________________
४६२
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
33
प्राशस्त्यं तेनात्रापि स्यात् - वृषलरूपोऽयमपि पलाण्डुना सुरां पिबेत् । दस्युरूपोऽयमप्यक्ष्णोरञ्जनं हरेत् । पटुतमरूपः। पटुतररूपः। पकारः पुंवद्भावार्थ:- दर्शनीयरूपा ।। *तरबादिष्विति अत्र सूत्रम् - "ऋदुदित्तरतमरूप कल्पन्ब्रुवचेलगोत्रमतहते वा हस्खश्च ( ३।२।६३) । ऋदित् उदिच्च परतः स्त्रीलिङ्गस्तरादिषु प्रत्ययेषु, ब्रुवादिषु च रूयेकार्थेषु ह्रस्वाऽन्तः पुंवच वा स्यात् । पचन्तितरा पचत्तरा पचन्तीतरा । ५ पचन्तितमा पचतमा पचन्तीतमा । श्रेयसितमा श्रेयस्तमा श्रेयसीतमा । विदुषितमा विद्वत्तमा विदुषीतमा ।। रूप. पचन्तिरूपा ३ । सर्वत्र हस्वपुंवद्भावोभयाभावैत्रैरूप्यं ज्ञेयम् - श्रेयसिरूपा ३ । विदुषिरूपा ३ || कल्प. पचन्तिकल्पा ३ । श्रेयसिकल्पा ३ । विदुषिकल्पा ३ । पचन्ती चासौ ब्रुवा च पचन्तित्रुवा ३ । विदुषिब्रुवा ३ । चेलट्. 'चेलत् वसने' चेलति गुणानिति लिहायच्, टिवचनं ङथर्थम् । पचन्ती चासौ चेली च पचन्तिचेली ३ । श्रेयसिचेली ३ । विदुषिचेली ३ ॥ अहं पचा१० मीत्येवं रूपां गां त्रायते इति गोत्रा "आतो ड०" ( ५।१।७६ ) इति डः । पचन्ती चासौ गोत्रा च पचन्तिगोत्रा ३ । श्रेयसिगोत्रा ३ । विदुषिगोत्रा ३ । मत. मन्यतेः सत्यर्थे “ज्ञानेच्छा०” (५।२।९२) इत्यादिना क्तः, पचन्ती चासौ मता च पचन्तिमता ३ । श्रेयसिमता ३ । विदुषिमता । विद्वन्मता विदुषीमता । हत. पचन्ती चासौ हता च पचन्तिहता ३ । श्रेयसिहता ३ । विदुषिहता ३ । एवमन्ये ऋदुदितो ज्ञेयाः - सुदतितरा सुदत्तरा सुदतीतरेत्यादि । ब्रुवादयः कुत्साशब्दाः “निन्द्यं कुत्सनै ० १५ ( ३।१।१०० ) इति समासः । ऋदुदिदिति किम् ? कुमारितरा किशोरितमा । "ङयः” इति सूत्रेण ह्रस्वः । एकार्थे इत्येव – पचन्त्या हता पचन्तीहता । तरबादिष्विति किम् ? पचन्तीपाशा । विद्वद्वृन्दारिका ॥ “ङयः” (३।२।६४ ) । ङयन्तस्य परतः स्त्रीलिङ्गस्य तरादिषु चतुर्षु प्रत्ययेषु ब्रुवादिषु पञ्चसूत्तरपदेष्वेकार्थेषु ह्रस्वः स्यात् । गौरितरा गौरितमा । नर्त्तकरूपा । कुमारिकल्पा । ब्राह्मणबुवा | गार्गिचेली । ब्राह्मणिगोत्रा । गार्गिगोत्रा । गार्गिमता । गौरिहता । दर्शनीयतरा, विद्वद्वृन्दारिकेत्यादौ २० पुंवद्भावः सावकाशः, नर्तकिरूपेत्यादौ तु कोपान्त्यत्वात्पुंवद्भावप्रतिषेधादयं विधिः, गौरितरेत्यादौ तूभयप्राप्तौ " स्पर्धे” (७|४|११९ ) पर इति परत्वादयमेव विधिर्यथाप्राप्तं पुंवद्भावं बाधते । ङय इति किम् ? मद्रिकातरा । परत: स्त्रिया इत्येव - बदरीतरा आमलकीतरा । “नवैकस्वराणाम्” (३।२।६६) इत्युत्तरत्र वचनादनेकस्वरस्यैवायं विधिः ॥ भोगवद्गौरिमतोर्नाम्नि” ( ३।२।६५) । संज्ञायां वर्त्तमानयोरनयोर्डीप्रत्ययस्य तरादिषु, ब्रुवादिषु च ह्रस्वः स्यात् । भोगवतितमा । गौरिम२५ तिब्रुवा । नाम्नीति किम् ? भोगावतितरा ३ - प्राग्वत्रैरूप्यम् || "नवैकस्वराणाम्” ( ३।२।६६ ) । बहुवचनात्परतः स्त्रीति निवृत्तम् । सामान्येन तु विधानम् । रुयेकार्थे इत्यनुवर्त्तते । एकस्वरस्य ङन्तस्य तरादिषु, ब्रुवादिषु चोत्तरपदेषु रूयेकार्थेषु ह्रस्वो वा स्यात् । स्त्रितरा स्त्रीतरा । ज्ञस्य भार्या ज्ञी, ज्ञितमा ज्ञीतमा । अस्यापत्यं स्त्री ई, इरूपा ईरूपा । कस्य भार्या की, किकल्पा की कल्पा । ब्रुिवा झीब्रुवा । इचेली ईचेली । किगोत्रा कीगोत्रा । स्त्रिमता स्त्रीमता । स्त्रिहता स्त्रीहता । क
३० किम् ? कुटीतमा । ङय इत्येव - श्रीतरा श्रीतमा । एकार्थ इत्येव स्त्रिया हता स्त्रीहता । नित्यदितामनेकस्वराणामपीच्छन्त्येके, तन्मते आमलकितरा बदरितरा कुवलिरूपा लक्ष्मिकल्पा तन्त्रितरेत्याद्यपि भवति ।। “ऊङः” (३।२।६७) । ऊङन्तस्य तरादिषु, ब्रुवादिषु चोत्तरपदेषु रूयेकार्थेषु वा ह्रस्वः स्यात् । ब्रह्मबन्धुतरा ब्रह्मबन्धूतरा । वामोरुतरा वामोरूतरा । मद्रबाहुरूपा मद्रबाहूरूपा । कमण्डलुकल्पा कमण्डलूकल्पा । कब्रुब्रुवा कद्रब्रुवा । पङ्गचेली पङ्गचेली । श्वश्रुगोत्रा श्वश्रूगोत्रा । कुरुमता कुरूमता । भीरुहता भीरूहता । एकार्थ इत्येव - भीर्वा हता भी रूहता ॥ पटुतमरूपः पटुतररूपः । पकारः ३६ पुंवद्भावार्थ:- दर्शनीयरूपा ।। १२८ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org