________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । मत्वर्थीयाः
आमयादीर्घश्च ॥ १२२ ॥ [ सि० ७॥२॥४८] अस्माद्विन्प्रत्ययः स्यात् , दीर्घश्वास्य । आमयावी ॥ "खान्मिन्नीशे” (७।२।४९)। दीर्घश्च । खामी । “गोः” (७१२।५०)। गोमी । "ऊर्जा विन्वलावर चान्तः” ( ७।२।५१ )। ऊर्जस्वी ऊर्जखलः ऊर्वान् ॥ १२२ ॥ ___ "आम०"। सूत्रं स्पष्टम् । “स्वा०" ईशे इति ईशे वाच्ये । स्वमस्यास्तीति स्वामी, अन्यस्तु स्ववान् ॥५ "गो"। अस्मात् मिन् स्यात् । तथा च कोष:-"गोमान् गोमी गवीश्वरे' । पूज्य एव मिनमिच्छन्यन्ये । “ऊर्जा.” ऊशब्दात् विन्-वल इत्येतौ स्याताम् , तत्सन्नियोगे चास्य अस् अन्तो भवति । ऊर्जस्वी ऊर्जस्वलः, मतुश्च ऊर्गवान् । ऊर्जखानिति तु ऊर्जयतेरऽस्प्रत्ययान्तस्य मतौ रूपम् । आदिशब्दात् "तमिस्रार्णवज्योत्लाः ” (७।२।१२) । एते निपात्याः । तमस्शब्दात् रः, उपान्त्यस्येत्वं च-तमोऽत्रास्ति तमिस्रा रात्रिः । तमिस्रं तमःसमूहः । तमिस्रा गुहा । अर्णसो वः, अन्त्य-१० लोपश्च-अर्णवः समुद्रः । ज्योतिस्शब्दात् नप्रत्यय उपान्त्यलोपश्व-ज्योत्स्ना चन्द्रप्रभा, अन्यत्र ज्योतिष्मती रात्रिः, निपातनस्येष्टविषयत्वात् ॥ "गुणादिभ्यो यः” (७।२।५३) । गुण्यः पुमान् , हिम्यः पर्वतः; मतौ गुणवान् हिमवानिति । गुणीति तु शिखादित्वात् । गुणादयः प्रयोगगम्याः ।। "रूपात्प्रशस्ताहतात्” (७।२।५४) । प्रशस्तोपाधिकादाहतोपाधिकाच रूपात् यः स्यात् । प्रशस्तं रूपमस्यास्ति रूप्यो गौः । आहतं रूपमस्यास्ति रूप्यः कार्षापणः । निघातिकाताडनादीनारादिषु १५ यद्रूपमुत्पद्यते तदाहतं रूप्यम्, अन्यत्र रूपवान् । प्रशंसायां मतुरपि-रूपवती स्त्री । आहते तु न, इतिशब्दानुवृत्तेः रूपिणी कन्या । रूपिको दारकः इति व्रीह्यादित्वाद्भवति । आयादित्यस्य पूर्णोऽवधिः, अतः परं मतुर्नास्ति ॥ “पूर्णमासोऽ” (७।२।५५) । पूर्णमाःशब्दान्मत्वर्थेऽण् स्यात् । पूर्णो माश्चन्द्रोऽस्यामस्ति पौर्णमासी ॥ अतः समासान्मत्वर्थीयान् दर्शयति ॥ १२२ ॥
सर्वादेरिन् ॥ १२३ ॥ [ सि० ७॥२॥५९ ] सर्वादेरदन्तात्कर्मधारयादिन् स्यात् । सर्वधनी ॥ १२३ ॥
"सर्वा०" । सूत्रं स्पष्टम् । सर्वधनीति सर्वं धनं तदस्यास्ति सर्वधनी । एवं सर्वबीजी सर्वकेशी नटः । आदिशब्दाद् “गोपूर्वादत इकण्” (७।२।५६) । मत्वादीनामपवादः । गौशतिकः गौसहस्रिकः । अत इति किम् ? गोविंशतिमान् । केचित्तु गवादेरनकारान्तादपीच्छन्ति-गवां समूहो गोत्रा सा विद्य-२५ तेऽस्य गौत्रिकः । गावो वयांसि चास्य सन्ति गौवयसिकः ॥ "निष्कादेः शतसहस्रात्" (७।२।५७) । नैष्कशतिकः नैष्कसहस्रिकः । निष्कादेरिति किम् ? शती, सहस्री । आदिग्रहणात् सुवर्णनिष्कशतमस्यास्तीत्यत्र न भवति ॥ “एकादेः कर्मधारयात्” (७।२।५८)। इकण् । एको गौरेकगवः सोऽस्यास्त्यैकगविकः । ऐकशतिकः । ऐकसहस्रिकः ॥ कर्मधारयादिति किम् ? एकस्य गौरेकगवः सोऽस्यास्तीत्यत्र न भवेत । अत इत्येव-एकविंशतिरस्यास्तीत्यत्र न स्यात् । एकद्रव्यवत्त्वादिति ३० तु एकेन तु द्रव्यवत्त्वमिति समासे भवति [ ऊनार्थपूर्वाद्यैः” ( ३।१।६७) इत्यनेन ] ॥ “प्राणिस्थादखानाद्वन्द्वरुगनिन्द्यात्” (७।२।६०) । प्राणिस्थोऽस्वाङ्गवाची अकारान्तो यो द्वन्द्वः समासो ३२
१ यद्येवं ऊर्जयतेरसन्तस्यास्तपोमायेत्यनेन असन्तत्वाद्विन् सिद्ध एव, किमत्र सूत्रे ऊर्जशब्दाद्विविधानेन । सत्यम् । असन्तस्य ऊर्जयरोनियत एव प्रयोग इति ततोऽनेन विन्विधानम् , एतच ऊर्जशब्दाद्विन्विधानेनैव ज्ञाप्यते ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org