________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे तद्धिताः । मतुप्रत्ययान्ताः
४४९
षको ग्रामः - अत्र बहुव्रीहिरेव । संज्ञायास्तु भवत्येव - गौरखरवदरण्यम्, कृष्णसर्पवान्वल्मीकः, लोहितशालिमान् प्रामः । ऐकगविकः सर्वधनीत्यादिकं तु "एकादेः कर्मधारयात्" (७।२।५८) इत्याद्यारम्भसामर्थ्याद्भवति [ अत्राप्यसंज्ञाभूतः कर्मधारयोऽस्तीत्यभिप्रायः ] । तथा गुणे गुणिनि च ये गुणशब्दा वर्तन्ते तेभ्यो मत्वर्थीयो न भवति, शुक्लो वर्णोऽस्यास्ति शुकुः । तिक्तो रसोऽस्यास्ति तिक्तः । प्रत्ययं विनाप्येषां तदभिधानसामर्थ्यात् । ये तु गुणमात्रवाचिनस्तेभ्यो भवत्येव - रूपवान् रसवान् शौक्लयवान् ५ कार्ण्यवान् । इति ॥ ११४ ॥ अत्रोपयोगिसूत्रम् —
मावर्णान्तोपान्त्यापञ्चमवर्गान्मतोर्मो वः ॥ ११५ ॥ [ सि० २ १ ९४ ]
मावर्णो प्रत्येकमन्तोपान्त्यौ यस्य तस्मात्पश्चमवर्जवर्गान्ताच्च मतोर्मो वः स्यात् । किमत्रा - स्तीति किंवान् । वृक्षवान् ॥ ११५ ॥
" मा ०" मच अवर्णश्च मावर्णो, अन्तश्च उपान्त्यश्च अन्तोपान्त्यौ, ( मावर्णो अन्तोपान्त्यौ ) १० यस्य स मावर्णान्तोपान्त्यः, नास्ति पञ्चमो यस्मिन् स अपञ्चमः, अपञ्चमश्चासौ वर्गच अपञ्चमवर्गः, अपञ्चवर्गोऽन्ते यस्य स अपञ्चमवर्गान्तः, मावर्णान्तोपान्त्यश्च अपञ्चमवर्गान्तश्च मावर्णान्तोपान्त्यापञ्चमवर्ग तस्मात् । तथा च स्पष्टयति- मावर्णौ प्रत्येकमित्यादि । मकारान्तात्. किंवान् इदंवान् शंवान् । मकारोपान्त्यात्. शमीवान् लक्ष्मीवान् ॥ अवर्णान्तात्. वृक्षवान् मालावान् । अवर्णोपान्त्यात्. अहर्वान् सुगुण्वान् पयस्वान् भास्वान् ॥ अपञ्चमवर्गान्तात्. मरुत्वान् विद्युत्वान् उदश्वित्वान् समिद्वान् । १५ मावर्णान्तेत्यादि किम् ? अग्निमान् वायुमान् नृमान् । नृमतोऽपत्यं नार्मत इत्यत्र तु वृद्धेर्बहिरङ्गत्वान्न स्यात् [ तद्धितापेक्षत्वेन वृद्धिर्बहिरङ्गा, तदनपेक्षं तु वत्वमन्तरङ्गमिति ] ॥ ११५ ॥ अत्रापवादमाह । नोर्म्यादिभ्यः ॥ ११६ ॥ [ सि० २।१।९९]
एभ्यो मतोर्मो वो न स्यात् । ऊर्मिमान् । उदन्वान् जलाधारे ॥ ११६ ॥
“नोर्म्या०” (२।१।९९ ) ऊमि दल्मि भूमि तिमि क्रिमि (५) एभ्यो मोपान्त्यत्वात्प्राप्ते यवकुञ्चा २० ( द्राक्षा ? ) ध्वांक्षा वासा ( ४ ) एभ्योऽवर्णान्तत्वात्प्राप्ते, हरित् गरुत्, ध्वजित् ककुद् (४) एभ्योऽपश्चमवर्गान्तत्वात्प्राप्ते, ज्योतिष्मती महिष्मान् गोमती कान्तिमती शिम्बिमती हरिमती ( वासमती इक्षु
"
ती ? ) चारुमती बन्धुमती मधुमती बिन्दुमती इन्दुमती द्रुमती वसुमती अंशुमती श्रुमती हनूमान् सानुमती भानुमती ॥ १८ ॥ एभ्यो “नान्नि” ( २।४।१२ ) इति प्राप्ते प्रतिषेधः । ऊर्यादय एकत्रिंशत् । बहुवचनमाकृतिगणार्थम्, तेन सति निमित्ते यस्य मतोर्वत्वं न दृश्यते स ऊर्म्यादिषु द्रष्टव्यः । २५ उदन्वान् जलाधारे चेति; अत्र सूत्रम् - "उदन्वानब्धौ च " ( २।१।९७) । आपो धीयन्तेऽस्मिन्निति अब्धिः । अन्धौ नाम्नि चायं निपातः । उदन्वान् घटो मेघः - यत्रोदकं धीयते स एवमुच्यते । उद् न्वान् समुद्रः । उदन्वान् ऋषिर्यस्य औदन्वतः पुत्रः । उदन्वान् आश्रमः, अन्यत्र उदकवान् घटः । अत्र घटस्य उदकसम्बन्धमात्रं विवक्षितं न दधातीत्यर्थः ॥ ११६ ॥
२९
वन्ति चक्राणीति । अत्र हि नज्तःपुरुषेण चक्रेष्वरकाभावः सामान्येनोच्यते । मत्वर्थीयेन त्वत्यन्तं मूलतोऽप्यरकाभाव इति यावत् । तथा यद्यप्यसंज्ञाभूतात्कर्मधारयान्मत्वर्थीयो न भवतीत्युक्तम्, तथापि प्रायेण दृश्यते यथा बिस किसलयच्छेदपाथेयवन्त इति । अत्र हि बिस किसलयच्छेदाच ते पाथेयं चेति कर्म्मधारये सति मतुरिति वल्लभेन निश्चिये ॥
है० प्रका० पूर्वा० ५७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org