Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 502
________________ प्रक्रियावृत्तिरूपे श्रीमप्रकाशे तद्धिताः । ज्ञाताद्यर्थाः ४१५ लोकस्य ज्ञातः लौकिकः । एवं सार्वलौकिकः । अनुशतिकादित्वादुभयपदवृद्धिः ॥ " तदत्रास्मै वा वृद्ध्यायला भोपदाशुकं देयम्” ( ६ । ४ । १५८ ) । प्रथमान्तात्सप्तम्यर्थे चतुर्थ्यर्थे वा यथाविहितं प्रत्ययः स्यात्, यत्प्रथमान्तं तथेत् वृद्ध्यादिकं स्यात् ॥ तत्र अधमर्णेनोत्तमर्णाय गृहीतधनातिरिक्तं देयं वृद्धिः । प्रामादिषु स्वामिप्रायो भाग आयः । पटादीनामुपादानमूल्यातिरिक्तं प्राप्तं द्रव्यं लाभः । उपदा उत्कोचः, लंच उत्कोट इति यावत् । वणिजां रक्षानिर्देशो राजभागः शुलम् ॥ पञ्चास्मिन् शते ५ वृद्धिः पञ्चकं शतम् । पञ्चास्मिन् प्रामे आयः पञ्चको ग्रामः । पञ्चास्मिन् पठे लाभः पञ्चकः पटः । पचास्मिन् व्यवहारे उपदा पञ्चको व्यवहारः । पश्चास्मिन् शते शुकुं पञ्चकं शतम् । एवं शत्यं शतिकम् || पञ्चास्मै देवदत्ताय वृद्ध्यादिकं देयं पञ्चको देवदत्तः । एवं शत्यः शतिकः साहस्रः प्रास्थिकः ॥ वृद्ध्यादिग्रहणं किम् ? पश्च मूल्यमस्मिन्नस्मै वा दीयते ॥ " पूरणार्द्धादिकः " ( ६।४ । १५९ ) पूरणप्रत्ययान्तादर्द्धशब्दाच्च प्रथमान्तादस्मिन्नस्मै वा दीयते इत्यर्थयोरिकः प्रत्ययः स्यात्, यत्प्रथमान्तं तद्दृ- १० ज्यादि चेद्भवति । इकणिकटोरपवादः ( पूरणप्रत्ययान्तेभ्य पूर्वेणेकण्, अर्द्धात्तु 'कंसार्द्धात् इतीट् ) । द्वितीयमस्मिन्नस्मै वा वृद्ध्यादिकं देयं द्वितीयिकः । तृतीयिकः, पश्चिकः, षष्टिकः अर्द्ध. अर्द्धिकः, अर्द्धका स्त्री । अर्द्धशब्दो रूपका रूढः ॥ " भागाद्येकौ " ( ६।४।१६० ) । तथैव । इकणोऽपवादौ । भागोऽस्मिन्नस्मै वा वृद्ध्यादीनामन्यतमं देयं भाग्यः, भागिकः, भागिका स्त्री । भागशब्दोऽपि रूपकार्द्धस्य वाचकः ।। “तं पचति द्रोणाद्वाऽञ् ” ( ६ । ४ । १६१ ) । द्वितीयान्ताद्रोणशब्दात्पचत्य - १५ र्थे वा स्यात्, पक्षे इकण् । द्रोणं पचति द्रौणः, द्रौणिकः, द्रौणी, द्रौणिकी, स्थाली गृहिणी वा । द्वौ द्रोणौ पचति द्विद्रोणी " अनाश्यद्विः लुप्” ( ६ । ४ । १४१ ) इत्यभिकणोर्लुप् । “सम्भवदवहरतो" ( ६।४।१६२ ) । द्वितीयान्तात्पचत्यर्थे सम्भवदवहरतोश्चार्थयोर्यथाविहितं प्रत्ययाः स्युः । तत्राधेयस्य प्रमाणानतिरेकेण धारणं सम्भवः, अतिरेकेणावहारः । प्रस्थं पचति सम्भवति अवहरति वा प्रास्थिकः कटाहः । प्रास्थिकी स्थाली । एवं खारीकः । सम्भवतिरकर्मकः सकर्मकश्च सम्भवति, तत्र २० सकर्मक इह प्रायः - सम्भवत्यवगृह्णातीत्यर्थः । चकारः पचतः सम्भवदवहरतोः सेमुच्चयार्थस्तेनोत्तरत्रार्थत्रयस्यानुवृत्तिः ॥ " पात्राचिताढकादीनो वा " ( ६।४।१६३ ) । एभ्यो द्वितीयान्तेभ्यः पचत्सम्भवदवहरत्स्वर्थेषु ईनः स्यात्-पात्रं पचति सम्भवति अवहरति वा पात्रीणः । पक्षे इक - पात्रिकः । पात्रीणा । पात्रिकी स्थाली । आचितीना आचितिकी । आढकीना आढकिकी । पात्रादयस्त्र1 योऽपि परिमाणवाचिनः शब्दाः ॥ “द्विगोरीनेकटौ वा " ( ६ |४| १६४ ) पात्राद्यन्ताद्विगोर्द्विती- २५ यान्तात्पचदाद्यर्थत्रये इनेकटौ वा स्याताम् । पक्षे इकण्, तस्य च " अनायद्विः लुप् ” ( ६।४।१४१ ) इति लुप्, नानयोर्विधानसामर्थ्यात् । द्वे पात्रे पचति सम्भवत्यवहरति वा द्विपात्रीणः द्विपात्रिकः द्विपात्रः; द्विपात्रीणा द्विपात्रिकी द्विपात्री । व्याचितीना व्याचितिका व्याचिता । आचितान्तात् ङीर्न भवति - अविस्तान्चितकम्बल्यादिति प्रतिषेधात् - व्याढकीना, व्याढकिकी, व्याढकी । टकारो ङयर्थः । "कुलिजाद्वा लुप् च" ( ६।४।१६५ ) । कुलिजान्ताद्विगोर्द्वितीयान्तात्पचदाद्यर्थत्रये ईनेकटौ वा ३० स्याताम् ; पक्षे इकण्, तस्य लुप् वा स्यात्; तेन चातूरूप्यं सम्पद्यते । द्वे कुलिजे पचति सम्भवत्यवहरति वा द्विकुलिजीना, द्विकुलिजिकी; पक्षे द्विकुलिजी, द्वैकुलिजिकी । लुपि "परिमाणे ०” (२।३।२३ ) इत्यादिना ङीः । अन्ये तु लुप् विकरूपं न मन्यन्ते, तन्मते त्रैरूप्यमेव ॥ " वंशादेर्भाराद्धरद्वह-३३ १ यथा प्रस्थोऽत्र सम्भवति माति नातिरिच्यत इति अकर्मकः । प्रस्थमयं सम्भवत्यवगृहाति, न निर्वमति नातिरेचयतीति सकर्मकः । २ नत्वाकर्षणार्थ:, तेन चानुकुष्टमित्यस्याप्रवृत्तिः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560