________________
४५४
महामहोपाध्याय श्रीविनयविजयगणिविरचिते खोपज्ञहै मलधु
I
पर्शु पार्णी धमनी सक्त मांस पत्र वात पित्त ॥ २० ॥ श्लेष्मन् पार्श्व कर्ण सक्थि स्नेह शीत कृष्ण श्याम पिङ्ग पक्ष्मन् ॥ ३० ॥ पृथु मृदु मञ्जु वटु कण्डू || ३५ ॥ इति सिध्मादयः पञ्चत्रिंशत् । कथं वत्सलः स्नेहवान् अंसलो बलवान् ? नात्र कश्चित् वत्साद्यर्थोऽस्तीति पेशलकुशलादिवदेतौ व्युत्पादनीयौ, सिध्मादिषु वा पठनीयौ । “प्रज्ञा० " ( ७।२।२२ ) सूत्रं स्पष्टम् । " वाचः " ग्मिनोऽपवादोऽयम्, ५ क्षेपे इति यो निस्सारं बहु भाषते स एवं क्षिप्यते । मतुना क्षेपो न गम्यते इति क्षेपे मतुर्न भवति ॥ एवं "कालाजटाघाटात् क्षेपे" ( ७१२।२३ ) । लेलौ स्याताम् । कालाल : कालिल : इमं डोपान्त्यं केचित्पठन्ति-काडालः काडिलः । जटालः जटिलः । घाटालः घाटिलः । क्षेमे मतुर्न स्यात् - अन्यत्र कालावान् || "रिमन्" गकारः “प्रत्यये च" ( १।३।२ ) इत्यनुनासिकनिवृत्त्यर्थः ॥ "लक्ष्म्या ०" “अवर्णेवर्णस्य” ( ७|४|६८ ) इतीकारलोपे लक्ष्मणः । मतौ लक्ष्मीवान् । " कच्छ्रवा०" १०‘दन्ता०” सूत्रद्वयं स्पष्टम् || "कृपा ०" । विकल्पानुवृत्त्या कृपालुः कृपावान् । हृदयालुः हृदयिकः हृदयी हृदयवान् | आदिशब्दात् " केशादू: " ( ७।२।४३ ) । केशवः केशिकः केशी केशवान् । केशव इति रूढिशब्दोऽपि विष्णुवाची । मण्यादिभ्यः " ( ७।२।४४ ) । एभ्यो वः स्यात् । योगविभागाद्वेति निवृत्तम् । मणिवः मणिमान्; सिध्मादिपाठान्मणिलः । हिरण्यवः हिरण्यवान् बिम्बावम्, कुररावम्, कुरबावम्, “धव्युपसर्गस्य बहुलम् ” ( ३।२।८६ ) इति बाहुलकाद् दीर्घः । राजीवं इष्ट१५ कावम्, गाण्डिवम्, (गाण्डीवम् ), अजकावम्, बिम्बावमित्यादयो रूढिशब्दास्तत्र मतुर्न स्यात् । अन्यत्र तु स्यादेव - बिम्बवानित्यादि । मणि, हिरण्य, बिम्ब, कुरर, कुरव, राजी, इष्टका, गाण्डि, गाण्डी, अजका, इति मण्यादयः प्रयोगगम्याः ॥ ११९ ॥
२५
एभ्यो मत्वर्थे अः स्यात् । अभ्रं नभः । अर्शसो मैत्रः ॥
२०
"अभ्रा० । अभ्राण्यस्मिन्सन्ति अभ्रं नभः अर्शास्यस्य सन्ति अर्शसो मैत्रः । एवमुरसः उरस्वान् । अभ्र अर्शस् उरस् उरभ्र ( ? ) तुन्द चतुर पलित जटा घाटा कर्द्दम ॥ १० ॥ काम वेला (बल ?) घटा आम्ल लवण ॥ १५ ॥ इत्य भ्रादयः पञ्चदश । बहुवचनादाकृतिगणः ॥ आदिशब्दात् "हीनात्स्वाङ्गादः" ( ७।२।४५ ) । खण्डः कर्णोऽस्यास्ति कर्णः । छिन्ना नासिकास्यास्ति नासिकः । हीनादिति किम् ? अन्यत्र कर्णवानित्याद्येव स्यात् ॥ १२० ॥
अभ्रादिभ्यः ॥ १२० ॥ [ सि० ७२ ४६ ]
१२० ॥
י
अस्तपोमायामेधास्रजो विन् ॥ १२१ ॥ [ सि० ७ २४७ ]
असन्तात्तपः प्रभृतिभ्यश्च विन् स्यात् । वर्चस्वी, तपस्वी । मायावी, व्रीह्यादित्वान्मायिकः, मायी । मेधावी । "मेधारथान्नवेरः” (७|२|४१ ) । मेधिरः रथिरः रथिकः ।। स्रग्वी ।। १२१ ॥
“अस्०” असन्तत्वेनैव सिद्धे तपसो ग्रहणं ज्योत्स्नाद्यणा बाधो मा भूदित्यर्थम् । " मेधा०" । आभ्यामिरः स्यात् । नवेत्युक्तेर्यथाप्राप्तमिकेनौ मतुश्च । मेधिरः मेधावान् । विन्नपि मेधावी । रथिरः ३० रथिकः रथी रथवान् । स्रग्वी स्रग्वान् ॥ १२१ ॥
Jain Education International
१ यथा पेशं लाति कुशं लाति इत्येवमनयोर्व्युत्पत्तिरेवं वत्सलांसलयोरपि । औणादिको वा मनोज्ञमेधाविवाचिनौ । २ न केवलं यस्य केशाः सन्ति स केशवः, किन्तु विष्णुरपि ।
For Personal & Private Use Only
www.jainelibrary.org