________________
४६० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
किन्त्यायेऽव्ययादसत्त्वे तयोरन्तस्याम् ॥ १२६ ॥ [सि० ७॥३॥८] किमस्त्यायन्तादेदन्तादव्ययाच परयोस्तमप्तरपोरन्तस्याम् स्यात्, न चेत्तौ सत्त्वे द्रव्ये वर्तते । किन्तमाम् , किन्तराम् । अयमेषां प्रकृष्टं पचति पचतितमाम् । अयमनयोः प्रकृष्टं पचति पचतितराम् । पूर्वाह्नेतराम् २ । अतितराम् २ भुते । असत्त्वे किम् ? किन्तरं दारु ॥ १२६ ॥ ५ "किन्त्या." किन्तरामिति-इदमनयोरतिशयेन किंपचति किन्तरां पचति । किन्तमामितिइदमेषामतिशयेन किंपचति किंतमा पचति । अयमनयोरिति-अस्मादेव वचनात्त्याद्यन्तादपि व्यर्थप्रकर्षे तरप बह्वर्थप्रकर्षे च तमप् भवति । पूर्वाहेतरामिति-द्विकेन तमप्प्रत्ययरूपम् । एवमपराहेतराम् २ । प्राहेतराम् २ । प्रगेतराम् २ । अग्रेतराम् २ । अग्रेशब्दोऽपि कालवाची । एग्रहणात्काले सत्त्वेऽप्याम्
भवति नान्यस्मादेदन्ताभावात् । अथवा विभक्त्यर्थो न द्रव्यम् । तत्प्रकर्षेऽत्र तरप्तमपौ । शोभनो १० हेशब्दो यस्य स सुहेतर इत्यत्रानभिधानान्न भवति । क्रियाशब्देभ्यश्च. जयतीति विचि जेः, जेतर इत्यादि । अव्यय. अभितरामिति एवमतितरां २ । सुतरां २ । नितरां २ । उच्चैस्तराम् २ । किन्तरं दार्विति-एवं उच्चैस्तरं २ । उत्तरः । उत्तमः ॥ १२६ ।।
गुणागाद्वेष्ठेयसू ॥ १२७ ॥ [सि०७३।९] गुणप्रवृत्तिहेतुकात्तमप्तरपोर्विषये यथासङ्ख्यमेतौ वा स्याताम् । अयमेषां प्रकृष्टः पटुः पटिष्ठः १५पटुतमः । अयमनयोः प्रकृष्टः पटुः पटीयान् पटुतरः । "प्रशस्यस्य श्रः" (७४।३४)।
णीष्ठेयस्सु । प्रकृष्टः प्रशस्यः श्रेष्ठः श्रेयान् ॥ *वृद्धप्रशस्ययोर्व्यः । ज्येष्ठः ॥ "ज्यायान्" (४।३६) अयमीयसौ साधुः ॥ “अल्पयूनोः कन्वाः ” (७४।३३)। कनिष्ठः २ अल्पिष्ठः २ यविष्ठः २ ॥ “बाढान्तिकयोः साधनेदौ” (७४।३७)। ण्यादिषु प्रकृष्टो बाढः साधिष्ठः साधीयान् । प्रकृष्टोऽन्तिको नेदिष्ठः नेदीयान् ॥ प्रियस्थिरेत्यादिना ििप्रयादीनां प्राधादेशे २० प्रकृष्टः प्रियः प्रेष्ठः प्रेयान् । स्थेष्ठः स्थेयान् ॥ "बहोर्णीष्ठे भूय” (७।४।४०)। भूयिष्ठः । ईयसौ ॥
"भूलकचेवर्णस्य” (७४।४१)। भूयान् । स्थूिलदूरेत्यादिना स्थूलादीनामन्तस्थादिलोपे नामिनो गुणे च स्थविष्ठः स्थवीयान् । दविष्ठः दवीयान् ॥ "विन्मतोर्णीष्ठेयसौ लुप्” (७।४।३२) । प्रकृष्टः स्रग्वी स्रजिष्ठः । एवं त्वचिष्ठः ॥ १२७ ॥
"गुणा" । गुणप्रवृत्तिहेतुकादिति-यः शब्दो गुणमभिधाय द्रव्ये वर्त्तते तस्मादित्यर्थः । यथा२५ सयमेतौ इति-इष्ठेयसू । तमबर्थे इष्ठः, तरबर्थे च ईयसुः पक्षे यथाप्राप्तं तरप्तमपावपि; तथैवोदा
हरति-अयमेषामित्यादि । एवं लघिष्ठः लघुतमः लघीयान् लघुतरः । एवं गरिष्ठः २ । गरीयान् २॥ विभज्यार्थतरब्विषयेऽपि माथुरेभ्यः पाटलिपुत्रकाः पटीयांसः पटुतराः । गुणग्रहणं किम् ? गोतमः गोतरः पाचकतमः पाचकतर:-अत्र जातिक्रियाङ्गत्वान्न भवति । अङ्गग्रहणं किम् ? शुक्लतमम् । शुक्लतरं रूपम्-अत्र हि गुण एव वृत्तिर्न तदुपसर्जने [ स गुण उपसर्जनं यत्र तत्र ] द्रव्ये इति न
भवति । ईयसोरुकार उदित्कार्यार्थ:-पटीयसी ॥ "प्रशस्यः" । णीष्ठेयसुषु इति–णौ प्रशस्यमाचष्टे ३१ श्रयति श्रेष्ठः इति; अयमेषां प्रकृष्टः प्रशस्यः श्रेष्ठः अयमनयोः प्रकृष्टः प्रशस्यः श्रेयान् । *वृद्धप्रशस्य
-
१नामप्रस्तावात् 'त्यादेश्च प्रशस्ते रूपप्' इति वचनाच नाम्न एवं प्राप्नुत इत्याशयः। २ यद्यपि पूर्वाह्नोऽपराह्न इति काला सत्त्वमत्र नामार्थः, तथापि विभक्त्यर्थों याऽधिकरणशक्तिने सा आधेयपरतत्रा इति तस्या असत्त्वात्तत्र प्रत्यय इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org