________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे तद्धिताः । मत्वर्थीयाः
४५१ "अतो." धनिकः धनी (धनवान् ) । एवं दण्डिकः दण्डी ( दण्डवान् ) । छत्रिकः छत्री (छत्रवान् ) । अत इति किम् ? खट्वावान् मालावान् । अनेकस्वरादिति किम् ? खवान् । स्ववान् । अभिधानार्थस्येति शब्दस्यानुवृत्तेः कृदन्तादिकेनौ न भवतः-राप्यवान् हव्यवान् । एवं लाप्य, लव्य, कृत्य, भृत्य, कारक, हारक, कुम्भकार, धान्य, माय, हिंस्र, ईश्वर, पाक, स्नेह एभ्यो मतुरेव नत्विकेनौ । कार्य, हार्य, गृह, दात्र, पात्र, भोग, तर, विजय, संयम, स्थान; एभ्यो भवतः-कार्यिकः कार्यात्यादि ।५ व्याघ्र, सिंह, वृक्ष, प्लक्ष, द्रव्य, क्रव्य, सस्य, धान्य, माल्य, पुण्य, सत्य, अपत्य, धन इत्यादिजातिशब्देभ्यो मतुरेव; नत्विकेनौ । व्याघ्रवानित्यादि ॥ कचिद्भवतः-तण्डुलिकः तण्डुली, कर्पटिकः कर्पटी ॥ धनादुत्तमणे भवतः-धनिकः धनी । सप्तम्यर्थे न भवतः-दण्डोऽस्मिन्नस्ति दण्डवद्गृहम् , वीरवान् ग्राम इति मतुरेव । कचिद्भवतः-खलिनी शाद्वलिनी भूमिः । रसरूपगन्धस्पर्शशब्दस्नेहेभ्यो गुणवाचिभ्यो न भवतः । कचिद्भवतः-रसिको नटः, रसी इक्षुः । रूपिको दारकः, रूपिणी स्त्री १० [रूपिष्ववधेः । लैपिसमवायाचाक्षुषाणि ] । स्पर्शिको वायुः, गन्धिकः, गन्धी । तत्सर्वं शिष्टप्रयोगानुसरणार्थेन इतिशब्देन सिद्धम् ॥
अत्रायं विशेष:-"अशिरसोऽशीर्षश्च" (७।२।७) । अस्मादिकेनौ मतुश्च स्युस्तत्सन्नियोगेऽस्यायमादेशश्च स्यात् । अशीर्षिक: अशीर्षी अशीर्षवान् । इकेनोः "शीर्षः स्वरे तद्धिते" ( ३।२।१०३) इति शीर्षादेशो विद्यते एव, मतो त्वशिरसोऽशीर्षादेशोऽनेन विधीयते ॥ "अर्थार्थान्ताद्भावात्" १५ (७।२।८)। भाववाचिनोऽर्थशब्दादर्थान्ताच शब्दान्मत्वर्थे इकेनौ स्याताम् । नियमार्थमिदम् , उभयथा चायं नियमो वाक्यभेदेन क्रियते-भाववाचिन एवेतौ, भाववाचिनश्चैतावेवेति । 'अर्थणि उपयाचने' अर्थनमर्थः सोऽस्यास्तीत्यर्थिकः; अर्थी; याचकः । प्रतीपमर्थनं प्रत्यर्थः, सोऽस्यास्तीति प्रत्यर्थिकः, प्रत्यर्थी । इकेनावेवेति नियमादतो मतुर्न स्यात् । भावादेवेति नियमाव्यवाचिनोऽस्मान्मतुरेव नैतौ । अर्थो हिरण्यादिरस्तीत्यर्थवान् ।
अथाल्पमतिशिष्यानुग्रहाय मत्वर्थीयप्रत्ययान् फक्किकया सङ्ग्रहाति-*इलेत्यादि-इलश्च इनश्च अण् च णश्च शश्च नश्च रश्च इलेनाण्णशनरमादिर्येषां ते इलेनाण्णशनरादय इति । अत्र द्वन्द्वान्ते श्रूयमाणः शब्दः प्रत्येकमभिसम्बध्यते इति न्यायादादिशब्दः प्रत्येकं योज्यते इलादय इनादय इत्यादि । तत्र इलप्रत्यये सूत्रपद्धतिरेवम्-"व्रीह्यर्थतुन्दादेरिलश्च" (७।२।९) । मत्वर्थे इति सर्वत्र ज्ञेयम् । मतुश्च सर्वत्र ज्ञेयः ॥ अत्र चकारादिकेनौ । वीयर्थ. कलमिलः कलमिकः कलमी कलमवान् । शालिलः २५ शालिकः शाली शालिमान् । व्रीहिशब्दस्य ब्रीह्यर्थत्वेऽपि पूर्वत्रोपादानादिलो न स्यात्, अन्यथा तत्रोपादानमनर्थकं स्यात् । स्यादित्येके । व्रीहिलः । तुन्दादि. तुन्दिलः तुन्दिकः तुन्दी तुन्दवान् । तुन्द उदर पिचण्ड यव ग्रह पङ्क गुहा कला काक इति तुन्दादयो नव । मूले तु तुन्दिल इत्युदाहरणं दिग्मात्रमेवमन्यत्रापि सर्वत्र ज्ञेयम् ॥ "स्वाङ्गाद्विवृद्धात्ते” (७।२।१०)। ते इति अनन्तरोक्ता इल-इक-इन्प्रत्यया मतुश्च स्युः । विवृद्धौ महान्तौ कर्णावस्य स्तः–कर्णिलः कर्णिकः कर्णी कर्णवान् । ओष्ठिलः ३० ओष्ठिकः ओष्ठी ओष्ठवान् । विवृद्धादिति किम् ? अन्यत्रेलो न स्यादतोऽनेकस्वरादितीकेन्मतव एव स्युः॥ "वृन्दादारकः” (७।२।११) । वृन्दारकः वृन्दवान् । शिखादित्वाद्वृन्दी ॥ "शृङ्गात्” (७।२।१२) । ३२
२०
१ अत्र खामित्वाविवक्षणात् 'खामिन्नीशे' इति न मिन् । २ यदा तु कस्यचिद्रूपं रस इत्यादि नाम भवति तदा भवत्येव । ३ सङ्ख्यापरिमाणानि पृथक्वं संयोगविभागौ कर्म च रूपिसमवायाच्चाक्षुषाणीति । ४ व्रीह्यादिभ्यस्तावित्यत्र । ननु तर्हि अर्थग्रहणाभावेऽपि वीहिशब्दोपादानेऽपि त्रीह्यर्थग्रहणे लब्धे किमर्थग्रहणेन । न । प्रतिपत्तिगौरवनिरासार्थवादर्थग्रहणस्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org