Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 371
________________ २८४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुद्वौ नौ प्रकृतौ लोके पर्युदासप्रसज्यको । पर्युदासः सदृग्ग्राही प्रसज्यस्तु निषेधकृत् ॥१॥ तदन्यतद्विरुद्धादयो ननोर्थाः । “नजत्" (३।२।१२५)। असाधुः । “त्यादौ क्षेपे" (३।२।१२६)। नञः अ स्यात् अपचसि त्वं जाल्म ॥४९॥ ५ "न" । द्वौ नबावित्यादि कारिकाया अयं भावः-निवर्त्यमानतद्भाव उत्तरपदार्थः पर्युदासे नञ्समासार्थः, स चतुर्की-तत्सदृशः १ तद्विरुद्धः २ तदन्यः ३ तदभाव ४ श्च । अब्राह्मणः अशुक्ल इति तत्सदृशः क्षत्रियादिः पीतादिश्च प्रतीयते १ । अधर्मः असित इति तद्विरोधी पाप्मा कृष्णश्च प्रतीयते २ । अनग्निरवायुरिति ताभ्यामन्यः प्रतीयते ३ । अवचनमवीक्षणमिति तदभावः प्रतीयते ४ । उत्तरपदार्थस्य तद्भावनिवृत्तिस्तु अर्थत एव नतु शब्दतः, तेनासः अतस्मिन् इत्यादौ उत्तरपदप्राधान्यात्सर्वादिकार्य १० गणकार्य च सिद्धं भवति-यथा अत्वन्त्वं सम्पद्यते त्वद्भवतीत्यत्र युष्मदर्थस्य गौणत्वेन प्रथमत्रिकेऽपि शब्दमात्राश्रयात्त्वादेशो भवति। नन्वस्योत्तरपदार्थप्राधान्येन तल्लिङ्गसङ्ख्यत्वे सति कथं किरातादौ "भवन्त्यनेके जलधेरिवोर्मय” इत्यादिप्रयोगे बहुवचनम् ? असाधव एवेदृशाः शब्दाः इति श्रीसूरिपादाः । कश्चिदेकशब्दस्यान्यार्थस्यैकशेषादेके इति साधयित्वा पश्चान्नन्समासं मन्यन्ते । “अध्यारोपितैकत्वानां प्रकृत्यर्थतया तत्र वास्तवबहुत्वाभिप्रायं बहुवचनम्, यद्वा समुदायबहुत्वे बहुवचनं रथोऽश्वो गजश्च १५प्रत्येकमनेकस्ततः अनेकश्चानेकश्चानेकश्चेत्येकशेष इति" तु मनोरमायाम् । प्रसज्यप्रतिषेधे तु नञ् पदान्तरेण सम्बध्यते इत्युत्तरपदं वाक्य इव स्वार्थे एव वर्त्तते, तत्रासामर्थेऽपि यथाभिधानं बाहुलकात्समासः । सूर्यमपि न पश्यन्त्यसूर्यम्पश्या राजदाराः, पुनर्न गीयन्ते अपुनर्गेयाः श्लोकाः, श्राद्धं न मुझेऽश्राद्धभोजी, वत्सेभ्यो न हितोऽवत्सीयः, वधं नाहतीत्यत्रावध्यो ब्राह्मण इत्यादि । अन्यत्र तु घटो नास्तीत्यादावसामर्थ्यादेव न समासः । अन्य इत्येव-न विद्यन्ते मक्षिका अत्रेत्यमक्षिकाकः, मक्षिकाणाम२० भावोऽमक्षिकम् , अन्यपदार्थप्राधान्ये बहुव्रीहिः, पूर्वपदार्थप्राधान्येऽव्ययीभावः, उत्तरपदार्थप्राधान्ये तत्पुरुष इति विवेकः। "तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नर्थाः षट् प्रकीर्तिताः" ॥१॥ अब्राह्मणः, अपापं, अनश्वः, अनुदरा कन्या, अपशवोऽन्ये गोभ्यः, अधर्म इति क्रमेणोदाहरणानीति । तथा आरोपितत्वं नबा द्योत्यते आरोपमात्रविषयत्वं तु संसर्गः । तथा च अब्राह्मणशब्दादारोपितो २५ ब्राह्मण इति बोधे अर्थाद् ब्राह्मणभिन्न इति पर्यवस्थति, अत एवानुपसर्जनत्वादतस्मिन्नित्यादौ सर्वनाम कार्य सिद्ध्यति । तत्पुरुषस्यौत्सर्गिकमुत्तरपदार्थप्राधान्यमप्येवं सति निर्बाधम् । “मीमांसकादयस्तु ब्राह्मणभिन्न इत्यादि शाब्दबोध एवेत्याहुस्तन्मतेऽस इत्यादेसतिसर्व इत्यादि समकक्षत्वात्सर्वनामसंज्ञाकार्य गणकार्य च न स्यात्" इत्यादि मनोरमायाम् । "त्यादौ०" । त्याद्यन्ते पदे परतः क्षेपे गम्ये नञ् अकारो भवति । "अ मो नो नाः प्रतिषेधे” इत्यकारेण निषेधार्थेन सिद्धौ, क्षेपे नत्रः श्रवणवारणामर्थ३० समासार्थं च वचनम् ॥ ४९ ॥ अन् खरे ॥ ५० ॥ [सि० ३।२।१२९ ] स्वरादौ परे ननोऽन् स्यात् । अनार्यः ॥ *नखनासत्यादयो निपात्याः (अत्र “नखादयः" (३२।१२८) इति सूत्रं ज्ञेयम् ) ॥५०॥ "अन्” । अन् इति स्वरूपनिर्देशात् नलोपो द्वित्वं च न भवति । *"नख०" नास्य खमस्तीति ३५नखः । सत्सु साधुः सत्यः, न सत्यः असत्यः, न असत्यः, नासत्यौ अश्विनीपुत्रौ । आदिशब्दात् न Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560