Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 529
________________ ४४२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु "अव." "द्वित्रिः " सूत्रद्वयं स्पष्टम् । किन्तु अवयवा अवयविनि सम्बद्धा इति सामर्थ्यादवयवी प्रत्ययार्थ इति विज्ञायते । त्रयाणि पानानि यथा तथा पिबेदित्यत्र तु देशकालादिभेदेन समुदायाभिधानाद्वहुवचनम् । द्वये पदार्था जीवा अजीवाश्चेत्यत्र तु जीवाजीवतया द्वैराश्योपादानाद्बहूनामपि द्वाववयवौ भवतः । कथमुभयो मणिः, उभये देवमनुष्याः, उभयी दृष्टिरिति । उभयशब्दः सर्वादिषूभ५ यडिति पठ्यमानः शब्दान्तरमेव विज्ञेयम् । तथा चास्य "नेमार्द्ध” (१।४।१०) इत्यादिना जस इकार विकल्पो न स्यात् ॥ आदिशब्दसंसर्गात् “यादेर्गुणान्मूल्यक्रेये मयट्” (७।१।१५३ ) । व्यादेः सङ्ख्याशब्दागुणवृत्तेः प्रथमान्तात्षष्ठ्यर्थे मयट् स्यात्, स चेत्सङ्ख्याशब्दो मूल्ये क्रेये वा वर्त्तते । यवानां द्वौ गुणौ मूल्यमस्योदश्वितः क्रेयस्य द्विमयमुदश्वित् यवानाम् । एवं त्रिगयं चतुर्मयम् ।। उदश्वितो द्वौ गुणौ १० क्रेयावेषां यवानां द्विमया यवा उदश्वितः । एवं त्रिमयाः चतुर्मयाः । द्वयादिपदस्य सापेक्षस्यापि नित्य सापेक्षत्वेन गमकत्वाद्वृत्तिः ॥ अथवा मूल्यक्रेय इति प्रत्ययार्थविशेषणम् , व्यादेः सङ्ख्याशब्दाद्गुणवृत्तेः प्रथमान्तात्षष्ट्यर्थे मयट् स्यात् , स.चेत्षष्ठ्यर्थो मूल्यं क्रेयं वा भवति । द्वौ गुणावेषां मूल्यभूतानां यवानामुदश्वितः द्विमया यवा उदश्वितो मूल्यम् । द्वौ गुणावस्योदश्वितः क्रेयभूतस्य द्विमयमुश्विद्यवानां केयम्-त्रिमयं चतुर्मयम् ।। १५ अधिकं तत्सङ्ख्यमस्मिन् शतसहस्र शतिशद्दशान्ताया डः ॥ १०६ ॥ [ सि० ७।१।१५४] शतिशद्दन्तायाः सङ्ख्यायास्तच्छतादिसङ्ख्यं वस्त्वधिकमित्यर्थे शतसहस्रयोः स्यात् । विंशतिर्योजनानामधिकासिन्निति विंशं त्रिंशं द्वादशं योजनशतं योजनसहस्रं वा ॥ १०६ ॥ "अधि०" । तच्छतादिसङ्ख्यं वस्त्वधिकमिति किम् ? विंशतिर्दण्डानां अधिका अस्मिन् योजनशते२० अत्र शतादिसङ्ख्यं वस्तु योजनात्मकं अधिकं तु दण्डात्मकमिति न भवति । तत्सवयमिति च यदेव सङ्ख्यायते शतसहस्रादिना योजनादिकं तज्जातीयमेव यद्यधिकं स्यात्तदा भवतीत्यर्थः ॥ १०६ ॥ सङ्ख्यापूरणे डट् ॥ १०७ ॥ [ सि० ७।१।१५५] सङ्ख्या पूर्यते येन तस्मिन्नर्थे सङ्ख्याया डट् स्यात् । द्वादशानां सङ्ख्यापूरणः द्वादशः। "विंशत्यादेवा तमट्" (७।१।१५६) । पूरणे । विंशतितमः । सहस्रतमः । शततमः । “षष्ट्यादेर२५सङ्ख्यादेः” (७।१।१५८)। तमट् । षष्टितमा । सङ्ख्यादेस्तु डट् । द्विसप्ततः ॥ १०७॥ "सङ्ख्या.” सङ्ख्याया इति सङ्ख्यावाचिशब्दात् पूरणोक्तिसामर्थ्यात् षष्ठ्यन्तात्प्रत्ययो विज्ञायते । द्वादश इति । प्रत्ययस्य टित्वात् स्त्रियां द्वादशी तिथिः । “विंश.” वावचनात् पक्षे डट् । विंशतितमः विंश इति । स्त्रियां विंशतितमी विंशी स्त्री । विंशत्यादयश्च अष्टपश्चाशत्पर्यन्ता ज्ञेयाः-अष्टपञ्चाशतः सङ्ख्यापूरणः अष्टपञ्चाशत्तमः अष्टपञ्चाशः ॥ “शतादिमासार्द्धमाससंवत्सरात्" (७१। ३०१५७) । शतादिभ्यः सङ्ख्याशब्देभ्यः मासादिभ्यश्च त्रिभ्यः पूरणे तमट् स्यात् । शतस्य पूरणं शततमः । एकशततमः ॥ षष्ट्यादेरित्येव सिद्धे शतादिग्रहणं सङ्ख्याद्यर्थम् , ततोऽयमपि डिद्विकल्पापवादः।। "या"। नास्ति सङ्ख्या आदिरवयवो येषां तेभ्यः षष्ट्यादिभ्यः पूरणे तमट् स्यात् , विकल्पापवादः । षष्टितम इत्यादि । एवं सप्ततितमः, अशीतितमः, नवतितमः । असङ्ख्यादेरिति किम् ? एकष३४ष्टितमः, एकषष्टः । विंशत्यादेरिति विकल्प एव ॥ १०७ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560