________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे तद्धिताः । आतिशायिकाद्यर्थाः योW इति, अत्र सूत्रम्-"वृद्धस्य च ज्यः” (७४।३५) । णीष्ठेयसुषु ॥ "ज्या"। अयमीयसौ साधुरिति-पूर्वसूत्रे विहितात् ज्यादेशात्परस्य ईयसोरीकारस्याफारादेशो निपात्यते अयमनयोरतिशयेन प्रशस्यो वृद्धो वा ज्यायान् , ज्यायसी ॥ "अल्प."। अनयोर्णीष्ठेयसुषु कन्वा स्यात् । अल्पं युवानं वा आचष्टे कनयति अयमेषामनयोरतिशयेनाल्पो युवा वा कनिष्ठः कनीयान् ; पक्षे अल्पयति अल्पिष्ठः अल्पीयान् , यवयति यविष्ठः यवीयान् ॥ "बाढा."। णौ । बाढं अन्तिकं वा आचष्टे साधयति, नेद-५ यति । *इमन्प्रत्ययाधिकारे सूत्राणामुक्तत्वादत्र स्मरयति *प्रियेत्यादि वार्तिकम्-प्रेष्ठः प्रेयान् इति णौ प्रापयति । एवं स्थिरस्य स्थापयति स्थेष्ठः स्थेयान् । स्फिरस्य स्फाययति स्फेष्ठः स्फेयान् । उरोर्वर, उरुमाचष्टे वरयति, प्रकृष्ट उरुर्वरिष्ठो वरीयान्ः । गुरोर्गर, गरयति गरिष्ठः गरीयान । बहुलस्य बंह, बहयति बंहिष्ठः बंहीयान् । तृप्रस्य त्रप्, त्रपयति त्रपिष्ठः पीयान् । दीर्घस्य द्राघ, द्राघयति द्राधिष्ठः द्राधीयान् । वृद्धस्य वर्ष, वर्षयति वर्षिष्ठः वर्षीयान् । वृन्दारकस्य वृन्द, वृन्दयति वृन्दिष्ठः वृन्दीयान् ।१० वरादीनामकार उच्चारणार्थः । कश्चित्तु करोत्यर्थे णौ प्राद्यादेशं नेच्छति तन्मते प्रिययति स्थिरयतीत्यादि । "पृथुमृदु" इत्यादि वार्तिकम् [पृष्ठ ४२८ पति १९] प्रकृष्टः पृथुः प्रथिष्ठः प्रथीयान् । एवं बृदयति प्रदिष्ठः प्रदीयान् । भ्रशयति भ्रशिष्ठः भ्रशीयान् । क्रशयति ऋशिष्ठः क्रशीयान् । द्रढयति द्रविष्ठः द्रढीयान् । परिवढयति परिवढिष्ठः परिबढीयान् । केचित्तु वृढशब्दस्यापीच्छन्ति बढिमा बढिष्ठः वढीयान् ॥ "बहो." बहुशब्दस्य णीष्ठयोः परयोः भूय् इत्ययमादेशः स्यात्, भूभावापवादः । बहुमाचष्टे भूययति १५ प्रकृष्टो बहुभूयिष्ठः । बहोराख्यानं भूयनम् । णौ केचिद्विकल्पमाहुः-भूययति भूयनम् , पक्षे बयति बहनम् । बहोणी भाविति कश्चित्-भावयति ॥ ईयसावित्यादि-अत्र सूत्रम् "भूलकचेवर्णस्य" (७४।४१) अस्यार्थः-बहुशब्दस्य ईयसाविमनि च परे भू इत्यादेशो भवति, अनयोश्चेवर्णस्य लुग् भवति-भूयान भूयांसौ भूयांसः भू ऊ इत्यूकारप्रश्लेषादवादेशो न भवति । इवर्णस्येति किम् ? सर्वस्य मा भूत् "स्थूलदूर०” (७४।४२) इत्यादि कण्ठ्यम् । स्थविष्ठः इत्यादि-णौ तु स्थवयति । दव-२० यतीति-एवं यवयति यविष्ठः यवीयान् । ह्रसयति हसिष्ठः हसीयान् । क्षेपयति क्षेपिष्ठः क्षेपीयान् । क्षोदिष्ठः क्षोदीयान् । उत्तरेण "यन्त्यस्वरादेः” (७४।४३) अन्त्यखरलोपेऽनेनार्थीदन्तस्थाया लोपे सिद्धेऽन्तस्थादेरिति वचनं येन नाप्राप्ते इति न्यायेनान्त्यस्वरलोपं बाधित्वाऽनेनान्तस्थाया लोपो मा भूदित्येवमर्थम् ॥ "विन्म." णौ । स्रग्विणमाचष्टे खजयति । स्रजिष्ठ इति-अयमेषां स्रग्विणां प्रकृष्टः स्रग्वी स्रजिष्ठः । अयमनयोरतिशयेन स्रग्वी सजीयान् । एवं त्वग्वन्तमाचष्टे त्वचयति, अयमेषां २५ प्रकृष्टस्त्वग्वान त्वचिष्ठः । अयमनयोरतिशयेन त्वग्वान् त्वचीयान् । अत एव पचनादगुणाङ्गादपीठेयसू । निर्दिश्यमानत्वात्प्रत्ययमात्रस्य लुप् । एवं कर्तृमन्तमाचष्टे इति णौ "डयन्त्यखरादेः” (७४।४३) इति तृप्रत्ययलोपे अनेन मतुलोपे करयति अयमेषामतिशयेन कर्तृमान् करिष्ठः करीयान् ॥ १२७ ॥
- इत्यातिशायिकप्रत्ययप्रकरणम् ।
त्यादेश्च प्रशस्ते रूपम् ॥ १२८ ॥ [सि० ७।३।१०] ३० त्यायन्तानाम्नश्च प्रशस्ते रूपप् स्यात्, पचतिरूपम् वैयाकरणरूपः ॥ *तरवादिषु कचिद हखपुंवद्रावौ वा वक्तव्यौ-पचन्तितरां पचत्सरां पचन्तीतराम् ॥ १२८ ॥
"त्यादे." प्रशस्ते इति-प्रशस्तेऽर्थे वर्तमानादित्यर्थः । पचतिरूपमिति-एवं पचतोरूपम् , पचन्तिरूपम् । त्याद्यन्तानां क्रियाप्रधानत्वात्तस्याश्च साध्यत्वेन लिङ्गसङ्ख्याभ्यामयोगात् रूपबन्तस्यौत्सर्गिकमेकवचनं नपुंसकलिङ्ग च भवति । वैयाकरणरूप इति प्रकृते प्रवृत्तिनिमित्तस्य वैस्पट्यम् , परिपूर्णता वा ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org