________________
४४६ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुर्थम् , तेन यथायोगमर्थकल्पना-इन्द्र आत्मा तस्य लिङ्ग इन्द्रियं चक्षुराद्युच्यते; तेन हि करणेनात्मानुमीयते नाकर्तृकं करणमिति । इन्द्रेण दृष्टमिन्द्रियम्-आत्मा हि चक्षुरादीनि दृष्ट्वा खविषयं नियुते । इन्द्रेण सृष्टमिन्द्रियम्-आत्मकृतेन हि शुभाशुभेन कर्मणा तथाविधविषयोपभोगायास्य चक्षुरादीनि भवन्ति । इन्द्रेण जुष्टमिन्द्रियम् , तद्वारेणास्य विज्ञानोत्पादानात् । इन्द्रेण दत्तमिन्द्रियम् , विषयग्रहणाय ५ विषयेभ्यः समर्पणात् । इन्द्रस्यावरणक्षयोपशमसाधनमिन्द्रियम् । एवं सति सम्भवेऽन्यापि व्युत्पत्तिः कार्या ॥ ११२॥
तेन वित्ते चञ्चुचणौ ॥ ११३ ॥ [सि० ७१।१७५ ] तृतीयान्तात् ख्याते एतौ स्याताम् । विद्याचञ्चुः । केशचणः ॥ ११३ ॥
"तेन०” विद्याचञ्चुरिति विद्यया विख्यातः । १० अत्राप्यादिशब्दसान्निध्यात् कप्रत्ययप्रकरणं सन्निधीयते; तथाहि-"पूरणादन्थस्य ग्राहके
को लुक्चाऽस्य” (७।१।१७६ ) । तृतीयान्तात्पूरणप्रत्ययान्ताद्वन्थस्य ग्राहकेऽर्थे कः स्यात् , तत्सनियोगे च पूरणप्रत्ययस्य लुक् । द्वितीयेन रूपेण ग्रन्थस्य ग्राहकः द्विकः । त्रिकः, चतुष्कः, पञ्चकः, षट्को वैयाकरणः । ग्रन्थस्येति किम् ? पञ्चमेन दिनेन शत्रूणां ग्राहकः ॥ "ग्रहणाद्वा” (७।१। १७७ ) । ग्रन्थस्येति पूरणादिति च वर्त्तते । गृह्यतेऽनेनेति ग्रहणं रूपादि । ग्रन्थस्य ग्रहणाद्हणे वर्तमा१५ नात् पूरणप्रत्ययान्तानाम्नः कः प्रत्ययः स्यात्, स्वार्थ प्रकृत्यर्थे एवार्थान्तरानिर्देशात् , तत्सन्नियोगे च
पूरणप्रत्ययस्य वा लुक् ॥ वेति लुकैव सम्बद्ध्यते न प्रत्ययेन । पक्षे प्रत्ययानुत्पत्तेर्महाविभाषयैव सिद्धत्वात् ॥ द्वितीयमेव द्विकं ग्रन्थग्रहणमस्य, द्वितीयकं ग्रन्थग्रहणमस्य । एवं त्रिकं व्याकरणस्य ग्रहणम् , तृतीयकं व्याकरणस्य ग्रहणम् । चतुष्कं चतुर्थकम् , पञ्चकं पञ्चमकम् । ग्रन्थस्येत्येव-द्वितीयं ग्रहणं
धान्यस्य ॥ "सस्यागुणात्परिजाते” (७।१।१७८) । गुणवाचिनस्तृतीयान्तात्सस्यशब्दात् परिजा२० तेऽर्थे कः स्यात् । परिः सर्वतो भावे; जनिः सम्पत्तौ । सस्येन परिजातः सस्यकः शालि:-यः सर्वतो गुणैः सम्पन्नो न यस्य किञ्चिदपि वैगुण्यमस्ति स एवमुच्यते । एवं सस्यको देशः, सस्यको वत्सः, सस्यकं सीधु । सस्यको मणिः-रूढिशब्दश्चायं मणिविषये [गुणेन परिजातोऽस्तु वा, मा वा, समुदायप्रसिद्ध्या तु मणिविशेषस्य संज्ञा] । सस्यकः खड्गः-सर्वतः, सारेण सम्बद्धः । गुणादिति किम् ? धान्यवचनान्मा भूत्-सस्येन परिजातं क्षेत्रम् ॥ “धनहिरण्ये कामे" (७।१।१७९) । आभ्यां सप्त२५ म्यन्ताभ्यां कामेऽभिलाषेऽर्थे कः स्यात् । धने कामो धनकश्चैत्रस्य । हिरण्यको मैत्रस्य ॥ "खाङ्गेषु
सक्ते" (७।१।१८०)। सप्तम्यन्तेभ्यः स्वागवाचिभ्यः सक्ते तत्परेऽर्थे कः स्यात् । केशेषु सक्तः केशकः । नखकः । दन्तकः ॥ केशादिरचनायां प्रसक्त एवमुच्यते । बहुवचनात्स्वाङ्गसमुदायादपि केशनखकः । “उदरे विकणाने” (७।१।१८१ ) । उदरशब्दात्सप्तम्यन्तासक्तेऽर्थे इकण् स्यात् ,
सक्तश्वेदाधुनः स्यात् । उदरे सक्त औदरिकः आयूनः, अविजिगीषुर्यो बुभुक्षयात्यंतं पीड्यते । औद३० रिकी स्त्री । तुशब्दः सर्वसूत्रशेषतामस्य कथयति तेन काधिकारो न बाध्यते ॥ "अंशं हारिणि" (७।१।१८२) । द्वितीयान्तादंशशब्दात् हारिण्यर्थे कः स्यात् । अंशं हारी अंशको दायादः । हारीत्यावश्यके णिन् [अवश्यं हरिष्यति णिन् । 'एष्यहणेनः' इति षष्ठ्या निषेधः । शीलार्थे तु षष्ठी स्यात् ] ॥ "तत्रादचिरोद्धते” (७।१।१८३ ) । तथा । तत्रात्पटवानोपकरणादचिरोत्तीर्णः तत्रकः पट:
प्रत्यग्र इत्यर्थः ॥ "ब्राह्मणान्नानि" (७।१।१८४) । तथा । सदाचारब्राह्मणेभ्योऽचिरोद्धृतस्तदा३५ नीमेव पृथकृतो ब्राह्मणको नाम देशः । तत्रायुधजीविनः काण्डस्पृष्टा नाम ब्राह्मणा भवन्ति । आयुध
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org