________________
४५०
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
राजन्वान् सुराज्ञि ॥ ११७ ॥ [ सि० २।१।९८ ] सुराजकेऽर्थे राजन्वान् । *संज्ञायां चिर्मण्वत्यादयश्च साधवः । “नावादेरिकः” (७।२।३) नाविकः। 5 मत्वन्तं च रूपं सर्वत्राधिकारादनुवर्तनीयम् । नौमान् । “शिखादिभ्य इन्" (७२।४)। शिखी, माली । “व्रीह्यादिभ्यस्तो” (७२।५)। व्रीहिकः, बीही ॥ ११७ ॥ ५ "राज.” सुराजकेऽर्थे इति; शोभनो राजा यस्य तस्मिन्नभिधेये इत्यर्थः । राजन्वती पृथ्वी । राजन्वत्यः प्रजाः । अन्यत्र राजवान् देशः ॥ *संज्ञायामिति-"नानि" (२।१।९५) । संज्ञायां विषये मतोर्मकारस्य वकारः स्यात् । अहीवती कपीवती मणीवती मुनीवती ऋषीवती एता नद्यः "नद्यां मतुः” ( ६।२।७२) इति चातुरर्थिको मतुः । आसन्दीवान् ग्रामः ॥ चिर्मण्वत्यादयश्चेति. "चर्म
ण्वत्यष्ठीवत्चक्रीवत्कक्षीवद्रुमण्वत्" (२।१।९६) इति सूत्रम्-अत्र चर्मन्शब्दस्य मतौ १० चर्मण्वती नाम नदी-अत्र नलोपाभावो णत्वं च निपातनात् । एवमन्यत्रापि ज्ञेयम् ॥ अस्थिशब्दस्य
अष्ठीभावः अष्ठीवान जङ्घोरुसन्धिः । चक्रशब्दस्य चक्रीवान खरः । कक्ष्या [ कक्षे भवा कक्षाय हिता वा कक्षे साधुर्वा 'दिगादिदेहाशाद्यः' इत्यादिभिर्ये कक्ष्या ब्रह्मणः सादृश्यमुद्योगश्चेत्यर्थः ] शब्दस्य कक्षीवानाम ऋषिः । लवणशब्दस्य रुमण्भावः रुमण्वान् नाम पर्वतः । अन्ये तु रुमन्निति प्रकृत्यन्तरं
मन्यन्ते । “नावा०” नौरस्यास्मिन् वाऽस्तीति नाविकः, नौमान् । कुमारिकः कुमारीमान् । यव१५खदिकः यवखदावान् । नौकुमारीभ्यामिनं केचिदाहुः-नावी कुमारी । नौ, कुमारी, यवखदा, सभा
करण, इति नावादयः षट् (?)॥ ॥ मत्वन्तं चेत्यादि, अत्र सूत्रम्-"आयात्' (७।२।२) “गुणादिभ्यो यः” (७।२।५३) "रूपात्प्रशस्ताहतात्” (७।२।५४) इत्येतद्यप्रत्ययावधि याः प्रकृतयो निर्देक्ष्यन्ते ताभ्यो मतुः स्याद्यथोक्तार्थे । आयादित्यभिविधावाङ् । अपवादैर्बाधो मा भूदिति वचनम् ,
तेन यथाभिधानमुत्तरत्र मतुरपि भवति । "शिखा.” शिखा, शाला, माला, मेखला, शाखा, २० वीणा, संज्ञा, वडवा, अष्टका, बलाका, १० पताका, कर्मन् , वर्मन्, चर्मन् , बल, उत्साह, उदास, उद्भास, उल, मुल, २० मूल, आयाम, व्यायाम, प्रयाम, आरोह, अवरोह, परिणाह, शृङ्ग, वृन्द, गदा, ३० निचुल, मुकुल, कुल (कूल ? ) फल, अल, मान, मनीषा, व्रत, धन्वन् , चूडा, ४० केका, दंष्ट्रा, सूना, घृणा, करुणा, जरा, आयास, स्तबक, उपयाम, उद्यम, ५० । इति शिखादयः
पश्चाशत् । बहुवचनादाकृतिगणः। केचित्तु वडवा अष्टका कर्मन् वर्मन् चर्मन् इत्येतेभ्य इकम२५पीच्छन्ति । "व्रीया.” तौ इति-इकेनौ इत्यर्थः । ब्रीहयोऽस्यास्मिन्वा सन्ति-व्रीहिकः, व्रीही व्रीहिमान् । मायिकः मायी मायावान् मायावी । ब्रीह्यादयः प्रयोगगम्याः ॥ ११७ ।।
अतोऽनेकखरात् ॥ ११८ ॥ [ सि० ७।२६] अदन्तादनेकखरादिकेनौ स्याताम् । धनिकः धनी । *इलेनाण्णशनरादयो यथायोगं मत्वर्थे वाच्या:-तुन्दिलः फेनिलः शृङ्गिणः ज्योत्स्नी प्राज्ञः श्राद्धः लोमशः पामनः मधुरम् ३० मरुत्तः॥११८॥
ते ह्यनयोः शिखादौ पाठमिच्छन्ति । २ खदनं भिदाद्यल् यवानां खदा यवखदा यवाभ्योषः । ३ आकुमारीमानित्यादिप्रयोगेषु यथाक्रमं 'नावादेरिकः' व्रीह्यादिभ्यस्तो 'अतोऽनेक वरात्' 'अशिरसोऽशीर्षश्च' 'बलवातदन्तललाटादूलः' 'प्राण्यङ्गादातोलः' 'सिध्मादिक्षुद्रजन्तुरुग्भ्यः' 'गोः' 'गुणादिभ्यो यः' इत्यादि सूत्र विहितप्रत्ययविषये पक्षे आयादित्यनेन मतुर्विधीयते । ४ 'कालाज्जटा'-इत्यादिभिः कैश्चित्सूत्रैरर्थविशेषे प्रत्ययोऽभिहितः, स च मतुना न गम्यते इति तदर्थप्रतिपादनाय तत्सूत्रविहित एव प्रत्ययो भवति न तु मतुरित्याशयः । ५ ते ह्येतान् ब्रीह्यादौ पठन्ति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org