसुमसंचयचितं निरीक्ष्य लोभदेवो व्यचिन्तयत् । 'अहो, किल शास्त्रेषु श्रूयते, यथा देवाः स्वर्गे 6 वसन्ति तन्न ते रम्या रम्यविशेषज्ञाः । अन्यथा कथं लोकत्रयाह्लादकरमिमं प्रदेशं परित्यज्य त्रिदशास्त्रिदशालयमाश्रयन्ते ।' ध्यात्वेति स तत्र न्यग्रोधपादपाधस्तादुपविश्यातीवतीववेदनातश्चिरं दध्यौ । 'स को धर्मः, येन देवा दिव्यभोगधारिणो देवलोके सुखमनुभवन्ति । तत्किं पापमस्ति, येन नरके नैरयिका 9 मदुःखतो ऽप्यधिक दुःखमुद्वहन्ति । ततो मया किं पुनः पापमाचरितं यदेवंविधं दुःखनिकेतनमभवम् ।' इति चिन्तयतो लोभदेवस्य चेतसि सहसैव तीक्ष्णशरशल्यमिव रुद्रश्रेष्ठी स्थितः। ततः स 12 चिन्तयामासेति। ६२९) 'अहो, अस्मादृशां किं जीवितेन ।
हतो वयस्यः सर्वस्य प्रियकारी कलानिधिः। श्रेष्ठी रुद्रो मया येन पापिना द्रव्यलोभतः ॥ १२८ 15 तावत्सांप्रतमपि तत्किमपि तादृशमाचरामि येन प्रियमित्रवधकलुषितमात्मानं तीर्थभुवि व्यापाद्य सर्व-15
पापविमुक्तो भवामि ।' इति चिन्तयन् लोभदेवः क्षणं सुप्तः, प्रबुद्धश्च एकस्यां दिशि कस्यापि मधुराक्षरां गिरमाकर्ण्य चिन्तितमनेन । 'अये न संस्कृतं प्राकृतमपभ्रंशं च । इयं तावश्चतुर्थी पैशाचिकी भाषा, 18 तावदाकर्णयामि।' ततस्तेषां पिशाचानामिति परस्परमुल्लापः प्रवर्तते, तावदेकेनोक्तम् । 'यदिदं पापा-18 पनोदाय तपस्यतां पवनाभोगस्थानं रमणीयम् ।' अपरेणोक्तम् । 'इतोऽपि चारुश्चामीकराचलः।' अन्येन
भणितम् । 'अस्मादपि तुहिनशिशिरशिलातलस्तुहिनगिरिरेव रमणीयः।' इतरेणोक्तम् । 'एवं मा मा 21 वदत, सर्वपापापहारिणी सुरनिर्झरणी प्रधाना।' इति निशम्य तां प्रति प्रचलितो लोभदेवः परित्यक्त-21 लोभसंगः समपागताभङ्गवैराग्यरङ्गः । क्रमेण च नरेश्वर, समागत्यात्रैव निविष्टः।' एनं वृत्तान्तं भगवता कथितमाकर्ण्य वीडाप्रमोदविषादपरवशः श्रीधर्मनन्दनगुरुचरणमूलमवाप्य लोभदेवः प्रोवाच । 24 'यद्वन्धचरणारविन्दैरावेदितं तदवितथमेव । किमत्र मया कर्तव्यम् ।' ततः श्रीधर्मनन्दनमुनिपेन प्रोक्तम् । 24
'वत्स, सर्वथा मित्रवधसंभूतपापजातक्षयाय लोभमहानिशाचरमनीहाहेत्या पञ्चत्वमानीय विनयवामनो
भूयसा तपसा पुराकृतकर्ममर्मनिर्मथनाय जैनतपस्यासरस्यां राजहंसलीलामलंकुरु । क्षान्तिका 27 हेवाकितामाश्रय । कायोत्सर्गमुग्रमाचर। पापमहाराजप्राकृतीर्विकृतीः परिहर । यत्र न जरा न मृत्युन 27
व्याधिन चाधिन च दुःखं तच्छाश्वतं महोदयपदं विशदं ततः प्राप्स्यसि ।' तदाकर्ण्य लोभदेवेनोक्तम् । __ 'भगवन् , यदि तावदेतस्य चारित्रस्य योग्यो ऽस्मि ततो मम प्रव्रज्यादानप्रसादं विधेहि ।' भगवता 30 श्रीधर्मनन्दनेन गुरुणा पादपतितस्य तस्य बाष्पजलप्लुतलोचनस्य प्रशान्तलोभस्य लोभदेवस्य व्रतमदायि । 30
। इति लोभे लोभदेवकथा। ६३०) पुनरपि गुरुरुवाच । 33 'हन्ति हन्त महामोहस्तुहिनौध इवोदितः । पङ्केरुहं विवेकाख्यं यश परिमलोर्जितम् ॥ १२९ 33
सर्वदुःखमयो भूप भव एष जिनैर्मतः। तस्य स्वभावं जानन्ति महामोहहता नहि ॥ १३०
भुवो ऽवतंसः संजज्ञे स एवागण्यपुण्यभाक् । सदध्वनौ न यः क्वापि हियते मोहवाजिना ॥ १३१ 36 अनेन मोहराजेन दुर्धरेण जगत्रयी । जिग्ये जिनमुनीन् मुक्त्वा तीव्रव्रतधुरंधरान् ॥ १३२ 36
सर्वदायमहो मोहो महासागरसंनिभः । न यस्य प्राप्यते स्ताघो महावंशैरपि क्वचित् ॥ १३३ __ महामोहमोहितमनाः पुमान् गम्यागम्यमपि न विचारयति । स्वसारमप्यभिसरति । जनकमपि 39 मारयति । नरेश, यथैष पुरुषः।' विज्ञप्तं नृपतिना । 'स्वामिन् , अनेकलोकसंकुलायां सभायां कः पुरुषः, 39 ___ इति नावैमि ।' तदद्वगम्य गुरुणा भणितम् । 'य एष तव दूरे दक्षिणदेशे वासवस्य लेप्यमय इव कार्या
कार्यविचारविमुखो दृश्यमानसुन्दरावयवः स्थाणुरिव स्थितः।' एतेन महामोहमोहितचेतनेन यत्कृतं 42 तच्छ्रयतामिति ।
42
10) PB दुःखनिकेतनमिति. 12) Pom. किं. 18) PB प्रवर्तते । एकेनोक्तं. 29) o inter. भगवन् & यदि. 31) PB om. इति. 36) P अन्येन for अनेन. 41) 0 वासवस्य वामो लेप्यमय, P B om. महा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368