________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । मानाद्यर्थाः
४४१ तस्य मात्रडादेरसंशये गम्यमाने लुप् स्यात् । हस्तः प्रमाणमस्य हस्तः। वितस्तिः पटः ॥ शमश्चतुर्विंशतिरङ्गुलानि । असंशय इति किम् ? शमः प्रमाणमस्य स्यात् शममात्रम् । केचित्तु मानमात्रान्मात्रटं तस्यासंशये लुपविकल्पं चेच्छन्ति-प्रस्थः प्रस्थमात्रो वा व्रीहिः, हस्तो हस्तमानं वा काष्ठम् । पलं पलमात्रं वा सुवर्णम् । शतं शतमात्रा वा वृषाः ॥ "द्विगोः संशये च” (७।१।१४४ )। मानादिति वर्त्तते । तेन च मीयतेऽनेनेति मानमिति प्रमाणं परिमाणमुन्मानमुपचरितमनुपचरितं सङ्ख्या ५ चेह गृह्यते "ऊर्ध्व मानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात् , सङ्ख्या बाह्या तु सर्वतः" ॥ १ ॥ ततश्च मानान्ताहिगोरसंशये च प्रस्तुतप्रत्ययस्य लुप् स्यात् । द्वौ शमौ प्रमाणमस्य स्यादिति वा द्विशमः । द्विहस्तः, द्विकारडा क्षेत्रभक्तिः । द्विकाण्डी रजः-"काण्डात्प्रमाणादक्षेत्रे" (२।४।२४) इति प्रत्ययलुपि डीः । “पुरुषाद्वा" (२।४।२५) इति विकल्पेन ङीः द्विपुरुषी द्विपुरुषा खाता । द्विहस्तिनी त्रिहस्तिनी । एवं द्वौ प्रस्थौ मानमस्य स्यादिति वा द्विप्रस्थः । एवं द्विपलम् , १० द्विशतः । अन्ये तु रूढप्रमाणान्तादेव द्विगोरिच्छन्ति, तन्मते द्विप्रस्थमानं द्विपलमात्रं द्विशतमात्रं स्यादित्यादौ लुब् न स्यात् ।
आदिशब्दात् “मात्रट्" (७।१।१४५)। मानात् संशय इति वर्तते । प्रस्थो मानमस्य स्यात् प्रस्थमात्रं धान्यम् , प्रस्थमात्रा बीयः। कुडवमात्रम्, पलमात्रम्, पञ्चमात्राः, दिष्टिमात्रम् । मात्रदनद्वयसानि नामान्यपि सन्ति, अनुबन्धासञ्जनार्थं तु प्रत्ययविधानम् ; तेन च स्त्रियां विशेषः । “शन्-१५ शद्विशतेः" (७।१।१४६) । एभ्यो मानवृत्तिभ्यः संशये गम्ये मात्रट् स्यात् । डिनोऽपवादः । दश मानमेषां स्यात् दशमात्राः । त्रिंशन्मात्राः, विंशतिमात्राः ॥ "डिन्” (७।१।१४७ ) । संशय इति निवृत्तम् । सङ्ख्यामानवृत्तेः प्रागुक्तशनादित्रयात् डिन् स्यात् । पञ्चदशाहोरात्रा मानमस्य पञ्चदशी पक्षः । पञ्चदशिनौ, पञ्चदशिनः पक्षाः । एवं त्रिंशी मासः त्रिंशिनौ त्रिंशिनः । त्रयस्त्रिंशिनो देवविशेषाः । विशिनो भवनेन्द्राः ॥ "इदं.” प्रथमान्तादिदम्शब्दात्किम्शब्दाच्च षष्ठ्यर्थे मेये अतुः स्यात् ।२० उकारो दीर्घत्वाद्यर्थ इत् । तत्सन्नियोगे चानयोरिय-किय इत्यादेशौ स्याताम् ॥ “यत्त०" अत्र डावादिरित्येतदन्तं सूत्रम्, अतुरित्येतावान् वृत्त्यंशः । तस्य च यदादिभ्यस्त्रिभ्यः प्रथमान्तेभ्यः षष्ठ्यर्थे मेये डावाविरतुः स्यादित्यर्थः । यावानिति यत्प्रमाणमस्य यावान् । ननु मात्रडादयोऽपि दृश्यन्ते, इदं प्रमाणमस्य इदमानं किंमानं यन्मानं तन्मात्रं एतन्मानं यद्दघ्नं यहयसं इत्यादि । सत्यम् । स्वविषये मानविशेषे प्रमाणे मात्रडादयो भवन्येव, मानसामान्ये तु अतुरेवेति विभागः ॥ १०३ ॥ २५
यत्तत्किमः सङ्ख्याया डतिर्वा ॥१०४॥[सि० ७१।१५०] सङ्ख्यारूपमानवाचिभ्यः एभ्यः सङ्ख्येये डतिर्वा स्यात् । यति यावन्तः । तति तावन्तः । कति कियन्तः ॥ १०४॥
“यत्त०" । वेति-पक्षे यथाविहितोऽतुः । या सङ्ख्या मानमेषां यति यावन्तः । मानादिति सङ्ख्याया विशेषणं किम् ? क्षेपे मा भूत् । का सङ्ख्या एषां दशानाम् ॥ १०४ ॥
३० अवयवात्तयत् ॥ १०५॥ [सि०७।१।१५१] अवयववृत्तेः सङ्ख्यार्थादवयविनि तयट् स्यात् । पञ्च अवयवा अस्य पञ्चतयो यमः । चतुष्टयी गतिः॥ "द्वित्रिभ्यामयड् वा” (७।१।१५२) । अवयवे । द्वयं द्वितयम् । त्रयं त्रितयम् ॥ १०५॥
है. प्रका० पूर्वा० ५६
३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org