________________
४४५
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे तद्विताः । प्रथमान्तात्तृतीयार्थाद्याः "पूर्व." द्वितीयान्तादिति, अत्रायमभिप्राय:-पूर्वमिति क्रियाविशेषणानिर्देशादेव द्वितीयान्तात्केवलात्सादेः सपूर्वाच्चानेनेति तृतीयार्थे कर्तरि इन् स्यात् । केवलात्. पूर्वमनेन पूर्वी, पूर्विणो, पूर्विणः । अनेनेति कर्तृपदं कृतं भुक्तमित्यादिकां काञ्चित् क्रियामपेक्षते, क्रियां विना कर्तुरभावात् ; विशेषावगमस्तु अर्थात्प्रकरणाच्छब्दान्तरसन्निधेर्वा स्यात् । पूर्वी कटम् , पूर्वी ओदनम् , पूर्वी पयः । सादेः. कृतं पूर्वमनेन कृतपूर्वी कटं भुक्तं पूर्वमनेन भुक्तपूर्वी ओदनम् , पीतं पूर्वमनेन पीतपूर्वी पयः, कृतपूर्वा-५ दिसमासात्प्रत्ययः क्तान्तं येनैव समानाधिकरणम् , तस्यैव कर्मतां वक्ति; न च वृत्तौ क्तान्तं कटादिना समानाधिकरणमिति कटादिगतं कर्मानुक्तमित्यतो द्वितीया ॥ १११ ॥
इष्टादेः॥ ११२ ॥ [सि०७।१।१६८1 एभ्यः प्रथमान्तेभ्यस्तृतीयार्थे कर्त्तरि इन् स्यात् । इष्टो यज्ञोऽनेन इष्टी यज्ञे । अधीतस्तर्कोऽनेन अधीती तर्के ॥ ११२ ॥
"इष्टा०" । इष्टी यज्ञे इत्यादौ "व्याप्ये तेनः" (२।२।९९) इति कर्मणि सप्तमी । इष्ट, पूर्त उपपादित, उपसादित, उपासित, निगदित, परिगदित, निकटित, सङ्कलित; परिकलित, १० संरक्षित, परिरक्षित, अर्चित, अगणित, अवगणित, अवकीर्ण, अवमुक्त, आयुक्त, गृहीत, अधीत, २० आनात, श्रुत, आसेवित, अवधारित, अवकल्पित, (कृत ?) निराकृत, उपकृत, उपाकृत, अनुयुक्त, ३० अनुगुणित, अनुगणित, (गणित ?) परिगणित, अनुपठित, निपठित, पठित, व्याकुलित, उद्ग-१५ हीत, कथित, ४० निकथित, निषादित, इति इष्टादयो द्विचत्वारिंशत् ॥ ४२ ॥
अत्रादिशब्दसंसर्गात् "श्राद्धमद्यभुक्तमिकेनौ” (७।१।१६९)। प्रथमान्तात् श्राद्धशब्दादद्यभुक्तमित्युपाधिकात्तृतीयार्थे कर्तरि इक इन् इत्येतौ स्याताम् । श्राद्धशब्दः कर्मवाची तत्साधने द्रव्ये वर्तित्वा प्रत्ययमुत्पादयति-श्राद्धमनेनाद्य भुक्तं श्राद्धिकः, श्राद्धी । अद्यग्रहणादद्य भुक्ते श्राद्धे श्वश्राद्धिकः, श्राद्धी इति न भवति ॥ "अनुपद्यन्वेष्टा" (७।१।१७०) । अनुपदीति इन्नन्तं निपात्यते, अन्वेष्टा २० चेत्प्रत्ययार्थः स्यात्, अनुपदमन्वेष्टा अनुपदी गवाम् ॥ "दाण्डाजिनिकायःशूलिकपार्श्वकम्" (७।१।१७१) । एषु आद्यौ द्वौ इकण्प्रत्ययान्तौ, तृतीयश्व कप्रत्ययान्तो निपात्यते; यो मिथ्याप्रती परप्रसादार्थं दण्डाजिनमुपादायार्थानन्विच्छति स दाम्भिको दाण्डाजिनिक उच्यते । निपातनं रूढ्यर्थम् , तेन शैवभागवतादौ न भवति ॥ तीक्ष्ण उपायो यः शूलसाम्यादयःशूलम् , तेनान्वेष्टा आयःशूलिकः । यो मृदुनोपायेनान्वेष्टव्यानर्थान् तीक्ष्णोपायेनान्विच्छति रामसिकः स एवमुच्यते ॥ केचिदाभ्यामिक-२५ मेवाहुः-दण्डाजिनिकः दण्डाजिनिका । अयःशूलिकः अयःशूलिका ॥ पार्श्वमनृजुरुपायो लञ्चादिस्तेनान्वेष्टा पार्श्विकः । ऋजूपायेनान्वेष्टव्यानर्थाननृजुनोपायेन योऽन्विच्छति स पार्श्वक उच्यते । यस्तु राज्ञः पार्श्वनार्थानन्विच्छति स राजपुरुषस्तत्र न भवति ।। "क्षेत्रेऽन्यस्मिन्नाश्ये इयः” (७।१।१७२) । अन्योपाधिकात् क्षेत्रात् नाश्ये इयः स्यात् । क्षेत्रियो व्याधिः-अन्यस्मिन् क्षेत्रे जन्मान्तरशरीरे नाश्योऽसाध्य इत्यर्थः । क्षेत्रियं विषम् , तद्धि स्वशरीरादन्यस्मिन्क्षेत्रे परशरीरे सङ्कमय्य किंचिन्नाश्यं ३० (चिकित्स्यं ) भवति । क्षेत्रियानि तृणानि. तानि हि सस्थक्षेत्रेऽन्यस्मिन्नुत्पन्नानि नाश्यान्युत्पाद्यानि भवन्ति । क्षेत्रियः पारदारिकः स हि अन्यस्मिन् क्षेत्रे परदारेषु वर्तमानो नाश्यो निग्राह्यो भवति; दाराः क्षेत्रम् ॥ “छन्दोऽधीते श्रोत्रश्च वा” (७।१।१७३)। द्वितीयान्तात् छन्दस्शब्दात् अधीते इत्यर्थे इयस्तद्योगे चास्य श्रोत्रादेशः स्यात् ॥ छन्दोऽधीते श्रोत्रियः; पक्षे "तद्वेत्त्यधीते" (६।२।११७ ) इत्य' छान्दसः ॥ "इन्द्रियम्” (७।१।१७४) । इन्द्रशब्दादियः प्रत्ययो निपात्यते । निपातनं रूढ्य-३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org