________________
४४४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुऐत्यम् , शैत्यम् । तद्धितस्वर. भवत्या इदं भावत्कम् , भवदीयम् , इयमासामतिशयेन पट्वी पटिष्टा पटीयसी॥ जातितद्धितय. । दरदोऽपत्यं स्त्री अण् लुप् दरद् तस्यां साधुः दारद्यः (एवम् , औशिज्यः) पुंवद्भावादणो लुब् निवर्त्तते । तद्धितस्वर. गाायण्याः कुत्सितमपत्यं गार्ग्यः, गार्गिकः । हस्तिनीनां समूहो हास्तिकम् । जातिग्रहणं जातिलक्षणप्रतिषेधनिवृत्त्यर्थम् ; सति तस्मिंश्चकारोऽन्यार्थः । जाति. परतः ५स्त्री अन्या च परतः स्त्री पुंवद्भवतीत्यर्थः । अकृते हि चकारे जातेरेव पुंवद्भावः स्यात् । कथं यौवतम् ? भिक्षादौ युवतीति स्त्रीलिङ्गपाठात् । कौण्डिन्य इति तु "कौण्डिण्यागस्त्ययोः०" (६।१।१२७) इति निर्देशेनं पुंवद्भावस्यानित्यत्वात् । अत एव च मानाय्य इत्यत्रापि न भवति । सापत्न इत्यपि "सपत्यादौ” (२।४।५०) इति सूत्रे सपत्नीति समुदायनिपातनात् , अत एव सपत्नीभार्य इत्यत्रापि न भवति (सपत्नस्यायं सापत्न इति वा भविष्यति ) । तद्धितस्वर इति विषयसप्तम्याश्रयणं किम् ? पढ्वया भावः १० पाटवम् , अत्र प्रत्ययोत्पत्तेः पूर्वमेव पुंवद्भावे लध्वादित्वात् "टवृवर्णालध्वादेः” (७१।६९) इत्यण्
भवति । परसप्तमीसमाश्रयणे तु पट्वीशब्दस्य लध्वादित्वाभावादण् न स्यादिति ॥ “एयेऽग्नायी" (३। २।५२) पुंवत्स्यात् । अग्नाय्या अपत्यं आमेयः "कल्यग्नेरेयण्” (६।१।१७)। अनायी देवताऽस्य आग्नेयः स्थालीपाकः। पूर्वेण सिद्धे नियंमार्थमिदम् , तेन श्यैनेयः, रौहिणेयः, इत्यादौ पूर्वेणापि पुंवद्भावो न स्यात् ॥ *यावतिथ इति यावतां यावतीनां सङ्ख्यापूरणः यावतिथः “यत्तदेतदो डावादिः” (७१। १५१४९) अतुरित्यतुप्रत्ययः ॥ “षट०” एभ्यस्त्रिभ्यः पूरणे थट् स च पित् । षण्णां पूरणः षष्ठः षष्ठी। कतीनां पूरणः कतिथः कतिथी । कतिपयानां स्त्रीणां पूरणी कतिपयथी “षष्ठी वाऽनादरे" (२।२। १०८) "चतुर्थी” (२।२।५३) इत्यादिना सूत्रनिर्देशात् थटि "नामसिदय्व्यञ्जने" ( १।१।२१) इति पदत्वं न भवति ॥ "चतु.” (चतुर्णा पूरणः चतुर्थः) चतसृणां सङ्ख्यापूरणी चतुर्थी । योगवि.
भाग उत्तरार्थः । “येयौ०" । चलुक् इति-चतुर्शब्दस्येत्यर्थः ॥ २० "देस्तीयः"। (७।१।१६५)। द्वितीयः ॥ "त्रेस्तु च” (७१।१६६ )। त्रेस्तीयस्तृत्वं चास्य । तृतीयः॥ "द्वेस्त०" "०" । द्वे अपि सूत्रे स्पष्टे ॥ ११० ॥
पूर्वमनेन सादेश्चेन् ॥ १११ ॥ [ सि० ७१।१६७ ] द्वितीयान्तात्सपूर्वात् केवलाच पूर्वशब्दात्तृतीयार्थे इन् स्यात् । कृतं पूर्वमनेन कृतपूर्वी कटम् , २५ पीतपूर्वी पयः॥ १११॥
१'वर्णदृढादिभ्यः' व्यण । २ वशक्० वष्टि न्यायं वशेः कित् इज् ‘वशेरयलि' वृत्, उशिजोऽपत्यं 'पुरुषमगध'इत्यण "देरज'-लोपः । उशिजि साधुः। ३ 'वृद्धस्त्रियाः क्षेपे णेकणौ' ततः पुंवत्त्वे 'तद्धितयखरेऽना'. इति यलोपः ।
गर्गादित्याद यभि, पुंवद्भावे तु 'नोऽपदस्य'-इत्यन्त्यस्वरादिलोपे कौण्ड्य इति स्यात् । ५ अनित्यखादेवेत्यर्थः ६ मनोर्भार्या 'मनोरौ च वाली ऐश्च । मनाय्या अपत्यं 'गर्गादेर्य' मानाय्यः । ७ सपन्या अपत्यं 'शिवादेरण' सापत्नः । ननु मनायीशब्दस्य गर्गादिपाठात् स्वयमेव न भविष्यति, यथा यौवतमित्यत्र भिक्षादिपाठात्स्त्रीलिङ्गस्य युवतिशब्दस्य पुंवद्भावो न भवति एवमत्रापि । उच्यते । गोंदिगणेऽणेकणोः प्राप्तावस्य पाठ इति तत्राप्युक्तम्, ततश्च पुंवद्भावः प्राप्नोति स मा भूदिति कौण्डिन्यनिर्देशात्पुंवद्भावो न भवतीत्युक्तम् । ८ सपत्नशब्दश्च सपन्यास्तुल्यः 'अः सपल्याः' ण औणादिको वा। ९ अत्र हाण्विषये पुंवद्धावस्ततोऽण । १० विपरीतनियमस्तु न भवति प्रतिषेधाधिकारेऽऽन्याय्यनेये इत्यकरणात् । अत्रेव वा आग्नेय
यनिपातनात् । विपरीतनियमे हि अनाय्यै हितः 'तस्मै हिते' इतीये 'जातिश्च'-इत्यनेनापि पुंवत् न स्यात्, ततश्चानायीय इति स्यात् : स्थिते त्वमीय इत्येव भवति । ११ 'द्विखरादनद्याः'। १२ 'त्याप्यूटः' इति एयण् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org