________________
४५२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुतथा । शृङ्गारका, शृङ्गवान् । शिखादित्वात् शृङ्गी ॥ इनेति. "फलबहोचेनः" (७२।१३)। फलबर्हाभ्यां शृङ्गाच्च इनः स्यात् । फलिनः फलवान् , एवं बर्हिणः २ । शृङ्गिणः २ । शिखादित्वात् फली बहीं ॥ आदिशब्दात् “मलादीमसश्च" (७।२।१४)। चकारादिनोऽपि । मलीमसः मलिनः मलवान् ॥ अणिति. "ज्योत्स्लादिभ्योऽ" (७।२।३४)। ज्योत्स्ना अस्मिन्नस्ति ज्योत्स्नः पक्षः । ५ज्योत्स्नी रात्रिः । तामिस्राणि गुहामुखानि । वैसप्पो व्याधिः । वैपादिकं कुष्ठम् । कौतुपं गृहम् । कौण्डलो युवा । तापसः पाखण्डी । साहस्रो देवदत्तः । मतौ ज्योत्स्नावानित्यादि । तापस इति रूढिशब्दो रूढिविषये च मतुर्न स्यात् । कुण्डली सहस्री चेति शिखादित्वात् । ज्योत्स्नादयः प्रयोगगम्याः॥ "सिकताशर्करात्” (७।२।३५)। आभ्यामण मतुश्च । सैकतः सिकतावान् । शार्करः २ ॥
"इलश्च देशे” (७।२।३६) । चकारादण् मतुश्च । सिकतिलः सैकतः सिकतावान् देशः । शर्करिलः १० शार्करः २ देशः। सिकता शर्करा देश इत्यभेदोपचारात् ॥ आदिशब्दात् “धुद्रोम:” (७।२।३७)।
| इति दिवः कृतोकारस्य निर्देशः । द्रुशब्द उकारान्तोऽहःपर्यायः प्रकृत्यन्तरं वा । आभ्यां मः स्यात् । द्यौर्युर्वाऽस्यास्मिन्वास्तीति गुमः । ब्रूणि दारूण्यस्यास्मिन्वा सन्तीति द्रुमः । अनयो रूढिशब्दत्वान्मतुर्न स्यात् , अन्यत्र मतुरेव-द्युमान दुमान् ॥ "काण्डाण्डभाण्डादीरः” (७।२।३८)। काण्डीरः २ ।
आण्डीरः २ । भाण्डीरः २ । आण्डौ मुष्कौ ॥ णश्चेति-"प्रज्ञाश्रद्धा वृत्तेर्णः” (७२।३३)। १५प्राज्ञः प्रज्ञावान् , स्त्री तु प्राज्ञा । श्राद्धा, आर्चा, वार्ता । प्राज्ञीति तु स्वार्थिकाणन्तात् ङीः ॥ शेति
"लोमपिच्छादेः शेलम्" (७।२।२८) । लोमादिभ्यः पिच्छादिभ्यश्च यथासङ्ख्यं श-इल इत्येतौ स्याताम् । लोमशः २ । पिच्छिलः २ । उरसिलः २ । लोमन् , रोमन्, बभ्रु, वल्गु, हरि, कपि, मुनि, गिरि, ऊरु, कर्क, इति लोमादयो दश ॥ पिच्छ, उरस्, धुवका, ध्रुवका, पक्ष, चूर्ण । इति पिच्छादयः षट् ॥ नेति-"नोऽङ्गादेः” (७।२।२९) । अङ्गान्यस्याः सन्तीत्यङ्गना, रूढि२० शब्दोऽयम् ; कल्याणाङ्गी स्त्री उच्यते । अन्यत्र अङ्गवती ॥ अङ्ग, पामन् , वामन् , हेमन् , श्लेष्मन् ,
सामन् , वर्मन् , शाकिन् , पलालिन् , पलाशिन् , ऊष्मन् , कद्रु, बलि, इत्यङ्गादयस्त्रयोदश ।। योगविभाग उत्तरार्थः ॥ "शाकीपलालीदवा हखश्च” (७।२।३०)। एभ्यो नस्तत्सन्नियोगे चैषां ह्रस्खोऽन्तादेशः । महच्छाकम् शाकसमूहो वा शाकी । महत्पलालं पलालक्षोदो वा पलाली । दईमान दर्दू नाम व्याधिः । शाकिनः शाकीमान । पलालिनः पलालीमान् । दर्दूणः दर्दूमान् । केचित्तु शाकीप२५ लाल्योर्हस्वत्वं नेच्छन्ति-शाकीनः पलालीनः ॥ "विष्वचो विषुश्च” (७।२।३१) । अस्मात् नः,
अस्य च विषु इत्ययमादेशः स्यात् । विषु अश्वतीति विश्वग् । विष्वञ्चो रश्मयो विष्वग्नतानि वास्य सन्तीति विषुणः सूर्यो वायुर्वा । विषुशब्दो निपातो नानात्वे, वर्त्तते । विष्वगित्यखण्डमव्ययं वा । मकारसन्नियोगे आदेशविधानान्मतौ विष्वग्वानिति । विषुमानहोरात्रविभागं इति तु विषुर्नाम मुहूर्तस्तस्मा
द्भवति । रेति-"मध्वादिभ्यो रः” (७।२।२६)। मधुरो रसः । अत्र मधुशब्दः स्वादुत्वे गुणत्वे ३० गुणसामान्ये वर्तते । मधुरं मधु । मधुरं क्षीरमत्र गुणे क्षौद्रादिद्रव्यवृत्तेस्तु मतुरेव । इतिशब्दानुवृत्तेः
मधुमान् घट इति । एवं खं महत्कण्ठविवरमस्यास्तीति खरः गर्दभः, अन्यः खवान् । एवं सर्वत्रापि । मुखं सर्वस्मिन् वक्तव्येऽस्यास्तीति मुखरो वाचालः । कुझावस्य स्तः कुञ्जरो हस्ती, कुञ्जशब्दोऽत्र हनु. पर्यायः । नगरं पुरम् । अपरं क्षेत्रम् । मुष्करः पशुः । शुषिरं शुषिमत्काष्ठम् । कण्डूरः कण्डूमान् । पाण्डुरः पाण्डुमान् । पांशुरः पांशुमान् । मध्वादयः प्रयोगगम्याः ॥ आदिशब्दात् “कृष्यादिभ्यो
बलच्” (७।२।२७) । कृषीबलः कुटुम्बी, कृषिक्षेत्रम् । आसुतीबलः, कल्पबलः, आसुतिमान् । ३६परिषद्बलः २ । पर्षद्बलः । परिषदलं तीर्थं पङ्किलमित्यर्थः । परिषद्वत् रजस्वला स्त्री । रजस्वान ग्रामः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org