________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे तद्धिताः । अचिरोद्धृताद्यर्थाः
४४७
जीवी ब्राह्मण एव ब्राह्मणक इत्यन्ये ॥ " उष्णात् " ( ७।१।१८५) । अचिरोद्धृतेऽर्थे कः स्यात् । उष्णादरचिरोद्धृता उष्णिका यवागूः । अल्पान्ना पेया विलेपिकेति यावत् ॥ उष्णकुण्डान्निःसृता नदीति केचित् ॥ "शीताच्च कारिणि " ( ७।१।१८६ ) । शीतादुष्णाच्च द्वितीयान्तात्कारिण्यर्थे कः स्यात्, नाम्नि । शीतं मन्दं करोति शीतकोऽलसः । उष्णं क्षिप्रं करोति उष्णको दक्षः; नाम्नीत्यनुवृत्तेः शीतोtraदाविह मान्यशीघ्रवचनौ गृह्येते न स्पर्शवचनौ । क्रियाविशेषणाद्वितीया, कारीत्यावश्यके णिन् ॥५ “अधेरारूढे” ( ७।१।१८७ ) । अधिशब्दादारूढेऽर्थे वर्त्तमानात् स्वार्थे कः स्यात् । आरूढः शब्दः कर्त्तरि कर्मणि च क्तप्रत्यये सिद्धः । तत्र यदा कर्त्तरि तदा अधिको द्रोणः खार्याः खार्यामिति च भवति “अधिकेन भूयसस्ते” ( २।२।१११ ) पचमी सप्तम्यौ । यदा तु कर्मणि तदा तु अधिका खारी द्रोणेनेति भवति “ तृतीयापीयसः” ( २।२।११२) || "अनोः कमितरि” (७।१।१८८) । कः स्यात्, समुदायेन चेत्कमिता गम्यते । अनुकामयते अनुकः ॥ " अभेरीश्च वा" (७।१।१८९) । १० अभिशब्दात्कः, ईकारश्चास्य वा स्यात्, समुदायेन चेत्कमिता गम्यते । अभिकामयते अभीकः अभिकः । " सोऽस्य मुख्यः " (७।१।१९० ) । प्रथमान्तात्षष्ठ्यर्थे कः स्यात्, यत्प्रथमान्तं स चेन्मुख्य: ( प्रधानं ग्रामणीः ) स्यात् । देवदत्तो मुख्योऽस्य देवदत्तकः सङ्घः । जिनदत्तो मुख्य एषां जिनदत्तकाः || "शृङ्खलकः करभे” ( ७|१|१९१ ) । निपात्यते । शृङ्खलं बन्धनमस्य शृङ्खलकः करभशिशुः करभाणां काष्ठमयं पादबन्धनं शृङ्खलम् । वयः शब्दश्वायम्, शृङ्खलं भवतु वा मा भूत् ॥ "उदुत्सो- १५ रुन्मनसि " ( ७|१|१९२ ) । उद् उत्सु इत्येताभ्यामुन्मनसि अभिषेये कः स्यात् । उद्गतं मनोऽस्य उत्कः । उत्सु गतं मनोऽस्य उत्सुकः । “उत्कस्तूत्सुक उन्मना " इति कोषवचनात् ॥ " कालहेतुफ लाद्रोगे” ( ७।१।१९३ ) स इति प्रथमान्तेभ्यः कालविशेषवाचिभ्यो हेतुवाचिभ्यः फलवाचिभ्यश्च षष्ठ्यर्थचेद्रोगः स्यात् । द्वितीय दिवसोऽस्याविर्भावाय द्वितीयकस्तृतीयको ज्वरः । सततः कालोstr सततको ज्वरः । हेतु विषपुष्पं हेतुरस्य विषपुष्पकः । काशपुष्पकः । पर्वतको रोगः ॥ फल. २० शीतं फलं कार्यमस्य शीतक उष्णको ज्वरः ॥ " प्रायोऽन्नमस्मिन्नाम्नि” (७|१|१९४) । प्रथमान्तात्सप्तम्यर्थे नाम्नि विषये कः स्यात्, प्रथमान्तं चेदन्नं प्रायः प्रायेण भवति । प्रायशब्दोऽत्राऽन्नसमानाधिकरणो नियंतलिङ्गसङ्खयः । प्रायोऽकृत्नबहुत्वम् । गुडापूपाः प्रायेण प्रायो वाऽन्नमस्यां गुडापूपिका पौर्णमासी ॥ " कुल्मासादण " ( ७|१|१९५ ) उक्तार्थे । कुल्मासाः प्रायेण प्रायो वान्नमस्य कौल्मासी पौर्णमासी । कुल्माष इति मूर्द्धन्योपान्त्योऽप्यस्ति ॥ "वटकादिन्” ( ७|१|१९६ ) २५ उक्तार्थे। वटकिनी पौर्णमासी ॥ " साक्षाद् द्रष्टा ” ( ७|१|१९७) । साक्षाच्छब्दाद्द्रष्टेत्यस्मिन्नर्थे इन् स्यात्, नान्नि । साक्षाद्द्रष्टा साक्षी । साक्षिणौ, साक्षिणः || " प्रायोऽव्ययस्य " ( ७ | ४|६५ ) इत्यन्त्य - स्वरादिलोपः ॥ ११३ ॥
अथ मत्वर्थीयाधिकारो निरूप्यते ।
तदस्याऽस्त्यस्मिन्निति मतुः ॥ ११४ ॥ [ सि० ७२१]
३०
प्रथमान्तात्षष्ठ्यर्थे सप्तम्यर्थे वा मतुः स्यात् । प्रथमान्तं चेदस्तीत्युच्यते । गावोऽस्य सन्ति गोमान् ॥ ११४ ॥
३२
१ अतः कारणान्निर्देशादेव पञ्चम्यन्तेभ्य इति न लभ्यते । ननु कालस्यापि रोगकारणत्वाद्धेतुग्रहणेनैव तद्ग्रहणे सिद्धे किं कालग्रहणेन । न । अन्यतो भवतोऽपि रोगस्यायमस्य काल इति रोगाधिकरणभूतस्य कालस्यासम्बन्धिले विज्ञायमानेऽपि यथा स्यादित्येवमर्थम् । २ अनव्ययं पुंल्लिङ्ग एकवचनान्तोऽदन्तश्च पूर्वस्तु सान्तोऽव्ययत्वादलिङ्गव ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org