________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुतदस्य सञ्जातं तारकादिभ्य इतः ॥ १०॥ [ सि० ७।१।१३८] एभ्यः सञ्जातार्थेभ्यः षष्ठ्यर्थे इतः स्यात् । तारकाः सञ्जाता अस्य तारकितं नमः । पुष्पिता तरुः ॥१०॥
"तद०” एभ्य इति प्रथमान्तेभ्य इति ज्ञेयम् । यत्प्रथमान्तं सञ्जातं चेत्तद्भवति । पुष्पाणि सञ्जाता५न्यस्य पुष्पित इति । तारका, पुष्प, कर्णक, ऋजीष, मूत्र, पुरीष, निष्क्रमण, उच्चार, विचार, प्रचार, १० आराल, कुड्मल, कुसुम, मुकुल, बकुल, स्तबक, पल्लव, किशलय, वेश, वेग, २० निद्रा, तन्द्रा, श्रद्धा, बुभुक्षा, पिपासा, अभ्र, श्वभ्र, रोग, अङ्गारक, अङ्गार, ३०, पर्णक, द्रोह, सुख, दुःख, उत्कण्ठा, भर, तरङ्ग, व्याधि, व्रण, कण्डूक, ४० कण्टक, मञ्जरी, कोरक, अङ्कुर,
हस्तक, पुलक, रोमाञ्च, हर्ष, उत्कर्ष, गर्व, ५० कल्लोल, शृङ्गार, अन्धकार, कन्दल, शैवल, १० कुतूहल, कुवलय, कलङ्क, कजल, कईम, ६० सीमन्त, राग, क्षुध् , तृष्, ज्वर, गर, दोह, शास्त्र, पण्डा, मुकुर, ७० मुद्रा, गर्ध, फल, तिलक, चन्द्रक, इति तारकादयः पञ्चसप्ततिः ॥ बहुवचनमाकृतिगणार्थम् ॥
अत्रायं विशेष:-"गर्भादप्राणिनि” (७।१।१३९)। गर्भशब्दात्तदस्य सञ्जातमित्यर्थे इतः स्यात् , स चेत् षष्ठ्यर्थः प्राणी न स्यात् । गर्भः सञ्जातोऽस्य गर्भितो व्रीहिः । अप्राणिनीति किम् ? गर्भः १५ सञ्जातोऽस्या दास्या इति वाक्यमेव ॥ १०० ॥
प्रमाणान्मात्रट् ॥ १०१ ॥ [सि० ७।१।१४०] "प्रमाणान्मात्रट्” (७१।१४०) षष्ठ्यर्थे )। आयामः प्रमाणम् । जानु प्रमाणमस्य जानुमात्रं जलम् । तावन्मात्री भूः॥१०१॥
"प्रमा०" प्रथमान्तात्प्रमाणवाचिनः षष्ठ्यर्थे मात्रट् स्यात् । आयाम इति आयाम मानं प्रमाणं २० तहिविधम्-ऊर्ध्वमानं तिर्यग्मानं च । तत्राचं जानुमानं जलमिति । एवं जानुमात्री खातेत्यपि । द्वितीयं रज्जुमात्री भूमिरिति । टकारो ड्यर्थः ॥ १०१ ॥
वोर्ट्स दनवयसट् ॥ १०२ ॥ [सि० ७।१।१४२] ऊर्ध्वप्रमाणादेतौ वा । जानुदनं जानुद्वयसं जानुमात्रं जलम् । “हस्तिपुरुषाद्वाण्" (७।१।१४१) प्रमाणे ॥१०२॥ २५ "वोटुं०" सूत्रं स्पष्टम् । “हस्ति.” वाग्रहणमण्मात्रटोरबाधनार्थम् , तेन पुरुषहस्तिनोश्चातूरूप्यं सिद्धम् ॥ १०२ ॥ अनोपयोगिसूत्रम् ।
संयोगादिनः ॥ १०३ ॥ [सि०७४।५३ ] संयोगात्परस्येनोऽण्यन्त्यखरादेर्लग् न स्यात् । हास्तिनम् ॥ हस्तिमात्रं हस्तिदनं हस्तिद्वयसम् । पौरुषं३॥"इदं किमोऽतुरिय-किय्-चास्य” (७।१।१४८) माने । इदं मानमस्येयान् कियान् ३० पटः । “यत्तदेतदो डावादिः” (७।१।१४९) । अतुः । यावान् तावान् एतावान् ॥१०३॥
“संयो.” स्पष्टम् ॥
अत्र विशेषाश्चैवम्-"मानादसंशये लुप्” (७१।१४३ ) प्रमाणादिति वर्त्तते । य शब्दो ३३हस्तवितस्त्यादिवत्साक्षादेव मानवाची न तु रज्वादिवल्लक्षणया तन्मानम् , तस्मात्प्रमाणवाचिनः प्रस्तु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org