________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । आतिशायिकप्रत्ययाः
४५९ पदातिशये पूर्वपदादहुव्रीहेर्वा आतिशायिकः प्रत्ययः स्यात्-सूक्ष्मतमवत्रः सूक्ष्मवत्रतमो वेति । उत्तरपदातिशये तु उत्तरपदादेव बह्वाट्यकतम इति । बहव आढ्यतमा यत्र बैह्वाव्यतमकः। केचित्तु पूर्वपदातिशयेऽपि बहुव्रीहेरेव प्रत्ययमिच्छन्ति-द्वयोः प्रकर्षे तरपो विधानाद्बहूनां प्रकर्षेऽयं विधिः । ननु कथं तर्हि आढ्यं नगरं आढ्यतमोऽयम् नगरे इति ? अत्रोच्यते-एकस्मिन्नपि निर्दिष्टे समुदाये तदन्तर्गतावयवान्तरापेक्षया प्रकर्षे भवति । पकारः पुंवद्भावार्थः । शुक्लतमा शाटी ॥ अत्रायं विशेषः-“वान्त-५ मान्तितमान्तितोऽन्तियान्तिषत्" (७।४।३१) । एते पञ्च तमबादिप्रत्ययान्ता वा निपात्यन्ते । अयमेषामतिशयेनान्तिकः अन्तमः, पक्षे अन्तिकतमः । अत्रान्तिकशब्दस्य तमप्प्रत्यये तिकशब्दलोपो "नोऽप्रशानोऽनुस्वारानुनासिको च पूर्वस्याधुटपरे" (१।३।८) इति संकाराभावश्च निपात्यते-अयमेषामतिशयेनान्तिकः अन्तितमः-अत्र कलोपः, पक्षे अन्तिकतमः । अन्तिकादागच्छति अन्तित आगच्छति-अत्रापादानलक्षणे तसौ कशब्दलोपः, पक्षे अन्तिकतः। अन्तिके साधुः अन्तियः-अत्र यप्रत्यये १० कलोपः, इकारस्य च लोपाभावः, पक्षे अन्तिक्यः । अन्तिके सीदति अन्तिषत् अत्र सदिति क्विबन्ते कलोपः, सस्य षत्वश्च; पक्षे अन्तिकसद् । अत्र सूत्रम् ।
द्वयोर्विभज्ये च तरप् ॥ १२५ ॥ [ सि० ७३६] द्वयोर्मध्ये प्रकृष्टे विभज्ये च तरप् स्यात् । इयं पट्वी, इयं पट्वी, इयमनयोः प्रकृष्टा पट्वी पटुतरा । स्रोनेभ्यो माथुरा आढ्यतराः॥ "कचित्" (७३।७)। स्वार्थे यथालक्ष्यं तरप् । अभिन्न-१५ तरकम् ॥ १२५ ॥ ___ "द्वयोः" द्वयोरिति-द्वयोस्तगुणयोरर्थयोर्मध्ये यः प्रकृष्टस्तस्मिन्विषये विभज्ये विभक्तव्ये च प्रकृष्टेऽथे वर्तमानान्नाम्नस्तरप् स्यात् , तमपोऽपवादः, पकारः पुंवद्भावार्थः, तथाचोदाहरति-पटुतरेति । एवं पाचकतरः प्राग्वत् । गोतरो यः शकटं सीरं च वहति, गोतरा या समांसमां विजायते स्त्रीवत्सा च । दन्ताश्च
औष्ठौ च दन्तौष्ठम् , दन्तौष्ठस्य दन्ताः स्निग्धतरा:-अत्र यद्यपि विग्रहे बहुत्वं प्रतीयते तथापि समाहा-२० रेऽवयवौ स्वार्थमा दन्तत्वादिलक्षणमऽभेदैकत्वसङ्ख्यायोग्युपाददाते न सङ्ख्याभेदमिति द्वयोरेव प्रकर्षः। यदा पुनरितरेतरयोगस्तदा बह्वर्थप्रकर्ष इति तमवेव भवति । अस्माकं च देवदत्तस्य च देवदत्तोऽभिरूपतरःअत्रास्माकमित्येकस्यैव "अविशेषणे द्वौ चास्मदः" (२।२।१२२) इति बहुवद्भावः। परुद्भवान्पटुरासीत् पटुतर ऐषमः-अत्रैकस्यापि पर्यायार्थार्पणया द्वित्वमिति द्वयोरेव प्रकर्षः । सौन्नेभ्यो माथुरा आध्यतरा इति विभज्ये प्रकृष्टे उदाहरणम् । स्रोनेषु माथुराणामप्रवेशाद्विभागः, विभज्यस्य च विशेषणमप्याव्याद्यर्थः २५ प्रकृष्टं विभज्यं भवति ततः प्रत्ययः । साङ्काश्यकानां पाटलिपुत्रकाणां च पाटलिपुत्रका आत्यतमा इत्यत्र राश्यपेक्षया द्वित्वेऽपिशब्देन बहुत्वोपादानात्तरप् न स्यात्। विभज्यग्रहणमद्वित्वार्थम् ॥"कचित्" अभिन्नमेव अभिन्नतरकम् । एवं उच्चैरेवोच्चैस्तराम् । कचिद्रहणं शिष्टप्रयोगानुसरणार्थम् ॥ १२५ ॥ २८
१ प्रयोगे बहुव्रीहिज्ञापनाय कच् दर्शितः। २ तन्मते सूक्ष्मतमवस्त्रा इति प्रयोगो न भवति । ३ यदि बहूनां प्रकर्षेऽयं विधिस्तर्हि प्रधानतमोऽयं ग्राम इत्यत्र प्रामपुरुषयोर्द्वयोः प्रकर्षे न प्राप्नोतीति कथमर्थः, उत्तरं तु सुगममेव । ४ 'नामसिदय्व्यजने' इति पदयात्सकारः प्राप्तः । ५ स विवक्षितः समानो गुणो ययोरिति विग्रहः । ६ न विद्यते मेदो यस्याः सा अमेदा. अमेदा चासावेकलसङ्ख्या च । यथोषधिरसाः सर्वे मधुन्याहितशक्तयः । अविभागेन वर्तन्ते तां सङ्ख्यां तादृशीं विदुः ॥१॥ चैत्रेण चैत्राभ्यां चैत्रैर्वा भूयत इत्यत्र या सङ्ख्या सा अमेदैकत्वसति । ७ पर्यायेषु पटुपटुतरादिषु अर्धस्य विशेषस्य चैत्रादेरर्पणा दौकनम्। ८ प्रकर्षद्वारेण विभज्यद्वारेणापि न भवति, षष्ठ्यन्तपदाभ्यां समुदायस्याभिन्नस्यैव प्रतिपादनात. न खत्राप्यपायप्रतिपादिका पञ्चम्यस्ति अपि तु चकारेणाविभागः प्रतीयते । ९ ननु द्वयोरित्युक्तेऽपि अत्र न भविष्यति किं विभज्यग्रहणेनेत्याह वि.-विभज्ये इत्यसति द्वयोरेव प्रकृष्टे स्यात् । ततश्चासत्यपि हि द्वित्वे विभज्ये यथास्यादित्येवमर्थम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org