________________
४४८
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु"तद०" गोमानिति षष्ठ्यर्थोदाहरणम् , सप्तम्यर्थोदाहरणं तु वृक्षा अस्मिन् सन्ति वृक्षवान् पर्वत इति । अस्ति. धनमस्यास्ति अस्तिमान् ; स्वस्ति आरोग्यमस्यास्ति स्वस्तिमान् । अत्रास्तिस्वस्ती अव्ययौ धनारोग्यवचनौ अस्तीति च सामान्याभिधायि । विशेषास्तेश्च सामान्यास्तिना सामानाधिकरण्यमुपपद्यत एव । तदस्यास्तीत्यत्र वर्तमानकालग्रहणाद्वर्त्तमानसत्तायां प्रत्ययो न भूतभविष्यत्सत्तायाम् , तेन ५ गावोऽस्यासन भवितार इत्यत्र न मतुः । ननु कथं तर्हि गोमानासीन् गोमान् भवितेत्यत्र गवाग्रे मतुः ? अत्रापि गावोऽस्यासन् गावोऽस्यास्य भवितार इत्यर्थस्यैव प्रतीयमानत्वात् । मैवम् । गोमानासीदित्यादौ गावोऽस्य सन्तीत्येतादृशोऽयमासीदिति गोमत्सत्तायां भूतभविष्यत्कालता, गोसत्तायां तु वर्तमानकालतोक्तिरेव । ननु तर्हि गोसत्तायां भूतभविष्यत्कालताप्रतीतिः कथमिति चेत् ? "धातोः संबन्धे प्रत्ययाः"
(५।४।४१) इति ग्रहणात् चित्रा गावोऽस्य स चित्रगुः शबलगुरित्यत्र बहुव्रीहिणैव मत्वर्थस्योक्तत्वा१०न्मतुर्भवति । एवं पूर्वशालः अपरशालः पञ्चगुः दशगुरित्यत्राप्यस्तीति पदस्यापेक्षं तद्धितद्विगुं द्वैमातुर इत्यादौ सावकाशं बाधित्वास्तिपदनिरपेक्षत्वादन्तरङ्गेण बहुव्रीहिणैव भवता उक्तार्थत्वान्मतुर्न भवति । तदस्यास्त्यस्मिन्नितीत्यत्रेतिशब्दो विवक्षार्थस्तेन "भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसर्गेति विवक्षायां प्रायो मत्वादयो मताः" ॥ १ ॥ भूग्नि. गोमान्, यवमान् । निन्दायाम्. शेङ्खोदकी,
ककुदावर्ती । प्रशंसायाम् . रूपवती शीलवती कन्या । नित्ययोगे. क्षीरिणो वृक्षाः । अतिशायने, बलवा१५न्मल्लः । संसर्गे. दण्डी छत्री । प्रायिकमेतद्भूमादिदर्शनम् , सत्तामात्रेऽपि प्रत्यया दृश्यन्ते-व्याघ्रवान्
पर्वतः, स्पर्शादिवन्तः पुद्गलाः, गन्धवती पृथिवीत्यादि । मत्वर्थीयान्मत्वर्थीयः सरूपो न स्यात्-गोमन्तोऽत्र सन्तीत्यत्र मतुर्न स्यात् । दण्डिका अत्र सन्तीत्यत्र इको न स्यात् । विरूपस्तु भवत्येव-दण्डिमती शाला, हस्तिमती उपत्यका । विरूपो मत्वर्थीयः समानायां वृत्तौ न भवति । दण्ड एषामस्तीति दण्डिकाः दण्डिनः । दण्डिका दण्डिन अस्य सन्ति दण्डिनोऽस्य सन्तीति इन्मतू न भवतः । “शैषि२० काच्छैषिको नेष्टः, सरूपः प्रत्ययः कचित् । सँमानवृत्तौ मत्वर्थान्मत्वर्थीयोऽपि नेष्यते” ॥ १ ॥ कचिदिति समानायामसमानायां च वृत्तौ यथा शालायां भवः शालीयः इत्यत्र पुनः शालीये भवः शाली
