________________
४५६
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहै मलघु
यश्व रुग्वाची निन्द्यवाची च शब्दस्तस्मान्मत्वर्थे इन् स्यात् । "सर्वादेरिन्” इति सूत्रात् इन् अनुवर्त्तते । द्वन्द्व. कटकवलयिनी शङ्खनूपुरिणी । रुक्. कुष्ठी, किलासी । निन्द्य. ककुदावर्ती, काकतालुकी । प्राणिस्थादिति किम् ? पुष्पफलवान् वृक्षः । अस्वाङ्गादिति किम् ? स्तनकेशवती । अत इत्येव - चित्रकललाटिकावती । "अतोऽनेकस्वरात् " ( ७।२।६ ) इत्येव सिद्धे इकादिबाधनार्थं वचनम् ॥ १२३ ॥
वातातीसारपिशाचात् कश्चान्तः ॥ १२४ ॥ [ सि० ७२२६१]
एभ्यस्त्रिभ्य इन् कोऽन्तश्च । वातकी ॥ १२४ ॥ ॥ इति मत्वर्थीयाः ॥
“वाता०" । वातो रोगोऽस्यास्तीति वातकी । एवमतीसारकी पिशाचकी । वातातीसारयोः पूर्वे - णेन् सिद्ध एव कार्थं वचनम् । पिशाचस्य तूभयार्थम् ॥ " पूरणाद्वयसि ” ( ७/२/६२) । पूरणप्रत्ययान्ताद्वयसि गम्ये इनेव स्यात् । पञ्चमो मासः संवत्सरो वाऽस्यास्तीति पञ्चमी बालकः । दशमी करभः ॥ १० “सुखादेः” (७।२।६३) । एभ्यो मत्वर्थे इन्नेव स्यात् । सुखी । दुःखी ॥ सुख, दुःख, तृप्र, कृच्छ्र, अस्र, अलीक, कृपण, सोढ, प्रतीप, प्रणय, ( हस्त ? ) हल, अस्र, कक्ष, शील, इत्येके । सुखादयश्चतुर्दश ॥ १४ ॥ " मालायाः क्षेपे" ( ७२।६४ ) । इन्नेव । माली । क्षेप इति किम् ? मालावान् । मालाशब्दः शिखादिस्ततः क्षेपे मतुनिवृत्त्यर्थं वचनम् || “धर्मशीलवर्णान्तात्” ( ७।२।६५ ) । इन्नेव । मुनिधर्मी । यतिशीली । ब्राह्मणवर्णी । " बाहूर्वादेर्बलात् " ( ७७२।६६ ) । १५ बाहु - उरुपूर्वात् बलान्तात् इन्नेव । बाहुबली । उरुबली || " मन्माब्जादेर्नाम्नि” ( ७७२।६७ ) । मन्नन्तेभ्यो मान्तेभ्योऽब्जादिभ्यश्च मत्वर्थे इन्नेव स्यात्, नाम्नि । मन्नन्त दामिनी सामिनी प्रथिमिनी महिमिनी धर्मिणी कर्मिणी । मान्त प्रथमिनी भामिनी कामिनी यामिनी सोमिनी । अब्जादि. अब्जिनी, कमलिनी । अब्ज कमल सरोरुह सरोज अम्भोज राजीव अरविन्द पङ्कज पुटक नालीक मृणाल बिस ( तामरस) । यवास इत्यब्जादयस्त्रयोदश ॥ १३ ॥ " हस्तदन्तकराज्जाती" २० (७२।६८) । एभ्यो मत्वर्थे इन्नेव, जातौ वाच्यायाम् । हस्ती दन्ती करी । जाताविति किम् ? अन्यत्र हस्तवान् ॥ "वर्णाद्ब्रह्मचारिणि " ( ७/२/६९ ) । इन् । वर्णशब्दो ब्रह्मचर्यपर्यायः, सोऽस्यास्त वर्णी ब्रह्मचारीत्यर्थः । अन्ये तु वर्णशब्दो ब्राह्मणादिवर्णवचनः, तत्र ब्रह्मचारीत्यनेन शूद्रव्यवच्छेदः क्रियते इति मन्यन्ते । तेन त्रैवर्णिको वर्णीत्युच्यते । स हि विद्याग्रहणार्थमुपनीतो ब्रह्म चरति न शूद्र इति ॥ " पुष्करादेर्देशे ” ( ७७२|७० ) एभ्यो देशेऽभिधेये इन्नेव । पुष्करिणी । पद्म || २५ पद्म उत्पल तमाल कुमुद कैरव नल कपित्थ बिस मृणाल ॥ १० ॥ कर्दम शालूक विबर्ह करीष शिरीष यवास यवाप यव माष हिरण्य ॥ २० ॥ तट तरङ्ग कल्लोळ || २३ || इति पुष्करादयस्त्रयोविंशतिः ॥ कुमुद्वती सरसी । कुमुद्वान् हृदः । नवान् नवलमिति तु "नडकुमुद ( ६ | २|७४ ) इत्यादिना चातुरथिंकेन मतुना भवितव्यम् ॥ " सूक्तसानोरीयः” (७२|७१) । सूक्ते सामनि चाभिधेये मत्वर्थे ईयः स्यात् । मत्वादीनामपवादः । अच्छावाकू शब्दोऽत्र सूक्तेऽस्ति अच्छावाकीयम्, मैत्रावरुणीयम् । ३० सानि. यज्ञायज्ञीयम्, अशनापिपासीयम्, वारतन्तवीयम् साम । अस्यवामीयम्, कयानश्चित्रीयं सामेत्यादौ सूक्तसामस्थानामनुकार्याणामखण्डा एवास्य वामादयोऽनुकरणशब्दाः, नात्र विभक्तिरिति लुब् न भवति, अत एव प्रथमान्ततापि न विरुद्ध्यते । सूक्तसाम्नी ग्रन्थविशेषौ । " लुव्वाऽध्या३३ यानुवाके” ( ७|२|७२ ) । अध्याये अनुवाके चाभिधेये य ईयस्तस्य लुब्वा स्यात्, अत एव लुब्व
""
१ यत एवामी अखण्डा अनुकरणशब्दा अत एव तेनैवानुकार्येनार्थेनार्थवत्वान्नामले सति प्रथमान्तताप्यविरुद्धैवेत्यर्थः ।
For Personal & Private Use Only
५
Jain Education International
www.jainelibrary.org