________________
४४२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
"अव." "द्वित्रिः " सूत्रद्वयं स्पष्टम् । किन्तु अवयवा अवयविनि सम्बद्धा इति सामर्थ्यादवयवी प्रत्ययार्थ इति विज्ञायते । त्रयाणि पानानि यथा तथा पिबेदित्यत्र तु देशकालादिभेदेन समुदायाभिधानाद्वहुवचनम् । द्वये पदार्था जीवा अजीवाश्चेत्यत्र तु जीवाजीवतया द्वैराश्योपादानाद्बहूनामपि द्वाववयवौ भवतः । कथमुभयो मणिः, उभये देवमनुष्याः, उभयी दृष्टिरिति । उभयशब्दः सर्वादिषूभ५ यडिति पठ्यमानः शब्दान्तरमेव विज्ञेयम् । तथा चास्य "नेमार्द्ध” (१।४।१०) इत्यादिना जस इकार विकल्पो न स्यात् ॥
आदिशब्दसंसर्गात् “यादेर्गुणान्मूल्यक्रेये मयट्” (७।१।१५३ ) । व्यादेः सङ्ख्याशब्दागुणवृत्तेः प्रथमान्तात्षष्ठ्यर्थे मयट् स्यात्, स चेत्सङ्ख्याशब्दो मूल्ये क्रेये वा वर्त्तते । यवानां द्वौ गुणौ
मूल्यमस्योदश्वितः क्रेयस्य द्विमयमुदश्वित् यवानाम् । एवं त्रिगयं चतुर्मयम् ।। उदश्वितो द्वौ गुणौ १० क्रेयावेषां यवानां द्विमया यवा उदश्वितः । एवं त्रिमयाः चतुर्मयाः । द्वयादिपदस्य सापेक्षस्यापि नित्य
सापेक्षत्वेन गमकत्वाद्वृत्तिः ॥ अथवा मूल्यक्रेय इति प्रत्ययार्थविशेषणम् , व्यादेः सङ्ख्याशब्दाद्गुणवृत्तेः प्रथमान्तात्षष्ट्यर्थे मयट् स्यात् , स.चेत्षष्ठ्यर्थो मूल्यं क्रेयं वा भवति । द्वौ गुणावेषां मूल्यभूतानां यवानामुदश्वितः द्विमया यवा उदश्वितो मूल्यम् । द्वौ गुणावस्योदश्वितः क्रेयभूतस्य द्विमयमुश्विद्यवानां
केयम्-त्रिमयं चतुर्मयम् ।। १५ अधिकं तत्सङ्ख्यमस्मिन् शतसहस्र शतिशद्दशान्ताया
डः ॥ १०६ ॥ [ सि० ७।१।१५४] शतिशद्दन्तायाः सङ्ख्यायास्तच्छतादिसङ्ख्यं वस्त्वधिकमित्यर्थे शतसहस्रयोः स्यात् । विंशतिर्योजनानामधिकासिन्निति विंशं त्रिंशं द्वादशं योजनशतं योजनसहस्रं वा ॥ १०६ ॥
"अधि०" । तच्छतादिसङ्ख्यं वस्त्वधिकमिति किम् ? विंशतिर्दण्डानां अधिका अस्मिन् योजनशते२० अत्र शतादिसङ्ख्यं वस्तु योजनात्मकं अधिकं तु दण्डात्मकमिति न भवति । तत्सवयमिति च यदेव सङ्ख्यायते शतसहस्रादिना योजनादिकं तज्जातीयमेव यद्यधिकं स्यात्तदा भवतीत्यर्थः ॥ १०६ ॥
सङ्ख्यापूरणे डट् ॥ १०७ ॥ [ सि० ७।१।१५५] सङ्ख्या पूर्यते येन तस्मिन्नर्थे सङ्ख्याया डट् स्यात् । द्वादशानां सङ्ख्यापूरणः द्वादशः। "विंशत्यादेवा तमट्" (७।१।१५६) । पूरणे । विंशतितमः । सहस्रतमः । शततमः । “षष्ट्यादेर२५सङ्ख्यादेः” (७।१।१५८)। तमट् । षष्टितमा । सङ्ख्यादेस्तु डट् । द्विसप्ततः ॥ १०७॥
"सङ्ख्या.” सङ्ख्याया इति सङ्ख्यावाचिशब्दात् पूरणोक्तिसामर्थ्यात् षष्ठ्यन्तात्प्रत्ययो विज्ञायते । द्वादश इति । प्रत्ययस्य टित्वात् स्त्रियां द्वादशी तिथिः । “विंश.” वावचनात् पक्षे डट् । विंशतितमः विंश इति । स्त्रियां विंशतितमी विंशी स्त्री । विंशत्यादयश्च अष्टपश्चाशत्पर्यन्ता ज्ञेयाः-अष्टपञ्चाशतः सङ्ख्यापूरणः अष्टपञ्चाशत्तमः अष्टपञ्चाशः ॥ “शतादिमासार्द्धमाससंवत्सरात्" (७१। ३०१५७) । शतादिभ्यः सङ्ख्याशब्देभ्यः मासादिभ्यश्च त्रिभ्यः पूरणे तमट् स्यात् । शतस्य पूरणं शततमः । एकशततमः ॥ षष्ट्यादेरित्येव सिद्धे शतादिग्रहणं सङ्ख्याद्यर्थम् , ततोऽयमपि डिद्विकल्पापवादः।। "या"। नास्ति सङ्ख्या आदिरवयवो येषां तेभ्यः षष्ट्यादिभ्यः पूरणे तमट् स्यात् , विकल्पापवादः । षष्टितम इत्यादि । एवं सप्ततितमः, अशीतितमः, नवतितमः । असङ्ख्यादेरिति किम् ? एकष३४ष्टितमः, एकषष्टः । विंशत्यादेरिति विकल्प एव ॥ १०७ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org