________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे तद्धिताः । सङ्ख्यापूरणार्थाः
नो मट् ॥ १०८ ॥ [सि० ७।१।१५९] नान्तायाः सङ्ख्यायाः पूरणे मट् स्यात् । पञ्चमः । सङ्ख्यादेस्तु डः। षोडशः ॥ १०८ ॥ "नो मट्” । असङ्ख्यादेर्नान्तायाः सङ्ख्यायाः पूरणे मट् स्यात् । डटोऽपवादः ॥ १०८ ॥
पित्तिथट बहुगणपूगसङ्घात् ॥ १०९ ॥ [ सि०७।१।१६०] एभ्यस्तिथट् स्यात् ॥ "अतोरिथट्” (७।१।१६१)। पूरणे । तौ च पितौ । बहुतिथः॥१०९॥५
"पित्ति” । “बहुगणं भेदे" (१।१।४०) इति बहुगणयोः सङ्ख्यात्वम् , पूगसङ्घयोस्तु न । ततोऽत्र सङ्ख्याविशेषणं यथासम्भवं ज्ञेयम् । बहूनां सङ्ख्यापूरणो बहुतिथः । एवं गणस्य सङ्ख्यापूरणः गणतिथः, पूगतिथः, सङ्घतिथः । “अतो.” सूत्रं स्पष्टम् । एतयोः पित्त्वे फलं दर्शयति ॥ १०९ ॥
क्यङ्मानिपित्तद्धिते ॥ ११०॥ [सि० ३।२।५०] एषु त्रिष्वनूङ् परतः स्त्री पुंवत्स्यात् । बहीनां सङ्ख्यापूरणी बहुतिथी । *यावतिथः । याव-१० तिथी । “षट्कतिकतिपयात् थट्” (७।१।१६२)। पूरणे । षष्ठः कतिथः कतिपयथः । "चतुरः” (७१।१६३)। थट् । चतुर्थः । “येयो चलुक् च” (७।१।१६४)। चतुरः। तुर्यः । तुरीयः। “द्वेस्तीयः” (७१।१६५)। द्वितीयः ॥ ११०॥
"क्य." एषु त्रिष्विति क्यङि प्रत्यये, मानिनिशब्दे चोत्तरपदे, पिति तद्धिते च प्रत्यये, परतः स्त्रीलिङ्गशब्दोऽनूङ् पुंवद्भवति । क्रमेणोदाहरणानि-क्यङ्. श्येनीवाचरति श्येतायते । मानिन्. दर्शनीयां १५ मन्यते दर्शनीयमानी अयमस्याः, दर्शनीयमानिनीयमस्याः, मानिनग्रहणमस्त्युत्तरपदार्थमसमानाधिकरणार्थं च । दर्शनीयामात्मानं मन्यते दर्शनीयमानिनीति तु सामानाधिकरण्ये पूर्वेणैव भवति । अथ पित्तद्धिताः; थ्यप्. अजायै हितं अजयं यूथम् ; पित्तिथट्. बह्वीनां पूरणी बहुतिथी प्चरट. भूतपूर्वापवी पटुचरी; पित्तस्. बह्वीभ्यो बहुतः; त्रप्. बहीषु बहुत्र; प्रशस्. बह्वीभ्यो देहि बहुशो देहि; पाशप्. निन्द्या दर्शनीया दर्शनीयपाशा; तमप्तरपौ; इयमासामतिशयेन पक्का पकतमा, इयमनयोरतिशयेन २० पक्का पक्कतरा; रूपप्. प्रशस्ता दर्शनीया दर्शनीयरूपा; कल्पप्. ईषदसमाप्ता दर्शनीया दर्शनीयकल्पा; देश्यप्. दर्शनीयदेश्या; कप्. कुत्सिता ( ह्रस्वा ) दर्शनीया देर्शनीयका; कुत्सिता दरत् दारदिका; कथं पट्विका मृद्विका “डयादीदूतः के” (२।४।१०४ ) इत्यत्र डीग्रहणं पुंवद्भावबाधनार्थमित्युक्तम् , तेनात्र ह्रखो भवति । पञ्चभिर्गार्गीभिर्गाायणीभिर्वा क्रीतः पञ्चगर्गः-अत्रेकणो"ऽनाम्यद्विः प्लुप्” (६।४। १४७ ) इति लुपः पित्त्वात्पुंस्त्वम् ॥
अत्रादिशब्दोपादानात् "जातिश्च णितद्धितयखरे” ( ३।२।५१)। अन्या परतः स्त्रीजातिश्च णिप्रत्यये यकारादौ स्वरादौ च तद्धिते विषयभूते उत्पत्स्यमाने तद्विवक्षायामेव पुंवद्भवति; अनूङ् । णि. पट्वीमाचष्टे पैंटयति एवमेतयति लघयति । तद्धितय. एन्यां साधुः एत्यः, श्येत्यः, एन्या भाव २८
१ अत्र 'खाङ्गाद कीर्जातिश्च'. इति निषेधेऽपि पित्करणात् पुंवद्भावः । २ अत्रासन्देहार्थमिकारो न कृतः, तथाहि किमत्र पुंवद्भावे सति 'अस्यायत्तत्क्षिपकादीनाम्' इत्यनेन इकारः, यद्वाऽकृतेऽपि पुंवद्भावे 'वज्ञाजभत्रा-' इत्यनेनाप एव स्थाने, इति पुंवद्भावाभावयोर्न विशेषप्रतीतिः स्यात् । ३ दरदां राज्ञी 'पुरुमगध'-इत्यण् । यदा लपत्यार्थेऽण् , तदा खानाद् डी' इति गोत्रं चरणैः सहेति जातित्वे पुंवद्भावप्रतिषेधः स्यात् । अथेदृशे वाक्ये कृतेऽणू न प्राप्नोति, यतो राज्यभिधेये उक्तः । अत्र तु स्त्रीवविशिष्टेऽस्तीति न प्राप्नोति । उच्यते । नामग्रहणे लिङ्ग विशिष्टस्यापीति । ४ णिजि पुंवद्भावे 'नामिनोऽकलिहलेः' इति वृद्धौ अन्त्यखरादिलोपे । यद्यत्र वृद्धिमकृत्वैव उकारस्यैव लोपं विदध्यात् ततोऽपीपटदित्यादौ समानलोपादित्वं न स्यात् ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org