Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai
View full book text
________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । तस्य तुल्येत्याद्यर्थाः ४३९ १० कपि, भरु, खल, उदश्वित् , तरस् , कुलिश, मुनि, रुरु; १८ इति गोण्यादयोऽष्टादश ॥ "कर्कलोहिताहीकण् च” (७।१।१२२) आभ्यां तुल्ये टीकण् स्यात् , चकारादिकण् च । शुक्लोऽश्वः कर्कः । तस्य तुल्यः कार्कीकः कार्किकः । लौहितीकः लौहितिकः । स्फटिकादिः ॥ अलोहितवर्णोऽप्युपाश्रयवशाधस्तथावभासते स एवमुच्यते । टकारो थर्थः-कार्कीकी, लौहितीकी ॥
* इति तस्य तुल्यप्रकरणम् । _*विप्रभृतिभ्य इति, अत्र सूत्रपद्धतिरेवम् । 'वेर्विस्तृते शालशङ्कटौं” (७।१।१२३) विशालः, विशङ्कटः, विस्तृत इत्यर्थः ॥ "कटः” (७१।१२४) वेरित्यनुवर्त्तते । विकट:-विस्तृत एव ।। “सम्पोन्नेः सङ्कीर्णप्रकाशाधिकसमीपे" (७।१।१२५)। एभ्यश्चतुर्थ्य एषु चतुःष्वर्थेषु कटप्रत्ययः स्यात् । सङ्कटः । प्रकटः । उत्कटः । निकटः ॥ "अवाकटारश्चावनते" (७।१।१२६) अवशब्दादवनतेऽर्थे कुटारश्वकारात् कटश्च प्रत्ययः स्यात् । अवकुटारः, अवकुटः; अवनत इत्यर्थः ॥१० "नासानतितद्वतोष्टीटनाटभ्रटम्" (७।१।१२७ ) । अवशब्दानासानतौ तद्वति च वाच्ये एते त्रयः प्रत्ययाः स्युः। नासानतौ । नासाया नमनं अवटीटं अवनाटं अवभ्रटम् । सा नासा नतिर्विद्यते यस्मिन् स तद्वान् नासा पुरुषः । अपकृष्टो वार्थः-तत्र अवटीटा अवनाटा अवभ्रटा नासा । अवटीटः अवनाटः अवभ्रटः पुरुषः । अवटीटं अवनाटं अवभ्रटं ब्रह्मदेयम् । अपकृष्टमपि हि वस्तु दृष्ट्वा लोको नासिका नामयति ॥ "नेरिनपिटकाश्चिक्चिचिकश्चास्य” (७।१।१२८) । १५ निशब्दानासानतौ तद्वति चाभिधेये एते त्रयः प्रत्ययाः स्युस्तत्सन्नियोगे च नेर्यथासङ्ख्यं चिक्-चि-चिक् इत्येते आदेशाः स्युः । चिकिनं चिपिटं चिक्कम् , नासिकानमनम् । चिकिना चिपिटा चिक्का नासिका । चिकिनः चिपिटः चिकः पुरुषः । बहुवचनं रूढ्यर्थम् । तेनाप्रकृष्टेऽर्थे ब्रह्मदेयलक्षणे चिकितमित्यादयो न भवन्ति ॥ "बिडबिरीसौ नीरन्ध्रेच" (७।१।१२९) निशब्दान्नीरन्धेऽर्थे नासिकानतितद्वतोश्च एतौ स्याताम् । निविडा निबिरीसाः केशाः नीरन्ध्रा इत्यर्थः ॥ निबिडं निबिरीसं वस्त्रम् । नासिकाया २० नमनं (शब्दान्तरेण निशब्दस्यार्थकथनम् ) निबिडं निबिरीसम् । निबिडा निबिरीसा नासिका । निबिडो निबिरीसो मैत्रः । विधानसामर्थ्यात्वत्वं न भवति ॥ "क्लिन्नाल्लश्चक्षुषि चिल् पिल चुल् चास्य" (७।१।१३०) लिन्नशब्दाचक्षुषि वाच्ये लः स्यात् , अस्य चैते त्रय आदेशाः स्युः । चिल्लं पिल्लं चुलं चक्षुः । तद्योगात् पुरुषोऽपि चिल्लः पिल्लः चुल्लः ॥ “उपत्यकाधित्यके” (७।१।१३१) उपाधिशब्दाभ्यां पर्वतस्यासनायामधिरूढायां च भूमौ त्यको निपात्यते । उपत्यका अधित्यका क्षिपकादित्वादि-२५ त्वाभावः । स्वभावतः स्त्रीलिङ्गावेतौ । पुंल्लिङ्गावपीति कश्चित्-उपत्यको देशः, अधित्यकः पन्थाः । निपातनं रूढ्यर्थम् ॥ "अवेः सवातविस्तारे कटपटम्” (७१।१३२) षष्ठ्यन्तादविशब्दाद्यथासङ्ख्यं सङ्घाते विस्तारे चार्थे कटपटौ स्याताम् । अवीनां सङ्घातः अविकटः । अवीनां विस्तारः अविपटः । सङ्घाते सामूहिकानां विस्तारे ऐदमर्थिकानां चापवादः ॥ "पशुभ्यः स्थाने गोष्ठः" (७१।१३३) षष्ठ्यन्तेभ्यः पशुनामभ्यः स्थाने वाच्ये गोष्ठः प्रत्ययः स्यात् । गवां स्थानं गोगोष्ठम् ३० अश्वगोष्ठम् ॥ “द्वित्वे गोयुगः” (७।१।१३४ ) पशुभ्य इति वर्त्तते । द्वित्वेऽर्थे गोयुगः प्रत्ययः स्यात् । गवोत्विं गोगोयुगम् , अश्वगोयुगम् ॥ "षट्त्वे षड्गवः” (७।१।१३५) । प्रत्यय इति शेषः । अश्वानां षट्त्वं अश्वषड्गवम् ॥ त्रयोऽपि प्रयोगा इदमर्थापवादाः ॥ "तिलादिभ्यः लेहे तैलः” (७।१।१३६ ) एभ्यः षष्ठ्यन्तेभ्यः स्नेहेऽर्थे तैलप्रत्ययः स्यात् । तिलानां स्नेहो विकारस्तिलतैलम् । सर्षपतैलं इङ्गुदीतैलं एरण्डतैलम् ॥ “तत्र घटते कर्मणष्ठः” (७।१।१३७) सप्तम्यन्तात्कर्मनशब्दात् घटते इत्यर्थे ठः स्यात् । कर्मणि घटते कर्मठः ॥ ९९ ॥
३६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560