________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे तद्धिताः । मत्व याद्याः
४५७ धनादध्यायानुवाकयोरीयोऽनुमीयते । एतावपि अन्यविशेषौ । गर्दभाण्डशब्दोऽस्मिन्नण्यायेऽनुवाके वास्ति इति गर्दभाण्डो गर्दभाण्डीयोऽध्यायोऽनुवाको वा । एवं दीर्घजीवितः दीर्घजीवितीयः । द्रुमपुष्पः दुमपुष्पीयः ॥ "विमुक्तादेरण्" (।२।७३) । अध्यायानुवाकयोाच्ययोः । विमुक्तशब्दोऽस्मिन्नऽध्यायेऽनुवाके वास्ति वैमुक्तः । विमुक्त देवासुर रक्षोसुर उपसद् उपसद परिसारक (सदसत् ?) वसु मरुत् सत्वत् सत्वन्तु ॥ १०॥ दशाई वयस् हविर्भान महिनी (अस्यहत्य ?) सोमापूषन इडा इला अमाविष्णू५ उर्वशी ॥२०॥ दशार्ण, वसुमन्तु पत्नीवन्तु बहवन्तु वृत्रहन् पतत्रिन् ॥ ३० ॥ सुपर्ण ।। ३१॥ इति विमुक्तादय एकत्रिंशत् ॥ "घोषदादेरकः” (७।२।७४) । तयोर्वाच्ययोः । घोषतूशब्दोऽस्मिन्नस्ति घोषदकः । घोषद् गोषद् इषेत्वा मातरिश्वन देवस्यत्वा पत्वा देवीराप कृष्णोस्य खरेष्टा ।। १० ॥ देविंधिया रक्षोहण अञ्जन प्रतूर्त उशान कशानु सहस्रशीर्षन्, वाचस्पति, वाहा, प्राण ॥ २० ॥ इति घोषादयो विंशतिः ॥ इति मत्वर्थीया इति ।। १२४ ॥ मत्वर्थीयप्रत्ययानां दिग्मात्रमिति दर्शितम् । तत्त्वप्रकाशिकादिभ्यो विशेषः शेष उह्यताम् ॥
अथ मयप्रत्ययं सझेपेण निर्दिशति । *प्राचुर्यप्राधान्यादिषु यथाई मयवाच्यः-अपूपमयं पर्व ॥"प्रकारे जातीयर" (७२।७५)। महाजातीयः॥"भूतपूर्वेप्चरद्” (७२।७८)। पूर्व भूतो भूतपूर्वः। भूतपूर्वा । आत्या आत्यचरी ॥ "निन्धे पाश" (७३।४)। छान्दसपाशा ॥ "प्रकृष्टे तम” (७३५)।१५ अयमेषां प्रकृष्टः शुक्ल: शुक्लतमः। ___ *प्राचुर्यप्राधान्येत्यादि, अत्रैवं सूत्रपद्धतिः-"प्रकृते मयट्" (७।३।१)। प्राचुर्येण प्राधान्येन वा कृतं प्रकृतम्, प्रकृतेऽर्थे वर्तमानान्नानः स्वार्थे मयट् स्यात् । अन्नं प्रकृतं अन्नमयम् घृतमयम् । टकारो ड्यर्थः । यवागूमयी । अतिवर्त्तन्तेऽपि स्वार्थिकाः प्रकृतिलिङ्गवचनानीति यवागूः प्रकृता यवागूमयम् एवमुत्तरत्रापि । अपूपाः प्रकृता आपूपिकम् अपूपमयम् ॥ “अस्मिन्" (७।३।२)। प्रकृतेऽर्थे वर्तमा-२० नानानोऽस्मिन्निति सप्तम्यर्थे मयट् स्यात् । अनं प्रकृतमस्मिन् अन्नमयं भोजनम् । अपूपमयं पर्व । वटकमयी यात्रा ॥ “तयोः समूहवच बहुषु” (७।३।३) । तयोरिति प्रकृते इति अस्मिन् इति चेति पूर्वोक्तयोर्द्वयोर्बहुषु वर्तमानान्नानः समूहवत्प्रत्ययो भवति, चकारान्मयट् स्यात् । अपूपाः प्रकृता अस्मिन् आपूपिकम् अपूपमयं पर्व, मौदकिकी मोदकमयी पूजा, "कवचिहस्त्यचित्ताचेकण्" (६।२।१४) । धेनुकम् धेनुमयम् “धेनोरनमः" (६।२।१५)। गणिकाः प्रकृता अस्यां यात्रायां २५ गाणिक्या गणिकामयी-"गणिकाया ण्यः" (६।२।१७) । अश्वीया अश्वमयी यात्रा "वाऽश्वादीयः" (६।२।१९) ॥ "प्रकारे०” तदस्येत्यनुवर्तते । प्रथमान्तात्षष्ठ्यर्थे जातीयर् स्यात् । यत्तत्प्रथमान्तं स चेत्प्रकारो भवति । सामान्यस्य भिद्यमानस्य यो विशेषो विशेषान्तरानुप्रवृत्तः स प्रकारः। पटुः प्रकारोऽस्य पटुजातीयः । नानाभूतः प्रकारोऽस्य नानाजातीयः । एवंप्रकारोऽस्य एवंजातीयः । अस्येति षष्ठ्यर्थे विधानात्प्रकारवति जातीयर् विज्ञायते । ततः प्रकारमात्रवाचिप्रथमान्तादपि जातीयर् भवति-३० यथाजातीयः कथंजातीयः । रित्करणं 'रिति'( ३।२।५८)इत्यत्र विशेषणार्थम् । महाजातीय इति महान् प्रकारोऽस्य "जातीयैकार्थेऽच्वेः" ( ३।२।७० ) इति डाप्रत्यये रूपसिद्धिः ॥ अत्रायं विशेषा-३२
१ इहानमयमित्यादिषु युक्तममादेर्नपुंसकलात् प्रत्ययस्यापि तत्रैव वृत्तिरिति । यवागूमयीति युक्कमेव प्रकृत्यर्थस्य स्त्रीत्वात प्रत्ययस्य खार्थिकस्य तत्रैव स्त्रियां वृत्तः, यवागूमयमिति खयुकम्-यवाग्वर्थस्य स्त्रीत्वात् खार्मिकस्य प्रत्ययस्यापि तत्रैव वृत्तेनपुंसकत्वायोगादित्याशा ।
___ है. प्रका० पूर्वा० ५८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org