________________
४५८
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु"कोण्यादे" (७।२।७६) । उक्तार्थे । जातीयरोऽपवादः । अणुः प्रकारोऽस्य अणुकः पटः एवं स्थूलकः पटः । अणुका माषाः; स्थूलका माषाः । माषकं हिरण्यम् । अणु स्थूल माष इषु इक्षु वाद्य तिल काल तिलकाल पत्र ॥ १० ॥ मूल (पत्रमूल, पर्णमूल ?) कुमारीपुत्र कुमारीश्वशुर मणि बृहत् चश्चत् इन्द्र (?) एरण्ड पुण्डू ॥ १९ ॥ इत्यऽण्वादय एकोनविंशतिः ॥ "जीर्णगोमूत्रावदातसुराय५वकृष्णाच्छाल्याच्छादनसुराहितीहितिले” (७।२।७७ ) । जीर्णादिभ्यः षड्भ्यो यथाक्रम शाल्यादि षड्त्सु वाच्येषु प्रकारे कः स्यात् । जीर्णः प्रकार एषां जीर्णकाः शालयः । गोमूत्रप्रकारं गोमूत्रकं गोमूत्रवर्णमाच्छादनम् । अवदातप्रकारा अवदातिका सुरा । सुराप्रकारः सुरावर्णः सुरकोऽहिः। यवप्रकारा यवका ब्रीहयः । कृष्णप्रकाराः कृष्णकास्तिलाः ॥ "भूत"। अतः परं प्रायः स्वार्थिका
प्रत्ययास्तत्रोपाधिः प्रकृतेर्विज्ञेयः स प्रत्ययस्य द्योत्यो भवति । टकारो ड्यर्थः । पकारः पुंवद्भावार्थ१० स्तथा चोदाहरति-आढ्यचरीति । भूतशब्दो वर्तमानेऽप्यस्ति, पूर्वशब्दो दिगादावपीति । अतिक्रान्तकालप्रतिपत्त्यर्थमुभयोरुपादानं । प्रत्यासत्तेः शब्दप्रवृत्तिनिमित्तस्य भूतपूर्वत्वेऽयं प्रत्यय इतीह न भवति. अर्जुनो माहिष्मत्यां भूतपूर्व इति । अत्रायं विशेष:-"गोष्ठादीनञ्” (७।२१७९) । उक्तार्थे । गोष्ठो भूतपूर्वो गोष्ठीनो देशः । “गोस्थानं गोष्ठमेतत्तु गोष्ठीनं भूतपूर्वकम्” इति कोषः । “षष्ठया रूप्य-चरट्” (७।२।८०)। षष्ठ्यन्ताद्भूतपूर्वेऽर्थे एतौ स्यावाम् । भूतपूर्व इतीह प्रत्ययार्थः । देवदत्तस्य भूतपूर्वो १५ देवदत्तरूप्यो गौः । देवदत्तचरः ॥ चरटित्यत्र पकारटकारौ पुंवद्भावङीप्रत्ययार्थी-देवदत्तचरी गौः ॥
"निन्द्ये." । स्वार्थे इति सर्वत्र ज्ञेयम् । निन्द्यः छान्दसः छान्दसपाशः । प्रत्यासत्तेः शब्दप्रवृत्तिनिमित्तकुत्सायामयमिष्यते, तेनेह न भवति–वैयाकरणश्चौरः, नह्यत्र चौर्येण वैयाकरणत्वं कुत्स्यते किं तर्हि शीलमिति । 'पकारः पुंवद्भावार्थः । कुत्सिता कुमारी कुमारपाशा । अथेह वयोवचनत्वात्पुनमः कस्मान्न भवति ? उच्यते-कुमारादयो हि वयोवचना न कुमारपाशादयः । निन्दावचना हि ते इति २० न भवति ॥ "प्रकृ०" । प्रकृष्टे इति प्रकर्षवत्यर्थे वर्तमानान्नाम्नस्तमप् स्यात् । प्रकर्षोऽतिशयः, स च गुणक्रिययोरेव न जातिद्रव्ययोः । शुक्लतम इति-सर्वे इमे शुक्ला अयमेषां प्रकृष्टः शुक्लतमः । एवं आढ्यतमः, कारकतमः । जातिद्रव्यवाचिभ्योऽपि गुणक्रियाप्रकर्षविवक्षायां स्यात् । गौरयं यः सुँसन्नहनः शकटं वहति-गोतमोऽयं यः सुलक्षणः शकटं सीरं च वहति । गोतमेयं या समां समां विजायते स्त्रीवत्सा च । ट्रॅव्यान्तरसमवायिना च प्रकृष्टेन गुणेन कृत्वा प्रकृष्टे द्रव्ये तद्वतः प्रत्ययो भवति ।
अतिशयेन सूक्ष्माणि वस्त्राण्यस्य सूक्ष्मवत्रतमः । प्रकर्षप्रत्ययान्ताच्च प्रकर्षस्यापि प्रकर्षविवक्षायां प्रत्ययः २६ स्यात् । यथा युधिष्ठिरः श्रेष्ठतमः कुरूणाम् । तरबन्तात्तु तरप न स्यादनभिधानात् । तथा यथा पूर्व
१ अर्थकथनमिदम्, वाक्यं तु गोमूत्रं प्रकारोऽस्येत्येवं कार्यम् । एवमेवदातप्रकारेत्यादिष्वपि ज्ञेयम् । २ तत्र तेषु खार्थिकप्रत्ययेषु प्रक्रान्तेषु उपाधिर्विशेषणं भूतपूर्वादिप्रकृतेरेव सकाशादवसीयते केवलं प्रत्ययेन द्योत्यते न तूच्यते । ३ अत्र हि नार्जुनत्वस्यार्जुनशब्दाभिधेयस्य भूतपूर्वत्वम् नहि अर्जुनो माहिष्मत्यामर्जुनखेन भूतपूर्व इत्यत्र विवक्षा, अपि तु राजत्वेनेत्यत्र न भवति । ४ प्रकृत्यर्थस्तु पूर्वसूत्रेणैव सिद्धः सर्वविभक्त्यन्तत्वात् । ५ देवदत्ताया भूतपूर्वा, असंज्ञाशब्दोऽयमन्यथा 'तद्धिताकक'-इति निषेधः स्यात् । ६ ननु पाशपः प्रत्ययस्य खार्थ उत्पन्नत्वात्, कुमारपाशादयोऽपि वयोवचना इति प्राप्नोति । सत्यम् । यत्र केवलवयोवाचिलं तत्रैव डीः, गौणमुख्ययोरिति न्यायात् कुमारपाशादयस्तु निन्दाविशिष्टवयोवाचिन इति । ७ सुसम्बद्ध इत्यर्थः। ८ अत्र 'कालाध्वभाव' इत्याधारस्य कर्मले द्वितीयान्तस्य वीप्सायां द्वित्वम् । ९ स्त्री वत्सा यस्याः सा तथा, संवत्सेत्युच्यमाने सह वत्सेन वत्सया वा वर्तते इति संशयः स्यात्, तन्निरासाय स्त्रीवत्सेत्युक्तम् । १० देवदत्तरूपात् द्रव्यादन्यद्रव्यं वस्त्रादि, तत्र समवायी यो गुणः सूक्ष्मवादिः तेन । ११ प्रकृष्टगुणवद्रव्यवतश्चैत्रादेः, परमार्थवृत्त्याऽस्यैव प्रकर्ष इत्यर्थः। १२ कुरोरपत्यानि 'दुनादि'-इति व्यः। 'बहुष्वस्त्रियाम्' इति तस्य लुप् । १३ द्वयोः शुक्लतरयोर्मध्ये प्रकृष्टः शुक्लतर इति विग्रहे सतीति ज्ञेयम् । १४ अनभिधानादित्यर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org