________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे तद्धिताः । मत्वर्थीयाः
४५३
केचित्तु रजखलो देशः, रजस्वला भूमिः, रजखान्, रजखतीति सर्वत्राविशेषेण वृत्तिमिच्छन्ति । दन्ताबलो नाम राजा हस्ती च । शिखाबलं नगरम् । शिखाबलो मयूरः । शिखाबला स्थूणा । दन्तवान् शिखायानन्यः । पितृबलः पितृमान् । एवं मातृबलः, भ्रातृबलः, उत्साहबलः, पुत्रबलः, उत्सङ्गबलः ॥ “बलच्यपित्रादेः” ( ३।२।८२ ) । बलच्प्रत्यये पित्रादिवर्जितानां स्वरान्तानां दीर्घः स्यात् । आसुतिः : सुरा, सा अस्यास्तीत्यासूतीबलः । अपित्रादेरिति - पित्रादयश्चत्वारः । पितृबल इत्यादि । चकारः ५ किम् ? उत्तरपदे मा भूत् - कायबलं नागबलम् । प्रत्ययाप्रत्यययोरिति न्यायस्त्वनित्यत्वान्नोपतिष्ठते । कृष्यादयः प्रयोगगम्याः || मिरुत्त इति - अथात्र सूत्रम् "मरुत्पर्वणस्तः " ( ७१२।१५ ) इति । मरुत्तः पर्वतः । मतौ मरुत्वान् पर्ववान् ॥ ११८ ॥
ननु मरुत्वानित्यत्र “घुटस्तृतीयः " ( २।१।७६ ) इति तस्य दत्वं कुतो न स्यादित्यत आहनस्तं मत्वर्थे ॥ ११९ ॥ [ सि० १।१।२३]
1
सान्तं तान्तं च नाम मत्वर्थे परे पदं न स्यात् । मरुत्वान् । " बलवातदन्तललाटादूलः” (७|२|१९)। बलूलः ।। "प्राण्यङ्गादातो लः” (७।२।२० ) । चूडालः || “सिध्मादिक्षुद्रजन्तुरुग्भ्यः” (७।२।२१) । अपि । सिध्मलः । यूकालः । मूर्च्छालः ॥ "प्रज्ञापर्णोदकफेनालेलौ” (७।२।२२ ) । प्रज्ञालः प्रज्ञिलः ॥ " बाच आलाटयै” (७|२|२४) । क्षेपे । वाचाल : वाचाटः || "ग्मिन्” (७/२/२५ ) । वाचः । वाग्मी || "लक्ष्म्या अनः” (७|२| ३२ ) । १५ लक्ष्मणः ॥ “कच्छ्वा डुरः” (७|२|३९ ) कच्छुरः || "दन्तादुन्नतात् " ( ७|२|४० ) । उन्नता दन्ता अस्य सन्ति दन्तुरः ।। "कृपाहृदयादालुः” ( ७|२|४२ ) । कृपालुः ॥ ११९ ॥
१०
"नस्तं ०" सूत्रं स्पष्टम् । ततः पदत्वाभावान्नात्र तकारस्य दकारः । आदिशब्दोपादानात् "वलिवटितुण्डेर्भः” (७/२।१६ ) । वलिभ:; अङ्गादित्वान्ने वलिनः । वटिभः; तुण्डिभ:; सिध्मादित्वाल्ले तुण्डिलः (मतुश्च – वलिवान् ) प्रवृद्धा नाभिस्तुण्डि: । " ऊर्णाहंशुभमो युस्” (७।२।१७) । युस् - २० प्रत्यये पर ऊर्णादिशब्दस्य " नाम सिदय्० " ( १।१।२१ ) इति पदसंज्ञायां "अवर्णवर्णस्य" ( ७|४| ६८) इत्याकारलोपो न भवति तत्रापदस्येत्युक्तत्वात् ऊर्णायुः - उरभ्रः । अहंयु अहंकारी | शुभंयुः कल्या
बुद्धिः || "कंशंभ्यां यस्तियस्तुतवभम्” (७/२/१८) कंशंभ्यामेते सप्त प्रत्ययाः स्युः । कंयुः शंयुः, कन्तिः, शन्तिः, कंयः शंयः, कन्तुः शन्तुः, कन्तः शन्तः, कंवः शंवः, कम्भः शम्भः, युस् यसो सकारो “नामसिदय्व्यञ्जने” (१।१।२१ ) इति पदत्वार्थस्तेन "तौ मुमौ व्यञ्जने स्वौ” ( १।३।१४ ) २५ इत्यनुस्वारानुनासिकौ सिद्धौ - कंयुः कॅथ्युः । अथ बालोपकाराय प्रसिद्धप्रयोगापवादकानि कतिचित् सूत्राणि साक्षान्निर्द्दिशति ॥ " बल० " सूत्रं स्पष्टम् || प्राण्यं० । आकारान्तात्प्राण्यङ्गवाचिनो लः स्यात् । 1 चूडाल इति । एवं जङ्घालः शिखालः । प्राण्यङ्गादिति किम् ? शिखावान् प्रदीपः । अङ्गग्रहणं किम् ? इच्छावान् । कर्णिकाल इत्यत्र कर्णिकाशब्द: प्राण्यङ्गस्यैव वाचक इत्याहु: [ न तु कर्णाभरणस्येत्यर्थः ] । “सिध्मा०" सिध्मादेर्गणात् क्षुद्रजन्तुवाचिभ्यो रुग्वाचिभ्यश्च लः स्यात् । सिध्मानि ३० त्वकुष्ठाण्यस्य सन्ति सिध्मलः । एवं वर्ष्मलः अङ्गादित्वान्ने वर्ष्मनः । पाणधमनीशब्दौ दीर्घान्ताव पठ्येते- पार्णीलः धमनीलः । ह्रस्वान्ताभ्यां तु मतुरेव पाणिमान् धमनिमान् । यूकाल इति - एवं मक्षिकालः । आ नकुलात् क्षुद्रजन्तुः । रुग्भ्य इति बहुवचनं स्वरूपनिषेधार्थम् - मूर्च्छाल इति, एवं विचर्चिकालः । सिध्म वर्ष्मन् गड्डु तुण्डि मणि नाभि बीज निष्पाद निष्पद् निष्प ॥ १० ॥ पांशु हनु ३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org