यस्यायं वेति ईयो न भवति । विरूपस्तु भवति-अहिच्छत्रे भवः आहिच्छत्रस्तत्र भव आहिच्छ२३त्रीयः । तथा असंज्ञाभूतात् कैर्मधारयान्मत्वर्थीयो न भवति । वीरपुरुषा अस्मिन् ग्रामे सन्ति वीरपुरु
यदा अस्तिशब्दो धनार्थस्तदाऽस्तिमानित्युपपद्यते । यदा तु विद्यमानार्थस्तदा कथं द्वयोरेकार्थत्वादित्याह-सा० अस्तीति क्रियापदं सामान्यात्राधायि सामान्येनास्तिवमानप्रतिपादनात्, प्रकृतिभूतस्य खव्ययस्य विशेषाभिधायित्वं विद्यमानवरूपविशेषस्याभिधानात् । २ यद्यपि सूत्रे लिङ्गं सङ्ख्या कालश्चातन्त्राणि तथापीह सूत्रे वर्तमानकालस्यैव प्राधान्यमस्तीतिपदोपादानादन्यथा किमनेन । न खलु पदार्थः सत्तां व्यभिचरति, ततः सत्तायां निसर्गसिद्धायां यत्पुनरस्तीतिग्रहणं तद्वर्तमानकालार्थम् । ३ अनेन सूत्रेणायथाकालमपि प्रत्यया भवन्तीत्यर्थः । तेन प्रत्ययस्य वर्तमानकालत्वेपि भूतभविष्यत्कालतावगमः । ४ शबलशब्दाद्वर्णवाचिनो गौरादित्वात् ड्या शबल्यो गावोऽस्य सन्तीत्येवं कार्यम् । यदा तु शबलशब्दो गवि वर्त्तते तदा गौरादित्वाभावादपि सति 'तद्धिताककोपान्त्य-' इत्यनेन आख्याद्वारेण पुंवत्त्वनिषेधात् शबला गुरित्येव स्यात् । ५ शङ्खोदकककुदावत्तौ द्वे अपि अश्वस्यापलक्षणे। ६ अत्र एषामस्येति च उभयत्रापि षठ्याः सद्भावात् समाना वृत्तिः । ७ पूर्वार्द्ध यत्सरूप इति पदं तदुत्तरार्द्धऽपि योज्यम् , ततोऽयमर्थः-न केवलं सरूपो मत्वर्थीयो मत्वर्थीयात्समानवृत्तौ न भवति, मत्वर्थीयोऽपीत्यत्रापिशब्दाद्विरूपोऽपि इति । विषमवृत्ती सरूपो मत्वर्थीयो न भवतीति तु कारिकाया न सजगृहे । अथवा पूर्वार्धात्सरूप इति नाधिक्रियते किं तु मत्वर्थीयोपि नेष्यत इति सामान्येन भणनात् सरूपो विरूपश्च नेष्यत इत्येव व्याख्यायते । अपिशब्दस्तु शैषिकापेक्षया समुच्चये व्याख्येयः । ८ द्विविधः कर्मधारयः-संज्ञाभूतोऽसंज्ञाभूतश्च । तत्र संज्ञाभूतो यः समुदायप्रसिद्ध्या प्रवर्तते यथा गौरखरादयः । असंज्ञाभूतो योऽवयवार्थयोगेन प्रवर्तते न पृथक्समुदायप्रसिद्ध्या यथा वीरपुरुषादिः । ९ उपलक्षणमिदं यत्कर्मधारयान्मत्वर्थीयो न भवतीति । यावता नन्तत्पुरुषादपि बहुव्रीहिणैव भाव्यम्-यथा अघोषा इति । अत्र हि न घोषोऽघोषः, सोऽस्यास्तीति कृते बहुव्रीहिरेव न मतुः । यत्र खर्थविशेषो मखींयेनाभिधीयते तत्र नञ्तत्पुरुषादप्यसो भवति यथा नर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org